संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्माण्डपुराणम्|मध्यम भागः|
अध्यायः २

मध्यम भागः - अध्यायः २

ब्रह्माण्डाच्या उत्पत्तीचे रहस्य या पुराणात वर्णिलेले आहे.

सूत उवाच
विनिवृत्ते प्रजासर्गे षष्ठे वै चाक्षुषस्य ह ।
प्रजाः सृजेति व्यदिष्टः स्वयं दक्षः स्वयंभुवा ॥१॥

ससर्ज सर्वभूतानि गतिमन्ति ध्रुवाणि च ।
मानसानि च भूतानि स पूर्वमसृजत्प्रभुः ॥२॥

ऋषीन्देवांश्च गन्धर्वान्मनुष्योरगराक्षसान् ।
यक्षभूतपिशाचांश्च वयः पशुमृगांस्तथा ॥३॥

यदास्य मनसा सृष्टा न व्यवर्द्धन्त ताः प्रजाः ।
अपध्याता भगवता महादेवेन धीमता ॥४॥

स मैथुनेन भावेन सिसृक्षुर्विविधाः प्रजाः ।
असिक्रीमावहद्भार्यां वीरणस्य प्रजापतेः ॥५॥

सुतां सुमहता युक्तां तपसा लोक धारिणीम् ।
यया धृतमिदं सर्वं जगत्स्थावरजङ्गमम् ॥६॥

अत्राप्युदाहरन्तीमौ श्लोकौ प्राचेतसां प्रति ।
दक्षस्योद्वहतो भार्यांमसिक्रीं वैरणीं पुरा ॥७॥

कृपानां नियुतं दक्षं सर्पिणां साभिमानिनाम् ।
नदीगिरिष्बसज्जन्तं पृष्ठतोऽनुययौ प्रभुम् ॥८॥

तं दृष्ट्वा ऋषिभिः प्रोक्तं प्रतिष्ठास्यति वै प्रजाः ।
प्रथमोऽत्र द्वितीयस्तु दक्षः स हि प्रजापतिः ॥९॥

अथागच्छद्यथाकालं प्रहीनां नियुतं तु यत् ।
असिक्रीं वैरणीं तत्र दक्षः प्राचेतसोऽवहत् ॥१०॥

अथ पुत्रसहस्रं स वैरण्याममितौजसम् ।
असिक्न्यां जनयामास दक्षः प्राचे तसः प्रभुः ॥११॥

तांस्तु दृष्ट्वा महातेजाः स विवर्द्धयिषुः प्रजाः ।
देवर्षिप्रियसंवादो नारदो ब्रह्मणः सुतः ॥१२॥

नाशाय वचनं तेषां शापयैवात्मनोऽब्रवीत् ।
यः कश्यपसुतस्याथ परमेष्ठी व्यजायत ॥१३॥

मानसः कश्यपस्यासीद्दक्षशापवशात्पुनः ।
तस्मात्स काश्यपस्याथ द्वितीयो मानसोऽभवत् ॥१४॥

स हि पूर्वं समुत्पन्नो नारदः परमेष्ठिनः ।
तेन वृक्षस्य पुत्रा वै हर्यश्वा इति विश्रुताः ॥१५॥

धर्मार्थं नाशिताः सर्वे विधिना च न संशयः ।
तस्योद्यतस्तदा दक्षः क्रुद्धः शापाय वै प्रभुः ॥१६॥

ब्रह्मर्षीन्वै पुरस्कृत्य याचितः परमेष्ठिना ।
ततोऽभिसंधिं चक्रे वै दक्षश्च परमेष्ठिना ॥१७॥

कन्यायां नारदो मह्यं तव पुत्रो भवेदिति ।
ततो दक्षः सुतां प्रदात्प्रियां वै परमेष्ठिने ।
तस्मात्स नारदो जज्ञे भूयः शापभयदृषिः ॥१८॥

शांशपायन उवाच
कथं वै नाशिताः पूर्वं नारदेन सुरर्षिणा ।
प्रजापतिसुतास्ते वै श्रोतुमिच्छामि तत्त्वतः ॥१९॥

सूत उवाच
दक्षपुत्राश्च हर्यश्वा विवर्धयिषवः प्रजाः ।
समागता महावीर्या नारदस्तानुवाच ह ॥२०॥

बालिशा बत यूयं वै न प्रजानीथ भूतलम् ।
अन्तरूर्ध्वमधश्चैव कथं स्रक्ष्यथ वै प्रजाः ॥२१॥

ते तु तद्वचन श्रुत्वा प्याताः सर्वतो दिशम् ।
अधापि म निवर्त्तन्ते समुद्रस्था इवापगाः ॥२२॥

अथ तेषु प्रणष्टेषु दक्षः प्राचे तसः पुनः ।
वैरण्यामेव पुत्राणां सहस्रमसृजत्प्रभुः ॥२३॥

प्रजा विवर्द्धयिषवः शबलाश्वाः पुनस्तु ते ।
पूर्वमुक्तं वचस्तद्वै श्राविता नारदेन ह ॥२४॥

अन्योन्यमूचुस्ते सर्वे सम्यगाह ऋषिः स्वयम् ।
भ्रातॄणां पदवीं चैव गन्तव्या नात्र संशयः ॥२५॥

ज्ञात्वा प्रमाणं पृथ्व्या वै सुखं स्रक्ष्यामहे प्रजाः ।
प्रकाशाः स्वस्थमनसा यथावदनुशासिताः ॥२६॥

तेऽपि तेनैव मार्गेण प्रयाताः सर्वतो दिशम् ।
अद्यापि न निवर्त्तन्ते विस्तारायमलिप्सवः ॥२७॥

ततः प्रभृति वै भ्राता भ्रातुरन्वेषणे रतः ।
प्रयतो नश्यति क्षिप्रं तन्न कार्यं विजानता ॥२८॥

नष्टेषु शबलाश्वेषु दक्षः क्रुद्धोऽशपद्विभुः ।
नारदं नाशमेहीति गर्भवासं वसेति च ॥२९॥

तदा तेष्वपि नष्टेषु महात्मा स प्रभुः किल ।
षष्टिं दक्षोऽसृजत्कन्या वैरण्यामेव विश्रुताः ॥३०॥

तास्तदा प्रतिजग्राह पत्न्यर्थं कश्यपः सुताः ।
धर्मः सोमश्च भगवांस्तथा चान्ये महर्षयः ॥३१॥

इमां विसृष्टिं दक्षस्य कृत्स्नां यो वेद तत्त्वतः ।
आयुष्मान्कीर्त्तिमान्धन्यः प्रजावाश्च भवत्युत ॥३२॥

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे प्रजापतिवंशानुकीर्त्तनं नाम द्वितीयोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP