संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः|
अध्यायः ६४

मध्यम भागः - अध्यायः ६४

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.


सूत उवाच
अनुजस्य विकुक्षेस्तु निमेर्वंशं निबोघत ।
योऽसौ निवेशयामास पुरं देवपुरोपमम् ॥१॥

जयन्तमिति विख्यातं गौतमस्याश्रमान्तिकम् ।
यस्यान्ववाये जज्ञे वै जनको नृपसत्तमः ॥२॥

निमिर्नाम सुधर्मात्मा सर्वसत्त्वनमस्कृतः ।
आसीत्पुत्रो महाराज चैक्ष्वाकोर्भूरितेजसः ॥३॥

स शापेन वसिष्ठस्यविदेहः समपद्यत ।
तस्य पुत्रो मिथिर्नाम जनितः पर्वभिस्त्रिभिः ॥४॥

अरण्यां मथ्यमानाया प्रादुर्भूतो महायशाः ।
नाम्ना मिथिरिति ख्यातो जननाज्जनकोऽभवत् ॥५॥

मिथिर्नाम महावीर्यो येनासौ मिथिलाभवत् ।
राजासौ नाम जनको जनकाच्चा प्युदावसुः ॥६॥

उदावसोस्तु धर्मात्मा जातोऽसौ नन्दिवर्द्धनः ।
नन्दिवर्धनतः शूरः सुकेतुर्नाम धार्मिकः ॥७॥

सुकेतोरपि धर्मात्मा देवरातो महाबलः ।
देवरातस्य धर्मात्मा बृहदुक्थ इति श्रुतः ॥८॥

बृहदुक्थस्य तनयो महावीर्यः प्रतापवान् ।
महावीर्यस्य धृतिमान् सुधृति स्तस्य चात्मजः ॥९॥

सुधृतेरपि धर्मात्मा धृष्टकेतुः परन्तपः ।
धृष्टकेतुसुतश्चापि हर्यश्वो नाम विश्रुतः ॥१०॥

हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतिंबकः ।
प्रतिंबकस्य धर्मात्मा राजा कीर्त्तिरथः स्मृतः ॥११॥

पुत्रः कीर्त्तिरथस्यापि देवमीढ इति श्रुतः ।
देवमीढस्य विबुधो विबुधस्य महाधृतिः ॥१२॥

महाधृतिसुतो राजा कीर्त्तिरातः प्रतापवान् ।
कीर्तिरातात्मजो विद्वान्महारोमेति विश्रुतः ॥१३॥

महारोम्णस्तु विख्यातः स्वर्णरोमा व्यजायत ।
स्वर्णरोमात्मजश्चापि ह्रस्वरोमाभवन्नृपः ॥१४॥

ह्रस्वरोमान्मजो विद्वान् सरिद्ध्वज इति श्रुतः ।
उद्भिन्ना कर्षता येन सीता राज्ञा यशस्विनी ॥१५॥

रामस्य महिधी साध्वी सुव्रता नियतव्रता ।
वैशंपायन उवाच
कथं सीता समुत्पन्न कृष्यमाण यशस्विनी ॥१६॥

किमर्थं वाकृषद्राजा क्षेत्रं यस्मिन् बभूव ह ।
सूत उवाच
अग्निक्षेत्रे कृष्यमाणे अश्वमेधे महात्मनः ॥१७॥

विधिना सुप्रयत्नेन तस्मात्सा तु समुत्थिता ।
सीरध्वजानुजातस्तु भानुमान्नाम मैथिलः ॥१८॥

भ्राता कुशध्वजस्तस्य स काश्यधिपतिर्नृपः ।
तस्य भानुमतः पुत्रः प्रद्युम्नश्च पतापवान् ॥१९॥

मुनिस्तस्य सुतश्चापि तस्मादूर्जवहः स्मृतः ।
ऊर्जवहात्सनद्वाजः शकुनिस्तस्य चात्मजः ॥२०॥

स्वागतः शकुनेः पुत्रः सुवर्चास्तत्सुतः स्मृतः ।
सुतोपस्तस्य दायादः सुश्रुतस्तस्य चात्मजः ॥२१॥

सुश्रुतस्य जयः पुत्रो जयस्य विजयः सुतः ।
विजयस्य क्रतुः पुत्र क्रतोश्च सुनयः स्मतः ॥२२॥

सुनयाद्वीतहव्यस्तु वीतहव्यात्मजो धृतिः ।
धृतेस्तु बहुलाश्वोऽभूद्बहुलाश्वसुतः कृतिः ॥२३॥

तस्मिन्संतिष्ठते वंशो चनकानां महात्मनाम् ।
इत्येते मैथिलाः प्रोक्ताः सोमस्यापि निबोधत ॥२४॥

एति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीये उपोद्धातपादे निमिवंशानुकीर्तनं नाम चतुःषष्टितमोऽध्यायः॥६४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP