पाद १ - खण्ड ४३

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - २२ - कस्य अयम् प्रतिषेधः ।

२ - २२ - ङीप् अनन्तरः तस्य प्रतिषेधः ।

३ - २२ - अथ इदानीम् ङीपि प्रतिषिद्धे षट्सञ्ज्ञानाम् अन्ते लुप्ते टाबुत्पत्तिः कस्मात् न स्यात् । अतः इति प्राप्नोति ।

४ - २२ - असिद्धः नलोपः ।

५ - २२ - तस्य असिद्धत्वात् न भविष्यति ।

६ - २२ - परिगणितेषु कार्येषु नलोपः असिद्धः न च इदम् तत्र परिगण्यते ।

७ - २२ - इदम् अपि तत्र परिगण्यते ।

८ - २२ - प्रत्याहारात् चापा सिद्धम् । सुप् इति न इदम् प्रत्ययग्रहणम् ।

९ - २२ - किम् तर्हि ।

१० - २२ - प्रत्याहारग्रहणम् ।

११ - २२ - क्व सन्निविष्टानाम् प्रत्याहारः ।

१२ - २२ - प्रथमैकवचनात् प्रभृति आ चापः पकारात् ।

१३ - २२ - यदि प्रत्याहारग्रहणम् दोषः तु इत्त्वे ।

१४ - २२ - इत्त्वे दोषः भवति ।

१५ - २२ - बहुचर्मिका ।

१६ - २२ - प्रत्ययस्थात् कात् पूर्वस्य आतः इति इत्त्वम् न प्राप्नोति ।

१७ - २२ - तस्मात् न उभौ ।

१८ - २२ - तस्मात् षट्सञ्ज्ञकेभ्यः उभौ न भवतः इति वक्तव्यम् ।

१९ - २२ - तत् तर्हि वक्तव्यम् ।

२० - २२ - न वक्तव्यम् ।

२१ - २२ - स्त्रियाम् इति वर्तते ।

२२ - २२ - स्त्रियाम् यत् प्राप्नोति तस्य प्रतिषेधः ।

१ - ३२ - किमर्थम् उभाभ्याम् इति उच्यते ।

२ - ३२ - उभाभ्याम् योगाभ्याम् डाप् यथा स्यात् मनन्तात् अनन्तात् च बहुव्रीहेः ।

३ - ३२ - न एतत् अस्ति प्रयोजनम् ।

४ - ३२ - प्रकृतम् उभयम् अनुवर्तते ।

५ - ३२ - अथ अन्यतरस्याङ्ग्रहणम् किमर्थम् ।

६ - ३२ - अन्यतरस्याम् डाप् यथा स्यात् ।

७ - ३२ - डापा मुक्ते प्रतिषेधः अपि यथा स्यात् इति ।

८ - ३२ - न एतत् अस्ति प्रयोजनम् ।

९ - ३२ - इह डाप् अपि उच्यते प्रतिषेधः अपि ।

१० - ३२ - तौ उभौ वचनात् भविष्यतः ।

११ - ३२ - इदम् तर्हि प्रयोजनम् ।

१२ - ३२ - डाप्प्रतिषेधाभ्याम् मुक्ते ङीप् अपि यथा स्यात् ।

१३ - ३२ - सिद्धः अत्र ङीप् अनः उपधालोपिनः अन्यतरस्याम् इति ।

१४ - ३२ - अथ तत् अन्यतरस्याङ्ग्रहणम् शक्यम् अकर्तुम् ।

१५ - ३२ - बाढम् शक्यम् ।

१६ - ३२ - कथम् ।

१७ - ३२ - इह डाप् अपि उच्यते प्रतिषेधः अपि ङीप् अपि ।

१८ - ३२ - तत् सर्वम् वचनात् भविष्यति ।

१९ - ३२ - न एवम् शक्यम् विज्ञातुम् ।

२० - ३२ - अक्रियमाणे हि तत्र अन्यतरस्याङ्ग्रहणे अनवकाशः ङीप् डाप्प्रतिषेधौ बाधेत ।

२१ - ३२ - डाप्प्रतिषेधौ अपि अनवकाशौ ।

२२ - ३२ - तौ वचनात् भविष्यतः ।

२३ - ३२ - सावकाशौ डाप्प्रतिषेधौ ।

२४ - ३२ - कः अवकाशः ।

२५ - ३२ - सुपर्वा चारुपर्वा इति ।

२६ - ३२ - तस्मात् तत् अन्यतरस्याङ्ग्रहणम् कर्तव्यम् ।

२७ - ३२ - इदम् तु खलु अन्यतरस्याङ्ग्रहणम् शक्यम् अकर्तुम् ।

२८ - ३२ - इदम् अपि अवश्यम् कर्तव्यम् ।

२९ - ३२ - किम् प्रयोजनम् ।

३० - ३२ - डाप्प्रतिषेधाभ्याम् मुक्ते ङीब्रौ यथा स्याताम् इति ।

३१ - ३२ - रविधाने बहुव्रीहेः उपसङ्ख्यानम् चोदितम् ।

३२ - ३२ - तत् न वक्तव्यम् भवति ।

१ - १५ - अथ इह कथम् भवितव्यम् ।

२ - १५ - बहवः श्वानः अस्याम् रथ्यायाम् बहवः श्वानः अस्याम् शालायाम् इति ।

३ - १५ - बह्शूका बहुयूका इति भवितव्यम् ।का रूपसिद्धिः ।

४ - १५ - डाप् टिलोपः प्रसारणम् प्रसारणपरपूर्वत्वम् नदृतः च इति कप् ।

५ - १५ - कपा तावत् न भवितव्यम् ।

६ - १५ - किम् कारणम् ।

७ - १५ - नद्यन्तानाम् यः बहुव्रीहिः इति एवम् तत् विज्ञायते ।

८ - १५ - न च एषः नद्यन्तानाम् बहुव्रीहिः ।

९ - १५ - प्रसारणेन अपि न भवितव्यम् ।

१० - १५ - वक्ष्यति एतत् ।

११ - १५ - श्वादीनाम् प्रसारणे नकारान्तग्रहणम् अनकारान्तप्रतिषेधार्थम् इति ।

१२ - १५ - परपूर्वत्वेन अपि न भवितव्यम् ।

१३ - १५ - वक्ष्यति एतत् ।

१४ - १५ - सम्प्रसारणपूर्वत्वे समानाङ्गग्रहणम् असमानाङ्गप्रतिषेधात्थम् इति ।

१५ - १५ - तस्मात् बहुश्वा बहुयुवा इति भवितव्यम् ।

१ - ८१ - अनुपसर्जनात् इति किमर्थम् ।

२ - ८१ - बहुकुरुचरा मथुरा प्रियकुरुचरा मथुरा ।

३ - ८१ - न एतत् अस्ति प्रयोजनम् ।

४ - ८१ - कुरुचरशब्दात् प्रययः विधीयते ।

५ - ८१ - तत्र कः प्रसङ्गः यत् बहुकुरुचरशब्दात् स्यात् ।

६ - ८१ - न एव प्राप्नोति न अर्थः प्रतिषेधेन ।

७ - ८१ - तदन्तविधिना प्राप्नोति ।

८ - ८१ - अतः उत्तरम् पठति ।

९ - ८१ - अनुपसर्जनग्रहणम् अनर्थकम् प्रातिपदिकेन तदन्तविधिप्रतिषेधात् ।

१० - ८१ - अनुपसर्जनग्रहणम् अनर्थकम् ।

११ - ८१ - किम् कारणम् ।

१२ - ८१ - प्रातिपदिकेन तदन्तविधिप्रतिषेधात् ।

१३ - ८१ - ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते ।

१४ - ८१ - ज्ञापकम् तु पूर्वत्र तदन्ताप्रतिषेधस्य ।

१५ - ८१ - एवम् तर्हि ज्ञापयति आचार्यः पूर्वत्र तदन्ताप्रतिषेधः न भवति इति ।

१६ - ८१ - किम् एतस्य ज्ञापने प्रयोजनम् ।

१७ - ८१ - भवती अतिभवती महती अतिमहती इति अत्र तदन्तविधिः सिद्धः भवति ।

१८ - ८१ - न एतत् अस्ति प्रयोजनम् ।

१९ - ८१ - उक्तम् एतत् वर्णः अपि उगित् प्रत्ययः अपि उगित् प्रातिपदिकम् अपि उगित् इति ।

२० - ८१ - इदम् तर्हि ।

२१ - ८१ - बहुधीवरी बहुपीवरी इति ।

२२ - ८१ - एतत् अपि न अस्ति प्रयोजनम् ।

२३ - ८१ - अत्र अपि उक्तम् रविधाने बहुव्रीहेः उपसङ्ख्यानम् प्रतिषिद्धत्वात् इति ।

२४ - ८१ - इदम् तर्हि अतिधीवरी अतिपीवरी ।

२५ - ८१ - पूर्वसूत्रनिर्देशः वा आपिशलम् अधीते इति ।

२६ - ८१ - पूर्वसूत्रनिर्देशः वा पुनः अयम् द्रष्टव्यः ।

२७ - ८१ - पूर्वसूत्रे अप्रधानस्य उपसर्जनम् इति सञ्ज्ञा क्रियते ।

२८ - ८१ - यावत् ब्रूयात् प्रधानात् उत्पत्तव्यम् अप्रधानात् न इति तावत् अनुपसर्जनात् इति ।

२९ - ८१ - किम् प्रयोजनम् ।

३० - ८१ - आपिशलम् अधीते इति ।

३१ - ८१ - आपिशलम् अधीते ब्राह्मणी आपिशला ब्राह्मणी ।

३२ - ८१ - अणन्तात् इति ईकारः मा भूत् इति ।

३३ - ८१ - अथ अनुपसर्जनात् इति उच्यमाने कस्मात् एव अत्र न भवति ।

३४ - ८१ - अणन्तम् हि एतत् अनुपसर्जनम् ।

३५ - ८१ - न अनुपसर्जनग्रहणेन अणन्तम् विशेष्यते ।

३६ - ८१ - अणन्तात् अनुपसर्जनात् इति ।

३७ - ८१ - किम् तर्हि ।

३८ - ८१ - अण् एव विशेष्यते ।

३९ - ८१ - अण् यः अनुपसर्जनम् इति ।

४० - ८१ - जातिशब्देभ्यः तु अतिप्रसङ्गः ।

४१ - ८१ - जातिशब्देभ्यः तु अतिप्रसङ्गः भवति ।

४२ - ८१ - कुन्ती गान्धारी ।

४३ - ८१ - सिद्धम् तु जातेः अनुपसर्जनत्वात् । सिद्धम् एतत् ।

४४ - ८१ - कथम् ।

४५ - ८१ - अनुपसर्जनात् इति उच्यते ।

४६ - ८१ - न च जातिः उपसर्जनम् ।

४७ - ८१ - एतत् अपि न अस्ति प्रयोजनम् ।

४८ - ८१ - स्त्रियाम् इति वर्तते ।

४९ - ८१ - तेन अणम् विशेषयिष्यामः ।

५० - ८१ - स्त्रियाम् यः अण् विहितः इति ।

५१ - ८१ - एवम् अपि काशकृत्स्निना प्रोक्तम् मामांसा काशकृत्स्नीम् काशकृत्स्नीम् अधीते काशकृत्स्ना ब्राह्मणी अत्र प्राप्नोति ।

५२ - ८१ - न एषः दोषः ।

५३ - ८१ - अधेत्र्याम् अभिधेयायाम् अणः ईकारेण भवितव्यम् ।

५४ - ८१ - यः च अत्र अधेत्र्याम् अभिधेयायाम् अण् उक्तः लुप्तः सः यः च श्रूयते उत्पन्नः तस्मात् ईकारः इति कृत्वा पुनः न भविष्यति ।

५५ - ८१ - इदम् तर्हि प्रयोजनम् तदन्तविधिः यथा स्यात् ।

५६ - ८१ - कुम्भकारी नगरकारी ।

५७ - ८१ - अत्र हि प्रत्ययग्रहणे यस्मात् सः विहितः तदादेः ग्रहणम् भवति इति अवयवात् उत्पत्तिः प्राप्नोति ।

५८ - ८१ - कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति इति सङ्घातात् उत्पत्तिः भविष्यति ।

५९ - ८१ - कृद्ग्रहणे इति उच्यते ।

६० - ८१ - न च एतत् कृद्ग्रहणम् ।

६१ - ८१ - कृदकृद्ग्रहणम् एतत् ।

६२ - ८१ - कृत् अपि अयम् अण् तद्धितः अपि ।

६३ - ८१ - एवम् तर्हि ईकारान्तेन समासः भविष्यति ।

६४ - ८१ - यदि एवम् लभ्येत कृतम् स्यात् तत् तु न लभ्यम् ।

६५ - ८१ - किम् कारणम् ।

६६ - ८१ - अत्र हि गतिकारकोपपदानाम् कृद्भिः सह समासः भवति इति समासः एव तावत् भवति ।

६७ - ८१ - समासे कृते अवयवात् उत्पत्तिः प्राप्नोति ।

६८ - ८१ - अवयवात् उत्पत्तौ कः सत्याम् दोषः ।

६९ - ८१ - कौम्भकारेयः न सिध्यति ।

७० - ८१ - अव्ययवस्य वृद्धिस्वरौ स्याताम् ।

७१ - ८१ - तस्मात् अनुपसर्जनाधिकारः ।

७२ - ८१ - अनुपसर्जनाधिकारे जातेः ङीष्विधाने सुपर्ण्याः उपसङ्ख्यानम् । अनुपसर्जनाधिकारे जातेः ङीष्विधाने सुपर्ण्याः उपसङ्ख्यानम् कर्तव्यम् ।

७३ - ८१ - सुपर्णी ।

७४ - ८१ - न वा समासस्य अनुपसर्जनत्वात् जातिवाचकत्वात् च शब्दस्य सामान्येन ङीष्विधानम् । न वा एषः दोषः ।

७५ - ८१ - किम् कारणम् ।

७६ - ८१ - समासस्य अनुपसर्जनत्वात् ।

७७ - ८१ - समासः अत्र अनुपसर्जनम् ।

७८ - ८१ - सः च जातिवाचकः ।

७९ - ८१ - समासस्य अनुपसर्जनत्वात् तस्य च जातिवाचकत्वात् च शब्दस्य सामान्येन ङीष् भविष्यति जातेः अस्त्रीविषयात् अयोपधात् इति ।

८० - ८१ - कथम् कृत्वा चोदितम् कथम् कृत्वा परिहारः ।

८१ - ८१ - बहुव्रीहिः इति कृत्वा चोदितम् तत्पुरुषः इति कृत्वा परिहारः ।

१ - २७ - ढग्रहणे सानुबन्धकस्य उपसङ्ख्यानम् ।

२ - २७ - ढग्रहणे सानुबन्धकस्य उपसङ्ख्यानम् कर्तव्यम् ।

३ - २७ - कारिकेयी हारिकेयी ।

४ - २७ - किम् पुनः कारणम् न सिध्यति ।

५ - २७ - अननुबन्धकग्रहणे हि न सानुबन्धकस्य ।

६ - २७ - अननुबन्धकग्रहणे हि सानुबन्धकस्य ग्रहणम् न भवति इति एषा परिभाषा कर्तव्या ।

७ - २७ - कानि एतस्याः परिभाषायाः प्रयोजनानि ।

८ - २७ - तव्यग्रहणे तव्यद्ग्रहणम् मा भूत् ।

९ - २७ - दिव्ग्रहणे दिवुग्रहणम् मा भूत् ।

१० - २७ - ननु च इयम् अपि कर्तव्या तदनुबन्धकग्रहणे अतदनुबन्धकस्य ने इति ।

११ - २७ - कानि एतस्याः परिभाषायाः प्रयोजनानि ।

१२ - २७ - यद्ग्रहणे ण्यद्ग्रहणम् मा भूत् ।

१३ - २७ - अङ्ग्रहणे चङ्ग्रहणम् मा भूत् ।

१४ - २७ - अज्ग्रहणे ण्यज्ग्रहणम् मा भूत् ।

१५ - २७ - तत् द्वे एते परिभाषे कर्तव्ये ।

१६ - २७ - न कर्तव्ये ।

१७ - २७ - आचार्यप्रवृत्तिः ज्ञापयति भवतः एते परिभाषे यत् अयम् वामदेवात् ड्यड्ड्यौ इति ययतौ डितौ करोति ।

१८ - २७ - तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् ।

१९ - २७ - न कर्तव्यम् ।

२० - २७ - अननुबन्धकः ढशब्दः स्त्रियाम् न अस्ति इति कृत्वा सानुबन्धकस्य ग्रहणम् विज्ञास्यते ।

२१ - २७ - ननु च अयम् अस्ति शिलायाः ढः इति ।

२२ - २७ - न एषः स्त्रियाम् वर्तते ।

२३ - २७ - अयम् तर्हि सभायाः ढः छन्दसि इति ।

२४ - २७ - एषः अपि न स्त्रियाम् वर्तते ।

२५ - २७ - किम् कारणम् ।

२६ - २७ - तत्र साधुः इति वर्तते ।

२७ - २७ - कथम् स्त्री नाम सभायाम् साध्वी स्यात् ।

१ - २२ - अञ्ग्रहणम् अनर्थकम् तदन्तात् हि ङीन्विधानम् । अञ्ग्रहणम् अनर्थकम् ।

२ - २२ - किम् कारणम् ।

३ - २२ - तदन्तात् हि ङीन्विधानम् ।

४ - २२ - तदन्तात् हि अञन्तात् ङीन् विधीयते ।

५ - २२ - शार्ङ्गरवाद्यञः ङीन् इति ।

६ - २२ - न च अस्ति विशेषः अञन्तात् ङीनः वा ङीपः वा ।

७ - २२ - तत् एव रूपम् सः एव स्वरः ।

८ - २२ - न वा जात्यधिकारात् ।

९ - २२ - न वा अनर्थकम् ।

१० - २२ - किम् कारणम् ।

११ - २२ - जात्यधिकारात् ।

१२ - २२ - जातेः इति तत्र अनुवर्तते ।

१३ - २२ - अजात्यर्थः अयम् आरम्भः ।

१४ - २२ - औत्सी औदपानी ।

१५ - २२ - तत् च अवश्यम् जातिग्रहणम् अनुवर्त्यम् ।

१६ - २२ - अनधिकारे हि पुंयोगात् आख्यायाम् ङीन्प्रसङ्गः ।

१७ - २२ - अननुवर्तमाने हि जातिग्रहणे पुंयोगात् आख्यायाम् ङीन् प्रसज्येत बैदस्य स्त्री बैदी ।

१८ - २२ - यदि तर्हि अस्य निबन्धनम् अस्ति इदम् एव कर्तव्यम् ।

१९ - २२ - तत् न कर्तव्यम् ।

२० - २२ - तत् अपि अवश्यम् कर्तव्यम् ।

२१ - २२ - अक्रियमाणे हि तस्मिन् बैदस्य भगिनी बैदी परत्वात् जातिलक्षणः ङीष् ङीपम् बाधेत ।

२२ - २२ - ङीनि पुनः सति परत्वात् ङीन् ङीषम् बाधेत ।

१ - १० - ख्युनः उपसङ्ख्यानम् ।

२ - १० - ख्युनः उपसङ्ख्यानम् कर्तव्यम् ।

३ - १० - आढ्यङ्करणी सुभगङ्करणी ।

४ - १० - अत्यल्पम् इदम् उच्यते ख्युनः इति ।

५ - १० - नञ्स्नञीकख्युंस्तरुणतलुनानाम् उपसङ्ख्यानम् ।

६ - १० - नञ्स्नञीकख्युंस्तरुणतलुनानाम् उपसङ्ख्यानम् कर्तव्यम् ।

७ - १० - नञ् स्नञ् स्त्रैणी पौंस्नी ।

८ - १० - ईकक् शाक्तीकी याष्टीकी ।

९ - १० - ख्युन् आढ्यङ्करणी सुभगङ्करणी ।

१० - १० - तरुण तलुन तरुणी तलुनी ।

१ - ६ - आपत्यग्रहणम् कर्तव्यम् द्वीपात् यञः प्रतिषेधार्थम् ।

२ - ६ - इह मा भूत् द्वैप्या इति ।

३ - ६ - तत् तर्हि वक्तव्यम् ।

४ - ६ - न वक्तव्यम् ।

५ - ६ - न एवम् विज्ञायते कञ्क्वरपः यञः च इति ।

६ - ६ - कथम् तर्है कञ्क्वरपः अयञः च इति ।

१ - १० - तद्धितवचनम् किमर्थम् ।

२ - १० - तद्धितवचनम् षितः प्रातिपदिकात् ईकारार्थम् ।

३ - १० - तद्धितवचनम् क्रियते षितः प्रातिपदिकात् ईकारः यथा स्यात् ।

४ - १० - न एतत् अस्ति प्रयोजनम् ।

५ - १० - षित्करणसामर्थ्यात् एव अत्र ईकारः भविष्यति ।

६ - १० - यथा एव तर्हि षित्करणसामर्थ्यात् अप्रातिपदिकात् ईकारः भवति एवम् प्रातिपदिकात् इति अस्य अनुवर्तनसामार्थ्यात् अषितः अपि प्रातिपदिकात् ईकारः स्यात् ।

७ - १० - अस्ति अन्यत् प्रातिपदिकानुवृत्तौ प्रयोजनम् ।

८ - १० - किम् ।

९ - १० - उत्तरार्थम् ।

१० - १० - अतः इञ् दाक्षिः ।

१ - ७ - सर्वत्रग्रहणम् किमर्थम् ।

२ - ७ - प्राचाम् एव स्यात् ।

३ - ७ - न एतत् अस्ति प्रयोजनम् ।

४ - ७ - सिद्धम् प्राचाम् पूर्वेण ।

५ - ७ - इदम् तर्हि प्रयोजनम् सर्वेषाम् यथा स्यात् ।

६ - ७ - आवट्यायनी ।

७ - ७ - चापम् बाधित्वा ष्फः यथा स्यात् ।

१ - २० - लोहितादिषु शाकल्यस्य उपसङ्ख्यानम् ।

२ - २० - लोहितादिषु शाकल्यस्य उपसङ्ख्यानम् कर्तव्यम् ।

३ - २० - शाकल्यायनी ।

४ - २० - यदि पुनः अयम् शकलशब्दः लोहितादिषु पठ्येत ।

५ - २० - न एवम् शक्यम् ।

६ - २० - इह हि शाकल्यस्य छात्राः शाकलाः कण्वादिभ्यः गोत्रे इति अण् न स्यात् ।

७ - २० - एवम् तर्हि ।

८ - २० - कण्वात् तु शकलः पूर्वः । कण्वशब्दात् शकलशब्दः पूर्वः पठितव्यः ।

९ - २० - कतात् उत्तरः इष्यते. कतशब्दात् शकलशब्दः उत्तरः पठितव्यः ।

१० - २० - पूर्वोत्तरौ तदन्तादी ।

११ - २० - पूर्वोत्तरौ गणौ तदन्तादी द्रष्टव्यौ ।

१२ - २० - ये कण्वादयः ते शकलादयः ।

१३ - २० - ये कतपर्यन्ताः ते शकलपर्यन्ताः ।

१४ - २० - किम् प्रयोजनम् ।

१५ - २० - ष्फाणौ तत्र प्रओय्जनम् ।

१६ - २० - तत्र एवम् सति ष्फाणौ सिद्धौ भवतः ।

१७ - २० - कण्वात् तु शकलः पूर्वः ।

१८ - २० - कतात् उत्तरः इष्यते ।

१९ - २० - पूर्वोत्तरौ तदन्तादी ।

२० - २० - ष्फाणौ तत्र प्रओय्जनम् ।

१ - ६ - कौरव्यमाण्डूकयोः आसुरेः उपसङ्ख्यानम् ।

२ - ६ - कौरव्यमाण्डूकयोः आसुरेः उपसङ्ख्यानम् कर्तव्यम् ।

३ - ६ - आसुरायणी ।

४ - ६ - छः च ।

५ - ६ - छः च इति वक्तव्यम् ।

६ - ६ - आसुरीयः कल्पः ।

१ - २४ - वयसि अचरमे इति वक्तव्यम् इह अपि यथा स्यात् ।

२ - २४ - वधूटी चिरण्टी इति ।

३ - २४ - इह कस्मात् न भवति ।

४ - २४ - उत्तानशया लोहितपादिका द्विवर्षा त्रिवर्षा इति ।

५ - २४ - न एतानि वयोवाचीनि ।

६ - २४ - कथम् तर्हि वयः गम्यते ।

७ - २४ - सम्बन्धात् ।

८ - २४ - यदि तर्हि यत्र सम्बन्धात् वयः गम्यते तत्र न भवति इह अपि न प्राप्नोति ।

९ - २४ - कुमारी इति ।

१० - २४ - अत्र अपि सम्बन्धात् वयः गम्यते ।

११ - २४ - कः असु सम्बन्धः ।

१२ - २४ - यः असु पुंसा असम्प्रयोगः ।

१३ - २४ - सम्बन्धात् एव अत्र वयः गम्यते ।

१४ - २४ - इह पुनः सम्बन्धसम्बन्धात् ।

१५ - २४ - इह तावत् उत्तानशया इति ।

१६ - २४ - यदा कर्तृत्वम् विशेषितम् भवति ततः उत्तरकालम् वयः गम्यते ।

१७ - २४ - यदि लोहितपादिका इति ।

१८ - २४ - यदा बहुव्रीह्यर्थः विशेषितः ततः उत्तरकालम् वयः गम्यते ।

१९ - २४ - द्विवर्षा त्रिवर्षा इति ।

२० - २४ - यदा द्विगुअर्थः विशेषितः ततः उत्तरकालम् वयः गम्यते ।

२१ - २४ - यदि तर्हि यत्र सम्बन्धात् एव वयः गम्यते तत्र भवति इह अपि तरि प्रप्नोति ।

२२ - २४ - कन्या इति ।

२३ - २४ - निपातनात् एतत् सिद्धम् ।

२४ - २४ - किम् निपातनम्. कन्यायाः कनीन च इति ।

१ - ९ - इमौ द्वौ प्रतिषेधौ उच्येते ।

२ - ९ - तत्र एकः शक्यः अवक्तुम् ।

३ - ९ - कथम् ।

४ - ९ - एवम् वक्ष्यामि ।

५ - ९ - परिमाणान्तात् तद्धितलुकि ङीप् भवति इति ।

६ - ९ - तत् नियमार्थम् भविष्यति ।

७ - ९ - परिमाणान्तात् एव तद्धितलुकि ङीप् भवति न अन्यतः इति ।

८ - ९ - ततः विस्ताचितकम्बल्येभ्यः न इति ।

९ - ९ - तद्धितलुकि इति एव ।

१ - ३४ - ऊधसः नकारः लिङ्गाधिकारे ।

२ - ३४ - ऊधसः नकारः लिङ्गाधिकारे कर्तव्यः ।

३ - ३४ - इह मा भूत् ।

४ - ३४ - महोधाः पर्जन्यः इति ।

५ - ३४ - न वा समासान्ताधिकारे स्त्रीग्रहणात् ।

६ - ३४ - न वा लिङ्गाधिकारे नकारः कर्तव्यः ।

७ - ३४ - किम् कारणम् ।

८ - ३४ - समासान्ताधिकारे स्त्रीग्रहणात् ।

९ - ३४ - समासान्ताधिकारे स्त्रीग्रहणम् कर्तव्यम् ।

१० - ३४ - इतरथा हि कब्विधिप्रसङ्गः ।

११ - ३४ - इतरथा हि कब्विधिः प्रसज्येत ।

१२ - ३४ - कस्याम् पुनः अवस्थायाम् कप् प्राप्नोति ।

१३ - ३४ - प्राक् ङीषुत्पत्तेः ।

१४ - ३४ - प्राक् तावत् न प्राप्नोति ।

१५ - ३४ - किम् कारणम् ।

१६ - ३४ - न हि ङीष् विभाषा ।

१७ - ३४ - लुत्क्पन्ने तर्हि ङीषि प्राप्नोति ।

१८ - ३४ - उत्पन्ने च अपि न प्राप्नोति ।

१९ - ३४ - किम् कारणम् ।

२० - ३४ - नद्यन्तानाम् यः बहुव्रीहिः इति एवम् तत् ।

२१ - ३४ - न च एषः नद्यन्तानाम् बहुव्रीहिः ।

२२ - ३४ - प्राक् एव तर्हि प्राप्नोति ।

२३ - ३४ - ननु च उक्तम् न हि ङीष् विभाषा इति ।

२४ - ३४ - यदि अपि न ङीष् विभाषा कप् तु विभाषा ।

२५ - ३४ - कपः अवकाशः अन्यः बहुव्रीहिः ।

२६ - ३४ - अयवकः अव्रीहिकः ।

२७ - ३४ - ङीषः अवकाशः ।

२८ - ३४ - विभाषा कप् ।

२९ - ३४ - यदा न कप् सः अवकाशः ।

३० - ३४ - कुण्डोध्नी घटोध्नी ।

३१ - ३४ - कप्प्रसङ्गे लुभयम् प्राप्नोति ।

३२ - ३४ - परत्वात् कप् स्यात् ।

३३ - ३४ - तस्मात् सुष्थु उच्यते न वा समासान्ताधिकारे स्त्रीग्रहणात् ।

३४ - ३४ - इतरथा हि कब्विधिप्रसङ्गः इति ।

१ - ३१ - दामहायनान्तात् सङ्ख्यादेः ।

२ - ३१ - दामहायनान्तात् सङ्ख्यादेः इति वक्तव्यम् ।

३ - ३१ - इह मा भूत् ।

४ - ३१ - उद्दामा वडवा इति ।

५ - ३१ - तत्पुरुषविज्ञानात् वा सिद्धम् ।

६ - ३१ - बहुव्रीहेः इति वर्तते ।

७ - ३१ - तत्पुरुषः च अयम् ।

८ - ३१ - उत्क्रान्ता दाम्नः उत्दामा ।

९ - ३१ - भवेत् सिद्धम् यदा तत्पुरुषः ।

१० - ३१ - यदा तु खलु बहुव्रीहिः तदा न सिध्यति ।

११ - ३१ - उत्क्रान्तम् दाम अस्याः इति ।

१२ - ३१ - ननु च चेतनावतः एतत् भवति उत्क्रमणम् वा अपक्रमणम् वा दाम च अचेतनम् ।

१३ - ३१ - अचेतनेषु अपि चेतनावतुपचारः दृश्यते ।

१४ - ३१ - तत् यथा ।

१५ - ३१ - स्रस्तानि अस्याः बन्धनानि ।

१६ - ३१ - स्रस्यन्ते अस्याः बन्धनानि इति ।

१७ - ३१ - तत् तर्हि सङ्ख्यादेः इति वक्तव्यम् ।

१८ - ३१ - न वक्तव्यम् ।

१९ - ३१ - प्रकृतम् अनुवर्तते ।

२० - ३१ - न वक्तव्यम् ।

२१ - ३१ - प्रकृतम् अनुवर्तते ।

२२ - ३१ - क्व प्रकृतम् ।

२३ - ३१ - सङ्ख्याव्ययादेः ङीप् इति ।

२४ - ३१ - यदि तत् अनुवर्तते अव्ययादेः अपि वर्तते ।

२५ - ३१ - न एषः दोषः ।

२६ - ३१ - सङ्ख्यादेः इति अनुवर्तते ।

२७ - ३१ - अव्ययादेः इति निवृत्तम् ।

२८ - ३१ - कथम् पुनः एकयोगनिर्दिष्टयोः एकदेशः अनुवर्तते एकदेशः न ।

२९ - ३१ - एकयोगनिर्दिष्टानाम् अपि एकदेशानुवृत्तिः भवति ।

३० - ३१ - तत् यथा तस्य पादमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ ।

३१ - ३१ - पक्षात् तिः इति अत्र मूले इति अनुवर्तते पाक इति निवृत्तम् ।

१ - ८ - अथ इह कथम् भवितव्यम् ।

२ - ८ - द्वौ हायनौ अस्याः शालायाः ।

३ - ८ - द्विहायना त्रिहायना इति ।

४ - ८ - हायनः वयसि स्मृतः ।

५ - ८ - वयोवाचिनः हायनशब्दस्य ग्रहणम् ।

६ - ८ - न च एषः वयोवाची ।

७ - ८ - अथ णत्वम् कस्मात् न भवति ।

८ - ८ - णत्वम् अपि वयोवाचिनः एव ।

१ - ५ - मामकग्रहणम् किमर्थम् न अणन्तात् इति एवम् सिद्धम् ।

२ - ५ - नियमाऋथः अयम् आरम्भः ।

३ - ५ - मामकशब्दात् सञ्ज्ञाच्छन्दसोः एव ।

४ - ५ - क्व मा भूत् ।

५ - ५ - मामिका बुद्धिः इति ।

१ - ६ - अजसादिषु इति वक्तव्यम् ।

२ - ६ - इह अपि यथा स्यात् ।

३ - ६ - रात्रिम् रात्रिम् स्मरिष्यन्तः ।

४ - ६ - रात्रिम् रात्रिम् अजानतः ।

५ - ६ - सर्वाम् रात्रिम् सह उषित्वा ।

६ - ६ - वृत्त्याम् एकान्तरात्रिम् ।

१ - २६ - अन्तर्वत् पतिवत् इति गर्भभर्तृसंयोगे ।

२ - २६ - अन्तर्वत् पतिवत् इति गर्भभर्तृसंयोगे इति वक्तव्यम् ।

३ - २६ - इह मा भूत् ।

४ - २६ - प्रथते त्वया पतिमती पृथिवी इति ।

५ - २६ - अथ अन्तःशब्दस्य अगर्भसंयोगे किम् प्रत्युदाह्रियते ।

६ - २६ - अन्तः अस्याम् शालायाम् अस्ति इति ।

७ - २६ - किम् पुनः कारणम् वाक्यम् एव प्रत्युदाह्रियते न पुनः मतुप् ।

८ - २६ - अस्तिसामानाधिकरण्ये मतुप् विधीयते ।

९ - २६ - न च अत्र अस्तिसामानाधिकरण्यम् ।

१० - २६ - इह अपि तर्हि न प्राप्नोति ।

११ - २६ - अन्तर्वत्नी इति ।

१२ - २६ - एवम् तर्हि अन्तर्वत्पतिवतोः तु मतुब्वत्वे निपातनात् ।

१३ - २६ - अन्तर्वत् इति मतुप् निपात्यते ।

१४ - २६ - वत्वम् सिद्धम् ।

१५ - २६ - पतिवत् इति वत्वम् निपात्यते ।

१६ - २६ - मतुप् सिद्धः ।

१७ - २६ - किम् अविशेषेण ।

१८ - २६ - न इति आह ।

१९ - २६ - गर्भिण्याम् जीवपत्याम् च ।

२० - २६ - एतस्मिन् विषये ।

२१ - २६ - वा च छन्दसि नुक् भवेत् ।

२२ - २६ - वा च छन्दसि नुक् वक्तव्यः ।

२३ - २६ - सा अन्तर्वती देवान् उपैत् ।

२४ - २६ - सा अन्तर्वत्नी देवान् उपैत् ।

२५ - २६ - पतिवती तरुणवत्सा ।

२६ - २६ - पतिवत्नी तरुणवत्सा ।

१ - १२ - यज्ञ्संयोगे इति उच्यते ।

२ - १२ - तत्र इदम् न सिध्यति ।

३ - १२ - इयम् अस्ति पत्नी ।

४ - १२ - क्व तर्हि स्यात् ।

५ - १२ - पत्नीसंयाजः इति यत्र यज्ञसंयोगः ।

६ - १२ - न एषः दोषः ।

७ - १२ - पतिशब्दः अयम् ऐश्वर्यवाची ।

८ - १२ - सर्वेण च गृहस्थेन पञ्च महायज्ञाः निवर्त्याः ।

९ - १२ - यत् च अदः सायम् प्रातः होमचरुपुरोडाशान् निर्वपति तस्य असौ ईष्टे ।

१० - १२ - एवम् अपि तुषजकस्य पत्नी इति न सिध्यति ।

११ - १२ - उपमानात् सिद्धम् ।

१२ - १२ - पत्नी इव पत्नी इति ।

१ - १५ - पत्युः सपूर्वात् उपसर्जनसमासे उपसङ्क्न्ह्यानम् । पत्युः सपूर्वात् उपसर्जनसमासे उपसङ्क्न्ह्यानम् कर्तव्यम् ।

२ - १५ - वृद्धपतिः वृद्धपत्नी स्थूलपतिः स्थूलपत्नी ।

३ - १५ - वचनात् भविष्यति ।

४ - १५ - अस्ति वचने प्रयोजनम् ।

५ - १५ - किम् ।

६ - १५ - आशापतिः आसापत्नी । सिद्धम् तु पत्युः प्रातिपदिकविशेषणत्वात् ।

७ - १५ - सिद्धम् एतत् ।

८ - १५ - कथम् ।

९ - १५ - पत्युः प्रातिपदिकविशेषणत्वात् ।

१० - १५ - न एवम् विज्ञायते ।

११ - १५ - अस्ति अस्मात् पतिशब्दात् पूर्वः सः अयम् सपूर्वः ।

१२ - १५ - सपूर्वात् पतिशब्दात् अनुपसर्जनात् इति ।

१३ - १५ - कथम् तर्हि ।

१४ - १५ - अस्ति अस्मिन् प्रातिपदिके पूर्वः तत् इदम् सपूर्वम् ।

१५ - १५ - सपूर्वात् प्रातिपदिकात् पत्यन्तात् अनुपसर्जनात् इति ।

१ - ३ - पूतक्रत्वादीनाम् पुंयोगप्रकरणे वचनम् । पूतक्रत्वादयः पुंयोगप्रकरणे वक्तव्याः ।

२ - ३ - पूतक्रतोः स्त्री पूतक्रतायी ।

३ - ३ - यया हि पूताः क्रतवः पूतक्रतुः सा भवति ।

१ - ३८ - लिङ्गसन्निगोयेन सर्वत्र आगमादेशानाम् वचने लिङ्गलुकि तत्कृतप्रसङ्गः । लिङ्गसन्निगोयेन सर्वत्र आगमादेशानाम् वचने लिङ्गलुकि तत्कृतम् प्राप्नोति ।

२ - ३८ - पञ्चेन्द्राण्यः देवताः अस्य पञ्चेन्द्रः पञ्चाग्निः दशाग्निः ।

३ - ३८ - किम् उच्यते सर्वत्र इति ।

४ - ३८ - अन्यत्र अपि न अवश्यम् इह एव ।

५ - ३८ - क्व अन्यत्र ।

६ - ३८ - पञ्चभिः धीवरीभिः क्रीतः पञ्चधीवा दशधीवा इति ।

७ - ३८ - लिङ्गग्रहणे न अर्थः ।

८ - ३८ - सर्वत्र आगमादेशानाम् वचने लुकि तत्कृतप्रसङ्गः इति एव ।

९ - ३८ - इदम् अपि सिद्धम् भवति ।

१० - ३८ - पञ्चमेन गृह्णाति पञ्चकः ।

११ - ३८ - न एतत् अस्ति ।

१२ - ३८ - मट् अयम् परादिः ।

१३ - ३८ - स टतः ग्रहणेन ग्रहीष्यते ।

१४ - ३८ - इदम् तर्हि प्रयोजनम् ।

१५ - ३८ - षष्ठेन गृह्णाति षट्कः इति ।

१६ - ३८ - सिद्धम् तु आगमादेशानाम् अङ्गतः स्त्रीप्रकरणे वचनात् ।

१७ - ३८ - सिद्धम् एतत् ।

१८ - ३८ - कथम् ।

१९ - ३८ - आगमादेशाः ये इह स्त्रीप्रकरणे उच्यन्ते ते अङ्गाधिकारे वक्तव्याः ।

२० - ३८ - स्त्रीप्रकरणग्रहणेन न अर्थः ।

२१ - ३८ - सिद्धम् तु आगमादेशानाम् अङ्गतः वचनात् इति एव ।

२२ - ३८ - इदम् अपि सिद्धम् भवति ।

२३ - ३८ - षष्ठेन गृह्णाति षट्कः इति ।

२४ - ३८ - लिङ्गलुकि वा प्रकृतिप्रत्यापत्तिवचनम् । अथ वा लिङ्गलुकि एव प्रकृतिप्रत्यापत्तिः वक्तव्या ।

२५ - ३८ - लिङ्गग्रहणेन न अर्थः ।

२६ - ३८ - लुकि वा प्रकृतिप्रत्यापत्तिवचनम् इति एव ।

२७ - ३८ - इदम् अपि सिद्धम् भवति ।

२८ - ३८ - षष्ठेन गृह्णाति षट्कः इति ।

२९ - ३८ - किम् पुनः अत्र ज्यायः ।

३० - ३८ - लुकि प्रकृतिप्रत्यापत्तिवचनम् इति एव ज्यायः ।

३१ - ३८ - इदम् अपि सिद्धम् भवति ।

३२ - ३८ - पञ्चभिः पट्वीभिः क्रीतः पञ्चपटुः दशपटुः ।

३३ - ३८ - तत् तर्हि वक्तव्यम् ।

३४ - ३८ - न वक्तव्यम् ।

३५ - ३८ - सन्नियोगशिष्टानाम् अन्यतरापाये उभयोः अपि अभावः ।

३६ - ३८ - तत् यथा ।

३७ - ३८ - देवदत्तयज्ञदत्ताभ्याम् इदम् कर्म कर्तव्यम् ।

३८ - ३८ - देवदत्तापाये यज्ञदत्तः अपि न करोति ।

१ - ९ - असितपलितयोः प्रतिषेधः ।

२ - ९ - असितपलितयोः प्रतिषेधः वक्तयः ।

३ - ९ - असिता पलिता ।

४ - ९ - छन्दसि क्नम् एके ।

५ - ९ - छन्दसि क्नम् एके इच्छन्ति असिक्नी असि ओषधे ।

६ - ९ - पलिक्नीः इत् युवतयः भवन्ति ।

७ - ९ - वर्णात् ङीब्विधाने पिशङ्गात् उपसङ्ख्यानम् ।

८ - ९ - वर्णात् ङीब्विधाने पिशङ्गात् उपसङ्ख्यानम् कर्तव्यम् ।

९ - ९ - पिशङ्गी ।

१ - ८ - नीलात् ओषधौ ।

२ - ८ - नीलात् ओषधौ इति वक्तव्यम् ।

३ - ८ - नीली ओषधिः ।

४ - ८ - प्राणिनि च ।

५ - ८ - प्राणिनि च इति वक्तव्यम् ।

६ - ८ - नीली गौः नीली वडवा ।

७ - ८ - वा सञ्ज्ञायाम् । वा सञ्ज्ञायाम् इति वक्तव्यम् ।

८ - ८ - नीली नीला ।

१ - १३ - गुणवचनात् इति उच्यते ।

२ - १३ - कः गुणः नाम ।

३ - १३ - सत्त्वे निविशते अपैति पृथग्जातिषु दृश्यते आधेयः च अक्रियाजः च सः असत्त्वप्रकृतिः गुणः । अपरः आह उपैति अन्यत् ।

४ - १३ - जहाति अन्यत् ।

५ - १३ - दृष्टः द्रव्यान्तरेषु अपि ।

६ - १३ - वाचकः सर्वलिङ्गानाम् द्रव्यात् अन्यः गुणः स्मृतः ।

७ - १३ - गुणवचनात् ङीपा- आद्युदात्तार्थम् ।

८ - १३ - गुणवचनात् ङीप् वक्तव्यः ।

९ - १३ - किम् प्रयोजनम् ।

१० - १३ - आद्युदात्तार्थम् ।

११ - १३ - आद्युदात्ताः प्रयोजयन्ति ।

१२ - १३ - वस्वी ।

१३ - १३ - खरुसंयोगोपधप्रतिषेधः च ।

१ - १३२ - गोपालिकादीनाम् प्रतिषेधः वक्तव्यः गोपालिका पशुपालिका ।

२ - १३२ - किम् पुनः इह उदाहरणम् ।

३ - १३२ - प्रष्ट्ःी प्रचरी ।

४ - १३२ - कथम् पुनः अयम् प्रष्ठशब्दः अकारान्तः स्त्रियाम् वर्तते ।

५ - १३२ - तस्य इदम् इति अनेन अभिसम्बन्धेन ।

६ - १३२ - यथा एव हि असौ तत्कृतान् स्नानोद्वर्तनपरिषेकान् लभते एवम् प्रष्ठशब्दम् अपि लभते ।

७ - १३२ - यदि एवम् पुंयोगात् आख्यायाम् तद्धितलुग्वचनम् ।

८ - १३२ - पुंयोगात् आख्यायाम् तद्धितस्य लुक् वक्तव्यः ।

९ - १३२ - तस्य इदम् इति प्राप्नोति ।

१० - १३२ - न तर्हि इदानीम् इदम् भवति प्राष्थ्यः इमाः प्राचर्यः इमाः इति ।

११ - १३२ - भवति च ।

१२ - १३२ - विभाषा लुक् वक्तव्यः ।

१३ - १३२ - यदा लुक् तदा प्रष्ठी ।

१४ - १३२ - यदा न लुक् तदा प्राष्ठी ।

१५ - १३२ - यदि एवम् न अर्थः लुका ।

१६ - १३२ - विभाषा तद्धितोत्पत्तिः ।

१७ - १३२ - यदा तद्धितोत्पत्तिः तदा प्राष्ठी ।

१८ - १३२ - यदा न तद्धितोत्पत्तिः तदा प्रष्ठी ।

१९ - १३२ - एवम् अपि लुक् वक्तव्यः ।

२० - १३२ - न हि अन्तरेण तद्धितस्य लुकम् परार्थे शब्दः वर्तते ।

२१ - १३२ - यदि पुनः तस्याम् एव प्रष्ठशब्दः वर्तेत ।

२२ - १३२ - कथम् पुनः तस्याम् अप्रतिष्ठमानायाम् प्रष्ठशब्दः वर्तेत ।

२३ - १३२ - यथा एव हि असौ अकुर्वती किम् चित् पापम् तत्कृतान् वधबन्दनपरिक्लेशान् लभते एवम् प्रष्ठशब्दम् अपि लभते ।

२४ - १३२ - सुबन्तसमासवचनात् च अकारान्तानुपपत्तिः ।

२५ - १३२ - सुबन्तसमासवचनात् च अकारान्तता न उपपद्यते ।

२६ - १३२ - सुबन्तानाम् समासः ।

२७ - १३२ - तत्र अन्तरङ्गत्वात् टाप् ।

२८ - १३२ - टपि उत्पन्ने समासः ।

२९ - १३२ - स्थाशब्दः समस्येत ।

३० - १३२ - तत्र पुंयोगात् आख्यायाम् अकारान्तात् इति ईकारः न प्राप्नोति ।

३१ - १३२ - सिद्धम् तु स्त्रियाः पुंशब्देन अभिधानात् ।

३२ - १३२ - सिद्धम् एतत् ।

३३ - १३२ - कथम् ।

३४ - १३२ - स्त्रियाः पुंशब्देन अभिधानात् ।

३५ - १३२ - स्त्री पुंशब्देन अभिधीयते ।

३६ - १३२ - ननु च उक्तम् पुंयोगात् आख्यायाम् तद्धितलुग्वचनम् इति ।

३७ - १३२ - न एषः दोषः ।

३८ - १३२ - आचार्यप्रवृत्तिः ज्ञापयति न अतः तद्धितोत्पत्तिः भवति इति यत् अयम् पुंयोगात् आख्यायाम् ईकारम् शास्ति ।

३९ - १३२ - न एतत् अस्ति ज्ञापकम् ।

४० - १३२ - अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् ।

४१ - १३२ - ये अनीकाराः स्त्रीप्रत्ययाः तदर्थम् एतत् स्यात् ।

४२ - १३२ - यत् तर्हि आख्याग्रहणम् करोति ।

४३ - १३२ - न हि तद्धितान्तम् आख्या भवति ।

४४ - १३२ - अथ वा पुनः अस्तु तस्य इदम् इति अनेन अभिसम्बन्धेन ।

४५ - १३२ - ननु च उक्तम् पुंयोगात् आख्यायाम् तद्धितलुग्वचनम् इति ।

४६ - १३२ - न एषः दोषः ।

४७ - १३२ - न अवश्यम् अयम् एव अभिसम्बन्धः भवति तस्य इदम् इति ।

४८ - १३२ - अयम् अपि अभिसम्बन्धः अस्ति सः अयम् इति ।

४९ - १३२ - कथम् पुनः अतस्मिन् सः इति एतत् भवति ।

५० - १३२ - चतुर्भिः प्रकारैः अतस्मिन् सः इति एतत् भवति तात्स्थ्यात् ताद्धर्म्यात् तत्सामीप्यात् तत्साहचर्यात् इति ।

५१ - १३२ - तात्स्थ्यात् तावत् ।

५२ - १३२ - मञ्चाः हसन्ति ।

५३ - १३२ - गिरिः दह्यते ।

५४ - १३२ - ताद्धर्म्यात् ।

५५ - १३२ - जटिनम् यान्तम् ब्रह्मदत्तः इति आह ।

५६ - १३२ - ब्रह्मदत्ते यानि कार्याणि जटिनि अपि तानि क्रियन्ते इति अतः जटि ब्रह्मदत्तः इति उच्यते ।

५७ - १३२ - तत्सामीप्यात् ।

५८ - १३२ - गङ्गायाम् घोषः ।

५९ - १३२ - कूपे गर्गकुलम् ।

६० - १३२ - तत्साहचर्यात् ।

६१ - १३२ - कुन्तान् प्रवेशय ।

६२ - १३२ - यष्टीः प्रवेशय इति ।

६३ - १३२ - अथ वा पुनः अस्तु तस्याम् एव प्रष्ठशब्दः ।

६४ - १३२ - ननु च उक्तम् सुबन्तसमासवचनात् च अकारान्तानुपपत्तिः इति ।

६५ - १३२ - न एषः दोषः ।

६६ - १३२ - गतिकारकोपपदानाम् कृद्भिः सह समासवचनम् ।

६७ - १३२ - गतिकारकोपपदानाम् कृद्भिः सह समासः भवति इति एषा परिभाषा कर्तव्या ।

६८ - १३२ - कानि एतस्याः परिभाषायाः प्रयोजनानि ।

६९ - १३२ - प्रयोजनम् क्तात् अल्पाख्यायाम् । अभ्रविलिप्तीसूपविलिप्ति ।

७० - १३२ - सुबन्तानाम् समासः ।

७१ - १३२ - तत्र अन्तरङ्गत्वात् टाप् ।

७२ - १३२ - टपि उत्पन्ने समासः ।

७३ - १३२ - विलिप्ताशब्दः समस्येत ।

७४ - १३२ - तत्र क्तात् अल्पाख्यायाम् अकारान्तात् इति ङीष् न प्राप्नोति ।

७५ - १३२ - जातेः ङीष्विधाने ।

७६ - १३२ - जातेः ङीष्विधाने प्रयोजनम् ।

७७ - १३२ - व्याघ्री कच्छपी ।

७८ - १३२ - सुबन्तानाम् समासः ।

७९ - १३२ - तत्र अन्तरङ्गत्वात् टाप् ।

८० - १३२ - टपि उत्पन्ने समासः ।

८१ - १३२ - घ्राशब्दः समस्येत ।

८२ - १३२ - तत्र जातेः अस्त्रीविषयात् अयोपधात् अकारान्तात् इति ङीष् न प्राप्नोति ।

८३ - १३२ - समासान्तस्य णत्वे ।

८४ - १३२ - समासान्तस्य णत्वे प्रयोजनम् ।

८५ - १३२ - वक्ष्यति प्रातिपदिकान्तस्य णत्वे समासान्तग्रहणम् असमासान्तप्रतिषेधार्थम् इति ।

८६ - १३२ - तस्मिन् क्रियमाणे माषवापिणी व्रीहिवापिणी सुबन्तानाम् समासः ।

८७ - १३२ - तत्र अन्तरङ्गत्वात् नकारान्तत्वात् ङीप् ।

८८ - १३२ - ङीपि उत्पन्ने समासः ।

८९ - १३२ - वापिनी शब्दः समस्येत ।

९० - १३२ - तत्र समासान्तस्य इति णत्वम् न प्राप्नोति ।

९१ - १३२ - कृदन्तात् तद्धिते वृद्धिस्वरौ च ।

९२ - १३२ - कृदन्तात् तद्धिते वृद्धिस्वरौ च प्रयोजनम् साङ्कुटिनम् व्यावक्रोशी ।

९३ - १३२ - अत्र अवयवात् उत्पत्तिः प्रसज्येत ।

९४ - १३२ - गतिकारकोपपदानाम् कृद्भिः सह समासः भवति इति न दोषः भवति ।

९५ - १३२ - सत्याम् अपि एतस्याम् परिभाषायाम् अवयवात् उत्पत्तिः प्राप्नोति ।

९६ - १३२ - किम् कारणम् ।

९७ - १३२ - प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति ।

९८ - १३२ - कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति इति सङ्घातात् उत्पत्तिः भविष्यति ।

९९ - १३२ - यदि तर्हि एषा परिभाषा अस्ति न एतस्याः परिभाषायाः प्रयोजनम् भवति ।

१०० - १३२ - एतया एव सिद्धम् ।

१०१ - १३२ - न सिध्यति ।

१०२ - १३२ - किम् कारणम् ।

१०३ - १३२ - अप्रातिपदिकत्वात् ।

१०४ - १३२ - कृत्त्वात् प्रातिपदिकसञ्ज्ञा भविष्यति ।

१०५ - १३२ - ननु च इदानीम् प्रातिपदिकसञ्ज्ञायाम् अपि एतया परिभाषया शक्यम् उपस्थातुम् ।

१०६ - १३२ - न इति आह ।

१०७ - १३२ - इह हि मूलकेन उपदंशम् भुङ्क्ते इति वाक्ये अपि लुक् प्रसज्येत ।

१०८ - १३२ - स्वरे च दोषः स्यात् ।

१०९ - १३२ - प्रकारकः प्रकरणम् ।

११० - १३२ - गतिकारकोपपदात् कृदन्तम् उत्तरपदम् प्रकृतिस्वरम् भवति इति एषः स्वरः न स्यात् ।

१११ - १३२ - न एषः दोषः ।

११२ - १३२ - द्वे अत्र प्रातिपदिकसञ्ज्ञे अवयवस्य अपि समुदायस्य अपि ।

११३ - १३२ - तत्र अवयवस्य या प्रातिपदिकसञ्ज्ञा तदाश्रयः स्वरः भविष्यति ।

११४ - १३२ - इह अपि तर्हि साङ्कुटिनम् व्यावक्रोशी इति द्वे अत्र प्रातिपदिकसञ्ज्ञे अवयवस्य अपि समुदायस्य अपि ।

११५ - १३२ - तत्र अवयवस्य या प्रातिपदिकसञ्ज्ञा तदाश्रयावयवात् उत्पत्तिः प्रसज्येत ।

११६ - १३२ - अवयवात् उत्पत्तौ सत्याम् कः दोषः ।

११७ - १३२ - कौम्भकारेयः न सिध्यति ।

११८ - १३२ - अवयवस्य वृद्धिस्वरौ स्याताम् ।

११९ - १३२ - तस्मात् प्रयोजनम् एव एतस्याः परिभाषायाः ।

१२० - १३२ - उभाभ्याम् नु खलु सिध्यति ।

१२१ - १३२ - अवदातायाम् तु ङीप्प्रसङ्गः ।

१२२ - १३२ - अवदातायाम् तु ङीप् प्राप्नोति ।

१२३ - १३२ - अवदाता ब्राह्मणी ।

१२४ - १३२ - वर्णात् अनुदात्तात् तोपधात् तः नः इति ।

१२५ - १३२ - न एषः वर्णवाची ।

१२६ - १३२ - किम् तर्हि विशुद्धवाची ।

१२७ - १३२ - आतः च विशुद्धवाची ।

१२८ - १३२ - एवम् हि आह त्रीणि यस्य अवदातानि विद्या योनिः च कर्म च एतत् शिवम् विजानीहि ब्राह्मणाग्र्यस्य लक्षणम् इति ।

१२९ - १३२ - सूर्यात् देवतायाम् चाप् वक्तव्यः ।

१३० - १३२ - सूर्यस्य स्त्री सूर्या ।

१३१ - १३२ - देवतायाम् इति किमर्थम् ।

१३२ - १३२ - सूरी ।

१ - २४ - हिमारण्ययोः महत्त्वे ।

२ - २४ - हिमारण्ययोः महत्त्वे इति वक्तव्यम् ।

३ - २४ - महत् हिमम् हिमानी ।

४ - २४ - महत् अरण्यम् अरण्यानी ।

५ - २४ - यवात् दोषे ।

६ - २४ - यवात् दोषे इति वक्तव्यम् ।

७ - २४ - दुष्टः यवः यवानी ।

८ - २४ - यवनात् लिप्याम् ।

९ - २४ - यवनात् लिप्याम् इति वक्तव्यम् ।

१० - २४ - यवनानी लिपिः ।

११ - २४ - उपाध्यायमातुलाभ्याम् वा ।

१२ - २४ - उपाध्यायमातुलाभ्याम् वा इति वक्तव्यम् ।

१३ - २४ - उपाध्यायी उपाध्यायानी ।

१४ - २४ - मातुली मातुलानी ।

१५ - २४ - मुद्गलात् छन्दसि लित् च ।

१६ - २४ - मुद्गलात् छन्दसि लित् च इति वक्तव्यम् ।

१७ - २४ - रथीः अभूत् मुद्गलानी ।

१८ - २४ - आचार्यात् अणत्वम् च ।

१९ - २४ - आचार्यात् अणत्वम् च इति वक्तव्यम् ।

२० - २४ - आचार्यानी ।

२१ - २४ - आर्यक्षत्रियाभ्याम् वा ।

२२ - २४ - आर्यक्षत्रियाभ्याम् वा इति वक्तव्यम् ।

२३ - २४ - आर्या आर्याणी ।

२४ - २४ - क्षत्रिया क्षत्रियाणी ।

१ - ११ - करणपूर्वात् इति किमर्थम् ।

२ - ११ - गवात् क्रीता ।

३ - ११ - अश्वेन क्रीता ।

४ - ११ - करणपूर्वात् इति उच्यमाने अपि अत्र प्राप्नोति ।

५ - ११ - एषः अपि हि क्रीतशब्दः करणपूर्वः ।

६ - ११ - विभक्त्या व्यवहितत्वात् न भविष्यति ।

७ - ११ - यदि तर्हि विभक्तिः अपि ववधायिका भविष्यति मनसाक्रीती इति न सिध्यति ।

८ - ११ - एवम् तर्हि न एवम् विज्ञायते ।

९ - ११ - करणम् पूर्वम् अस्मात् क्रीतशब्दात् सः अयम् करणपूर्वः तस्मात् करणपूर्वात् क्रीतशब्दात् अनुपसर्जनात् इति ।

१० - ११ - कथम् तर्हि ।

११ - ११ - करणम् अस्मिन् प्रातिपदिके पूर्वम् तत् इदम् करणपूर्वम् तस्मात् करणपूर्वात् प्रातिपदिकात् क्रीतान्तात् अनुपसर्जनात् इति ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP