अधिकरणम् २ - अध्यायः ३

महर्षि वात्स्यायन यांच्या कामसूत्र ग्रंथात दाम्पत्य जीवनातील फक्त श्रृंगारच वर्णिलेला नसून कला, शिल्पकला आणि साहित्यपण संपादित केलेले आहे.


चुम्बननखदशनच्छेद्यानां न पौर्वापर्यं अस्ति । रागयोगात्प्राक्संयोगादेषां प्राधायेन प्रयोगः । प्रहणसीत्कृतयोश्च संप्रयोगे ॥१॥

सर्वं सर्वत्र । रागस्यानःअपेक्षितत्वात् । इति वात्स्यायनः ॥२॥

तानि प्रथमरते नातिव्यक्तानि विश्रब्धिकायां विकल्पेन च प्रयुञ्जीत । तथाभूतत्वाद्रागस्य । ततः परं अतित्वरया विशेषवत्समुच्चयेन रागसंधुक्षणार्थम् ॥३॥

ललाटालककपोलनयनवक्षःस्तनोष्ठान्तरःमुखेषु चुम्बनम् ॥४॥

ऊरुसंधिबाहुनाभिमूलयोर्लाटानाम् ॥५॥

रागवशाद्देशप्रवृत्तेश्च सन्ति तानि तानि स्थानानि न तु सर्वजनप्रयोजानीति वात्स्यायनः ॥६॥

तद्यथा ण् [१] निमित्तिकं [२] स्फुरितकं [३] घट्टितकं इति त्रीणि कन्याचुम्बनानि ॥७॥

बलात्कारेण नियुक्ता मुखं आधत्ते न तु विचेष्टत इति [१] निमित्तकम् ॥८॥

वदने प्रवेशितं चौष्ठं मनागपत्रपावग्रहीतुं इच्छन्ती स्पन्दयति स्वं ओष्ठं नोत्तरं उत्सहत इति [२] स्फुरितकम् ॥९॥

ईषत्परिगृह्य विःनिमीलितनयना करेण च तस्य नयने अवच्छादयन्ति जिह्वाग्रेण घट्टयतीति [३] घट्टितकम् ॥१०॥

समं तिर्यगुद्भ्रान्तं अवपीडितकं इति चतुर्विधं अपरे ॥११॥

अङ्गुलिसंपुटेन पिण्डीकृत्य निर्दशनं ओष्ठपुटेनावपीडयेदित्यवपीडितकं पञ्चमं अपि करणम् ॥१२॥

द्यूतं चात्र प्रवर्तयेत् ॥१३॥

पूर्वं अधरसंपादनेन जितं इदं स्यात् ॥१४॥

तत्र जिता सार्धरुदितं करं विधुनुयात्प्रणुदेद्दशेत्परिवर्तयेद्बलादाहृता विवदेत्पुनरप्यस्तु पण इति ब्रूयात् । तत्रापि जिता द्विगुणं आयस्यएत् ॥१५॥

विश्रब्धस्य प्रमत्तस्य वाधरं अवगृह्य दशनान्तर्गतं अःनिर्गमं कृत्वा हसेदुत्क्रिशेत्तर्जयेद्वल्गेदाह्लयेत्प्रनर्तितत्भ्रूणा च विचलनयनेन मुखेन विहसन्तीतानि तानि च ब्रूयात् । इति चुम्बनद्यूतकलहः ॥१६॥

एतेन नखदशनच्छेद्यप्रहणनद्यूतकलहा व्याख्याताः ॥१७॥

चण्डवेगयोरेव त्वेषां प्रयोगः । तत्सात्म्यात् ॥१८॥

तस्यां चुम्बन्त्यां अयं अप्युत्तरं गृह्णीयात् । इत्युत्तरचुम्बितम् ओष्ठसंदंशेनावगृह्याउष्ठद्वयं अपि चुम्बेत । इति संपुटकं स्त्रियाः पुंसो वाःजातव्यञ्जनस्य ॥१९॥

तस्मिन्नितरोऽपि जिह्वयास्या दशनान्घट्टयेत्तालु जिह्वां चेति जिह्वायुद्धम् ॥२१॥

एतेन बलाद्वदनरदनग्रहणं दानं च व्याख्यातम् ॥२२॥

समं पीडितं अञ्चितं मृदु शेषाङ्गेषु चुम्बनं स्थानविशेषयोगात् । इति चुम्बनविशेषाः ॥२३॥

सुप्तसय मुखं अवलोकयन्त्या स्वाभिप्रायेण चुम्बनं रागदीपनम् ॥२४॥

प्रमत्तस्य विवदमानस्य वान्यतोऽभिमुखस्य सुप्ताभिमुखस्य वा निद्राव्याघातार्थं चलितकम् ॥२५॥

चिररात्रावागतस्य शयनसुप्तायाः स्वाभिप्रायचुम्बनं प्रातिबोधकम् ॥२६॥

सापि तु भावजिज्ञासार्थिनी नायकस्यागमनकालं संलक्ष्य व्याजेन सुप्ता स्यात् ॥२७॥

आदर्शे कुड्ये सलिले वा प्रयोज्यायाश्छायाचुम्बनं आकारप्रदर्शनार्थं एव कार्यम् ॥२८॥

बालस्य चित्रकर्मणः प्रतिमायाश्च चुम्बनं संक्रान्तकं आलिङ्गनं च ॥२९॥

तथा निशि प्रेक्षणके स्वजनसमाजे वा समीपे गतस्य प्रयोज्याया हस्ताङ्गुलिचुम्बनं संविष्टस्य वा पादाङ्गुलिचुम्बनम् ॥३०॥

संवाहिकायास्तु नायकं आकारयन्त्या निद्रावशादःकामाया इव तस्योर्वोर्वदनस्य निधानं ऊरुचुम्बनं चेत्याभियोगिकानि ॥३१॥

भवति चात्र श्लोकः ॥३२॥

व्कृते प्रतिकृतं कुर्याद्ताडिते प्रतिताडितम् । करणेन च तेनैव चुम्बिते प्रतिचुम्बितम् ॥३२॥

इति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे चुम्बनविकल्पास्तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : June 27, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP