मराठी मुख्य सूची|स्तोत्रे|अन्य देवता स्तोत्रे|उमासहस्रम्| चतुस्त्रिंशः स्तबकः उमासहस्रम् प्रथमः स्तबकः द्वितीयः स्तबकः तृतीयः स्तबकः चतुर्थः स्तबकः पञ्चमः स्तबकः षष्ठः स्तबकः सप्तमः स्तबकः अष्टमः स्तबकः नवमः स्तबकः दशमः स्तबकः एकादशः स्तबकः द्वादशः स्तबकः त्रयोदशः स्तबकः चतुर्दशः स्तबकः पञ्चदशः स्तबकः षोडशः स्तबकः सप्तदशः स्तबकः अष्टादशः स्तबकः एकोनविंशः स्तबकः विंशः स्तबकः एकविंशः स्तबकः द्वाविंशः स्तबकः त्रयोविंशः स्तबकः चतुर्विंशः स्तबकः पञ्चविंशः स्तबकः षड्विंशः स्तबकः सप्तविंशः स्तबकः अष्टाविंशः स्तबकः एकोनत्रिंशः स्तबकः त्रिंशः स्तबकः एकत्रिंशः स्तबकः द्वात्रिंशः स्तबकः त्रयस्त्रिंशः स्तबकः चतुस्त्रिंशः स्तबकः पञ्चत्रिंशः स्तबकः षट्त्रिंशः स्तबकः सप्तत्रिंशः स्तबकः अष्टत्रिंशः स्तबकः एकोनचत्वारिंशः स्तबकः चत्वारिंशः स्तबकः उमासहस्रम् - चतुस्त्रिंशः स्तबकः देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. A Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Tags : godgoddessstotraumaउमादेवतादेवीस्तोत्र चतुस्त्रिंशः स्तबकः Translation - भाषांतर प्रार्थना (हरिणीवॄत्तम्)विदितमहिमा विश्वाधानादनेकविधाद्भुतात्प्रथितचरितः शर्वालोकप्रतापविवर्धनात् ।प्रकटितगुणः पापध्वान्तप्रसारनिरोधनात्प्रदिशतु शिवाहासो भासां निधिः कुशलानि मे ॥१॥हृदि करुणया पूर्णा बाह्वोर्बलेन महीयसापदकमलयोर्लक्ष्म्या भक्तैर्जनैरुपजीव्यया ।मुखसितकरे लावण्येन त्रिणेत्रदृशां बलंबहु विदधता काली माताऽवतात्पदसेविनम् ॥२॥जगदधिपया सिद्धं दोग्ध्र्याऽथवोत रसज्ञयामुनिजननुतं देवीमन्त्रं जपेद्यदि मानवः ।अमृतजलदीभूतः पूतः वियोगविशेषवित्स इह वसुधालोके धारा गिरामभिवर्षति ॥३॥इममभिमुखीभूता शातोदरी कमलालयाहयगजघटापूर्णाऽभ्यर्णं समेत्य निषेवते ।सविबुधमिदं विश्वं तस्य प्रयाति पुनर्वशंप्रथितयशसां सिद्धीनां चाप्यमुं भजतेऽष्टकम् ॥४॥सुविमलधियस्तस्य क्रोधाद् दृगम्बुधुतद्युतीरिपुजनवधूगण्डाभोगो भवेदुत पाण्डुरः ।सपदि भुवनव्याप्तं चाप्तैः प्रमाणपुरस्सरंभणितमजरं भद्रं ज्योतिः परं हृदि भासते ॥५॥अदयमरिभिः क्रान्ते राष्ट्रे त्वमीश्वरि रक्षिकासुमशरमुखैर्धूते चित्ते त्वमीश्वरि रक्षिका ।प्रबलदुरितैर्ग्रस्ते वंशे त्वमीश्वरि रक्षिकाऽप्यसृजति जलं मेघे मोघे त्वमीश्वरि रक्षिका ॥६॥भगवति निजौ साक्षात्पुत्रौ बृहस्पतिपावकौगणपतिगुहावेतौ वेषान्तरव्यवहारतः ।भरतधरणीखण्डे हेतोः कुतः कृतसम्भवौकलकलयुते काली देवि व्यधाः कथय द्रुतम् ॥७॥समयमयि ते धृत्वा पादाम्बुजं रमणः सुतोगिरिवरगुहास्वन्तः शान्तो नयेद्यदि नाद्भुतम् ।स्थलविरहतः स्वीयस्थाने किमत्र समागतोन वदसि कुतः कार्यं तस्मै कुलाचलकन्यके ॥८॥परिभणति चेच्छिष्यव्यूहे महाद्भुतसङ्गतीर्जननि रमणो योगीशानस्ततो बहु नो फलम् ।अमिततमया दृष्टेः शक्त्या कदा सरणिं नयेदपथपतितं धात्रीलोकं तदेव वदाम्बिके ॥९॥अहमिह कुतो हेतोर्जातो विषण्णतमे स्थलेचरणकमलच्छायां मायाधिराज्ञि विहाय ते ।परमकरुणो घोरः शापः किमेष सवित्रि तेकिमपि भुवि वा कार्यं कर्तुं नियोजितवत्यसि ॥१०॥व्रजति विलयं स्नेहो दूरप्रवासवशादितिप्रवदति बुधः कश्चित्सत्यं प्रभाति तदम्बिके ।भगवति निजे कुक्षौ जातं दिवो धरणीगतंस्मृतिसरणितो दूरे हा हा करोषि रुषा यथा ॥११॥मम तु विमला हृद्या विद्या महेश्वरि याऽभवन्मनसि च परा चित्रा शक्तिश्चिरन्तनि याऽभवत् ।वचसि च महद्भाग्यं श्लाघ्यं यदीड्यतमेऽभवत्तदयि गलितं मत्तो वित्तत्रयं भवतो भुवि ॥१२॥कृतमयि मया पापं घोरं सुकर्मसु सङ्गिनांयदहमदयो विघ्नं नॄणां मुहुर्मुहुराचरम् ।अतिकटु फलं तस्याश्नामि श्रितो नरविग्रहंप्रमथनृपतेर्जाये माये जनन्यव मामिमम् ॥१३॥न भवसि दृशोर्मार्गे लोकाधिराज्ञि कुतो गिरोन च बहुकृपे स्वप्ने वा त्वं प्रयच्छसि दर्शनम् ।अपनयसि नो सन्देहं वा परोक्षकृपावशादपि सुरनुते लग्ना कार्यान्तरे किमुतादया ॥१४॥निरवधिशिवे माहात्म्यं ते भणन्ति महर्षयोमनसि करुणा न न्यूना ते यथा प्रथिताः कथाः ।तदिदमखिलं मिथ्या स्यादित्यसाध्यमुदीरितुंयदसि विमुखी पुत्रे किं वा भवेदिह कारणम् ॥१५॥भुवनभरणं नाल्पं कार्यं न देवि तव क्षणोगुरु च बहुलं कृत्यं नित्यं तवास्ति न तन्मृषा ।न तव कठिनं मौनं निन्द्यं तथापि न पार्वतिस्मर सकृदिमं दीनं पुत्रं तदेव ममाधिकम् ॥१६॥न भवति सुधाधारावर्षादयं मुदितस्तनौमधुमदमुषां वाचां सर्गान्न चाप्ययमुद्धतः ।तव पदयुगे निष्ठालाभान्न तृप्यति चाप्ययंभगवति चिरात् सन्देशं ते सुतः प्रतिवीक्षते ॥१७॥किमिह भुवने कर्तव्यं मे किमर्थमिहागतोऽस्म्यवनि जगतां कं वोपायं श्रये निजशक्तये ।किमपि किमपि स्वान्ते ध्वान्ते यथा परिदृश्यतेस्फुटमभयदे वक्तुं किञ्चिच्छ्रमं त्वमुरीकुरु ॥१८॥न मम परमे मुक्तावाशा न वा विभवाष्टकेन च गजघटापूर्णायां वा महेश्वरि सम्पदि ।न च मधुमुचां वाचां सर्गे निरर्गलवैभवेमुनिभुवि कुतो जातः सोऽहं तदेव समीर्यताम् ॥१९॥प्रथममनघं वाञ्छाम्यन्नं सदारसुतातिथेर्भगवति ततः पादद्वन्द्वे तवाविचलां स्थितिम् ।अथ सुरजगद्वार्ताज्ञानं सवित्रि ततः परंमुनिभुवि भवे हेतुं ज्ञातुं मृगाक्षि पुरद्विषः ॥२०॥यदि तव कृपा पुत्रे भक्ते पदांबुजवन्दिनिव्रतशतकृशे शीर्षाम्भोजामृतं त्वयि जुह्वति ।भरतधरणीसेवालोले भवप्रियभामिनिस्वयमुपदिशामुष्मै योग्यं विधानमनाविलम् ॥२१॥जननि जगतां स्वल्पे कामेऽप्ययं त्वयि लम्बतेपुरभिदबले मध्ये कामेऽप्ययं त्वयि लम्बते ।बहुलकरुणे श्रेष्ठे कामेऽप्ययं त्वयि लम्बतेभगवति परे वीते कामेऽप्ययं त्वयि लम्बते ॥२२॥तनुभुवि मयि प्रीत्या वाऽम्ब त्रिलोकविधायिकेपदयुगरते वात्सल्याद्वा पुरारिपुरन्ध्रिके ।स्वविमलयशोगानासक्ते कृपावशतोऽथवापरुषमजरे मौनं त्यक्त्वा स्फुटीकुरु मे गतिम् ॥२३॥जयतु भरतक्षोणीखण्डं विषादविवर्जितंजयतु गणपस्तस्य क्षेमं विधातुमना मुनिः ।जयतु रमणस्तस्याचार्यो महर्षिकुलाचलोजयतु च तयोर्माता पूता महेशविलासिनी ॥२४॥गणपतिमुनेरेषा भाषाविदां हृदयङ्गमासुकविसुहृदः शब्दैरत्युज्ज्वला हरिणीततिः ।ललितचतुरैर्भावैर्यान्ती सुरूपवनान्तरंमदयतु मनः कामारातेर्निशान्तमृगीदृशः ॥२५॥ N/A References : N/A Last Updated : January 07, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP