बृहस्पतिस्मृतिः - स्त्रीसंग्रहणम्

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


पारुष्यं द्विविधं प्रोक्तं साहसं च द्विलक्षणम् ।
पापमूलं संग्रहणं त्रिप्रकारं निबोधत ॥१॥
बलोपाधिकृते द्वे तु तृतीयं अनुरागजम् ।
तत्पुनस्त्रिविधं प्रोक्तं प्रथमं मध्यमोत्तमम् ॥२॥
अनिच्छन्त्या यत्क्रियते सुप्तोन्मत्तप्रमत्तया ।
प्रलपन्त्या वा रहसि बलात्कारकृतं तु तत् ॥३॥
छद्मना गृहं आनीय दत्त्वा वा मद्यकार्मणम् ।
संयोगः क्रियते यस्यास्तदुपाधिकृतं विदुः ॥४॥
अन्योन्यचक्षूरागेण दूतीसंप्रेषणेन च ।
कृतं रूपार्थलोभेन ज्ञेयं तदनुरागजम् ॥५॥
तत्पुनस्त्रिविधं प्रोक्तं प्रथमं मध्यमोत्तमम् ।
अपाङ्गप्रेक्षणं हास्यं दूतीसंप्रेषणं तथा ।
स्पर्शो भूषणवस्त्राणां संग्रहः प्रथमः स्मृतः ॥६॥
प्रेषणं गन्धमाल्यानां धूपं अध्वन्नवाससाम् ।
संभाषणं च रहसि मध्यमं संग्रहं विदुः ॥७॥
एकशाय्यासनं क्रीडा चुम्बनालिङ्गनं तथा ।
एतत्संग्रहणं प्रोक्तं उत्तमं शास्त्रवेदिभिः ॥८॥
प्रेषणं गन्धमाल्यानां धूपभूषणवाससाम् ।
प्रलोभनं चान्नपानैर्मध्यमः संग्रहः स्मृतः ॥९॥
प्रेषणं गन्धमाल्यानां फलमद्यान्नवाससाम् ।
संभाषणं च रहसि मध्यमं संग्रहं विदुः ॥१०॥
त्रयाणां अपि चैतेषां प्रथमो मध्य उत्तमः ।
विनयः कल्पनीयः स्यादधिको द्रविणाधिके ॥११॥
परपत्न्या तु पुरुषः संभाषां योजयन्रहः ।
पूर्वं आक्षारितो दोषैः प्राप्नुयात्पूर्वसाहसम् ॥१२॥
सहमायः कामयते धनं तस्याखिलं हरेत् ।
उत्कृत्य लिङ्गवृषणौ भ्रामयेद्गर्दभेन तु ॥१३॥
छद्मना कामयेद्यस्तु तस्य सर्वहरो दमः ।
अङ्कयित्वा भगाङ्गेन पुरान्निर्वासयेत्ततः ॥१४॥
दमो नेयः सभायां यो हीनायां अधिकस्ततः ।
पुंसः कार्योऽधिकायां तु गमने संप्रमापणम् ॥१५॥
गृहं आगत्य या नारी प्रलोभ्य स्पर्शनादिना ।
कामयेत्तत्र सा दण्ड्या नरस्यार्धदमः स्मृतः ॥१६॥
छिन्ननासौष्ठकर्णानां परिभ्राम्याप्सु मज्जयेत् ।
खादयेद्वा सारमेयैः संस्थाने बहुसंस्थिते ॥१७॥
अनिच्छन्ती तु या भुक्ता गुप्तां तां वासयेद्गृहे ।
मलिनाङ्गीं अधः शय्यां पिण्डमात्रोपजीविनीम् ॥१८॥
कारयेन्निष्कृतिं कृच्छ्रं पराकं वा समे गताम् ।
हीनवर्णोपभुक्ता या त्याज्या वध्याथ वा भवेत् ॥१९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP