संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहदारण्यकोपनिषद्भाष्यार्थ|प्रथमाध्यायः|तृतीयं बाम्हणं| भाष्यं ५ तृतीयं बाम्हणं भाष्यं १ भाष्यं २ भाष्यं ३ भाष्यं ४ भाष्यं ५ भाष्यं ६ भाष्यं ६ भाष्यं ७ भाष्यं ८ भाष्यं ९ भाष्यं ९ भाष्यं १० भाष्यं ११ भाष्यं १२ भाष्यं १३ भाष्यं १४ भाष्यं १५ भाष्यं १६ भाष्यं १७ तृतीयं बाम्हणं - भाष्यं ५ सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते. Tags : बृहदारण्यविष्णुशास्त्री वामन बापटसंस्कृत भाष्यं ५ Translation - भाषांतर भाष्यं :--- जनु कलञ्जादिभक्षणादेरनर्थार्थत्ववस्तुयाथात्म्यज्ञानस्मृत्या स्वाभाविके तद्भक्ष्यत्वादिविपरीतज्ञाने निवर्तिते तद्भक्षणाद्यनर्थप्रवृत्त्यभाववदप्रतिषेधविषयत्वाच्छास्त्रविहितप्रवृत्त्यभावो न युक्त इति चेतू । न । विपरीतज्ञाननिमित्तत्वानर्थार्थत्वाभ्यां तुल्यत्वात । कलञ्जभक्षणादिप्रवृत्तेर्मिथ्याज्ञाननिमित्तत्वमनर्थार्थत्वं च यथा तथा सास्त्रविहितप्रवृत्तीनामपि । तस्मात्पर्मात्मयाथात्म्यविज्ञानवत: शास्त्रविहितप्रवृत्तीनामपि मिथ्याज्ञाननिमित्तत्वेनानर्थार्थत्वेन च तुल्यत्वात्पर्मात्मज्ञानेन विपरीतज्ञाने निवर्तिते युक्त एवाभाव: ॥भाष्यं :--- ननु तत्र युक्तो नित्यानां तु केवलशास्त्रनिमित्तत्वादनर्थार्थत्वाभावाच्चाभावो न युक्त इति चेत । न । अविद्यारागद्वेषादिदोषवतो विहितत्वात ॥ भाष्यं :--- यथा स्वर्गकामादिदोषवतो दर्शपौर्णमासादीनि काम्यानि कर्माणि विहितानि तथा सर्वानर्थवीजाविद्यादिदोषवतस्तज्जनितेष्टानिष्टप्राप्तिपरिहाररागद्वेषादिदोषवतश्च तत्प्रेरिताविशेषप्रवृत्तेरिष्टानिष्टप्राप्तिपरिहारार्थिंनो नित्यानि कर्माणि विदीयन्ते न केवलं शास्त्रनिमित्तान्येव । न चाग्निहोत्रदर्शपूर्णमासचातुर्मास्यपशुबन्धसोमानां कर्मणां स्वत: काम्यनित्यत्वविवेद्कोऽस्ति । कर्तृगतेन हि स्वर्गादिकामदोषेण कामार्थता । तथाऽविद्यादिदोषवत: स्वभावप्राप्तेष्टानिष्टप्राप्तिपरिहारार्थिनस्तदर्थान्येव नित्यानीति युक्तं तं प्रति विहितत्वात ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP