अधिकरणम् २ - अध्यायः ४

महर्षि वात्स्यायन यांच्या कामसूत्र ग्रंथात दाम्पत्य जीवनातील फक्त श्रृंगारच वर्णिलेला नसून कला, शिल्पकला आणि साहित्यपण संपादित केलेले आहे.


रागवृद्धौ संघर्षात्मकं नखविलेखनम् ॥१॥

तस्य प्रथमसमागमे प्रवासप्रत्यागमने प्रवासगमने क्रुद्धप्रसन्नायां मत्तायां च प्रयोगः । न नित्यं अःचण्डवेगयोः ॥२॥

तथा दशनच्छेद्यस्य सात्म्यवशाद्वा ॥३॥

तद्[१] आच्छुरितकं [२] अर्धचन्द्रो [३] मण्डलं [४] रेखा [५] व्याघ्रनखं [६] मयूरपदकं [७] शशप्लुतकं [८] उत्पलपत्त्रकं इति रूपतोऽष्टविकल्पम् ॥४॥

कक्षौ स्तनौ गलः पृष्ठं जघनं ऊरू च स्थानानि ॥५॥

प्रवृत्तरतिचक्राणां न स्थानं अःस्थानं वा विद्यत इति सुवर्णनाभः ॥६॥

तत्र सव्यहस्तानि प्रत्यःअग्रशिखराणि द्वित्रिशिखराणि चण्डवेगयोर्नखानि स्युः ॥७॥

अनुगतराजि समं उज्ज्वलं अःमलिनं अःविपाटितं विवर्धिष्णु मृदु स्निग्धदर्शनं इति नखगुणाः ॥८॥

दीर्घाणि हस्तशोभीन्यालोके च योषितां चित्तग्राहीणि गौडाणां नखानि स्युः ॥९॥

ह्रस्वानि कर्मसहिष्णूनि विकल्पयोजनासु च स्वेच्छापातीनि दाक्षिणत्यानाम् ॥१०॥

मध्यमान्युभयभाञ्जि महाराष्ट्रकाणां इति ॥११॥

तैः सुःनियमितैर्हनुदेशे स्तनयोरधरे वा लघुकरणं अनःउद्गतलेखं स्पर्शमात्रजननाद्रोमाञ्चकरं अन्ते संनिपातवर्धमानशब्दं [१] आच्छुरितकम् ॥१२॥

प्रयोज्यायां च तस्याङ्गसंवाहने शिरसः कण्डूयने पिटकभेदने व्याकुलीकरणे भीषणेन प्रयोगः ॥१३॥

ग्रीवायां स्तनपृष्ठे च वक्रो नखपदनिवेशो [२] अर्धचन्द्रः ॥१४॥

तावेव द्वौ पर्सपराभिमुखौ मण्डलम् ॥१५॥

नाभिमूलककुन्दरवंक्षणेषु (१०) तस्य प्रयोगः ॥१६॥

सर्वस्थानेषु नातिःदीर्घा [४] लेखा (११) ॥१७॥

सैव वक्रा [५] व्याघ्रनखकं आ स्तनमुखम् ॥१८॥

पञ्चभिरभिमुखैर्लेखा चूचुकाभिमुखी (१२) [६] मयूरपदकम् ॥१९॥

तत्संप्रयोगश्लाघायाः स्तनचूचुके संनिकृष्टानि पञ्चनखपदानि [७] शशप्लुतकम् ॥२०॥

स्तनपृष्ठे मेखलापथे चोत्पलपत्त्राकृतीत्य्[८] उत्पलपत्त्रकम् ॥२१॥

ऊर्वोः स्तनपृष्ठे च प्रवासं गच्छतः स्मारणीयकं संहताश्चतस्रस्तिस्रो वा लेखाः ॥२२॥

चिति नखकर्माणि ॥२२॥

आकृतिविकारयुक्तानि चान्यान्यपि कुर्वीत ॥२३॥

विकल्पानां अनःअन्तत्वादानन्त्याच्च कौशलविधेरभ्यासस्य च सर्वगामित्वाद्रागात्मकत्वाच्छेद्यस्य प्रकारान्कोऽभिसमीक्षितुं अर्हतीत्याचार्याः भवति हि रागेऽपि चित्रापेक्षा । वैचित्र्याच्च परस्परं रागो जनयितव्यः । वैचक्षण्ययुक्ताश्च गणिकास्तत्कामिनश्च परस्परं प्रार्थनीया भवन्ति । धनुर्वेदादिष्वपि हि शस्त्रकर्मशास्त्रेषु वैचित्र्यं एवापेक्ष्यते किं पुनरिहेति वात्स्यायनः ॥२४॥

न तु परपरिगृहीतास्वेवं कुर्यात् । प्रच्छन्नेषु प्रदेशेषु तासां अनुस्मरणार्थं रागवर्धनाच्च विशेषान्दर्शयेत् ॥२६॥

व्नखक्षतानि पश्यन्त्या गूढस्थानेषु योषितः । चिरोत्सृष्टाप्यभिनवा प्रीतिर्भवति पेशला (१३) ॥२७॥

व्चिरोसृष्टेषु रागेषु प्रीतिर्गच्छेत्पराभवम् । रागायतनसंस्मारि यदि न स्यान्नखक्षतम् ॥२८॥

व्पश्यतो युवतिं दूरान्नखोच्छिष्टपयोधराम् । बहुमानः परस्यापि रागयोगश्च जायते ॥२९॥

व्पुरुषश्च प्रदेशेषु नखचिह्नैर्विचिह्नितः । चित्तं स्थिरं अपि प्रायश्चलयत्येव योषितः ॥३०॥

व्नान्यत्पटुतरं किं चिदस्ति रागविवर्धनम् । नखदन्तसमुत्थानां कर्मणां गतयो यथा ॥३१॥

चिति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे चतुर्थोऽध्यायः । आदितो नवमः ॥४॥

N/A

References : N/A
Last Updated : June 27, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP