पाद १ - खण्ड ४२

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - १०८ - ङ्याप्प्रातिपदिकग्रहणम् किमर्थम् ।

२ - १०८ - ङ्याप्प्रातिपदिकात् यथा स्युः ।

३ - १०८ - धातोः मा भूवन् इति ।

४ - १०८ - न एतत् अस्ति प्रयोजनम् ।

५ - १०८ - धातोः तव्यादयः विधीयन्ते ।

६ - १०८ - ते अपवादत्वात् बाधकाः भविष्यन्ति ।

७ - १०८ - तिङन्तात् तर्हि मा भूवन् इति ।

८ - १०८ - एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते ।

९ - १०८ - ते च अत्र तिङा उक्ताः एकत्वादयः इति कृत्वा उक्तार्थत्वान् न भविष्यन्ति ।

१० - १०८ - टाबादयः तर्हि तिङन्तात् मा भूवन् इति ।

११ - १०८ - स्त्रियाम् टाबादयः विधीयन्ते ।

१२ - १०८ - न च तिङन्तस्य स्त्रीत्वेन योगः अस्ति ।

१३ - १०८ - अणादयः तर्हि तिङन्तात् मा भूवन् इति ।

१४ - १०८ - अपत्यादिष्व् अर्थेषु अणादयः विधीयन्ते ।

१५ - १०८ - न च तिङन्तस्य अपत्यादिभिः योगः अस्ति ।

१६ - १०८ - अथ अपि कथम् चित् योगः स्यात् एवम् अपि न दोषः ।

१७ - १०८ - आचार्यप्रवृत्तिः ज्ञापयति न तिङन्तात् अणादयः भवन्ति इति यत् अयम् क्व चित् तद्धितविधौ तिङ्ग्रहणम् करोति ।

१८ - १०८ - अतिशायने तमबिष्ठनौ तिङः च इति ।

१९ - १०८ - अतः उत्तरम् पठति ।

२० - १०८ - ङ्याप्प्रातिपदिकग्रहणम् अङ्गभपदसञ्ज्ञार्थम् ।

२१ - १०८ - ङ्याप्प्रातिपदिकग्रहणम् क्रियते अङ्गभपदसञ्ज्ञार्थम् ।

२२ - १०८ - अङ्गभपदसञ्ज्ञाः ङ्याप्प्रातिपदिकस्य यथा स्युः इति ।

२३ - १०८ - क्व पुनः इह अङ्गभपदसञ्ज्ञार्थेन ङ्याप्प्रातिपदिकग्रहणेन अर्थः ।

२४ - १०८ - टाबादिषु ।

२५ - १०८ - न एतत् अस्ति प्रयोजनम् ।

२६ - १०८ - ग्रहणवद्भ्यः टाबादयः विधीयन्ते ।

२७ - १०८ - उगितः ङीप् भवति अतः टाप् भवति इति ।

२८ - १०८ - यत् तत् शब्दस्वरूपम् गृह्यते तस्मात् तदुत्पत्तिः ।

२९ - १०८ - तस्य एताः सञ्ज्ञाः भविष्यन्ति ।

३० - १०८ - अथ अपि कः चित् अग्रहणः एवम् अपि अदोषः ।

३१ - १०८ - स्त्रियाम् टाबादयः विधीयन्ते ।

३२ - १०८ - यत् तत् शब्दस्वरूपम् स्त्रियाम् वर्तते तस्मात् तदुत्पत्तिः ।

३३ - १०८ - तस्य एताः सञ्ज्ञाः भविष्यन्ति ।

३४ - १०८ - अणादिषु तर्हि ।

३५ - १०८ - अणादयः अपि ग्रहणवद्भ्यः टाबादयः विधीयन्ते ।

३६ - १०८ - गर्गादिभ्यः यञ् नडादिभ्यः फक् इति ।

३७ - १०८ - यत् तत् शब्दस्वरूपम् गृह्यते तस्मात् तदुत्पत्तिः ।

३८ - १०८ - तस्य एताः सञ्ज्ञाः भविष्यन्ति ।

३९ - १०८ - अथ अपि कः चित् अग्रहणः एवम् अपि अदोषः ।

४० - १०८ - अपत्यादिषु अर्थेषु अणादयः विधीयन्ते ।

४१ - १०८ - यत् तत् शब्दस्वरूपम् अपत्यादिषु अर्थेषु वर्तते तस्मात् तदुत्पत्तिः ।

४२ - १०८ - तस्य एताः सञ्ज्ञाः भविष्यन्ति ।

४३ - १०८ - स्वार्थिकेषु तर्हि ।

४४ - १०८ - स्वार्थिकाः अपि ग्रहणवद्भ्यः विधीयन्ते ।

४५ - १०८ - यावादिभ्यः कन् प्रज्ञाइद्भ्यः अण् इति ।

४६ - १०८ - यत् तत् शब्दस्वरूपम् गृह्यते तस्मात् तदुत्पत्तिः ।

४७ - १०८ - तस्य एताः सञ्ज्ञाः भविष्यन्ति ।

४८ - १०८ - यः तर्हि अग्रहणः शुक्लतरः कृष्णतरः इति ।

४९ - १०८ - अत्र अपि न यावत् शुक्लः तावत् शुक्लतरः ।

५० - १०८ - प्रकृष्टः शुक्लः शुक्लतरः ।

५१ - १०८ - यत् तत् शब्दस्वरूपम् प्रकृष्टे वर्तते तस्मात् तदुत्पत्तिः ।

५२ - १०८ - तस्य एताः सञ्ज्ञाः भविष्यन्ति ।

५३ - १०८ - स्वादिषु तर्हि ।

५४ - १०८ - एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते ।

५५ - १०८ - यत् तत् शब्दस्वरूपम् एकत्वादिषु अर्थेषु वर्तते तस्मात् तदुत्पत्तिः ।

५६ - १०८ - तस्य एताः सञ्ज्ञाः भविष्यन्ति ।

५७ - १०८ - कथम् पुनः इह उच्यमानाः स्वादयः एकत्वादिषु अर्थेषु शक्या विज्ञातुम् ।

५८ - १०८ - एकवाक्यत्वात् ।

५९ - १०८ - एकम् वाक्यम् तत् च इदम् च ।

६० - १०८ - यदि एकम् वाक्यम् तत् च इदम् च किमर्थम् नानादेशस्थम् क्रियते ।

६१ - १०८ - कौशलमात्रम् एतत् आचार्यः दर्शयति यत् एकम् वाक्यम् सत् नानादेशस्थम् करोति ।

६२ - १०८ - अन्यत् अपि सङ्ग्रहीष्यामि इति ।

६३ - १०८ - यच्छयोः च लुगर्थम् ।

६४ - १०८ - यच्छयोः तर्हि लुगर्थम् ङ्याप्प्रातिपदिकग्रहणम् क्रियते ।

६५ - १०८ - कंसीयपरशव्ययोः यञञौ लुक् च इति ङ्याप्प्रातिपदिकात् परस्य लुक् यथा स्यात् ।

६६ - १०८ - अक्रियमाणे हि ङ्याप्प्रातिपदिकग्रहणे प्रकृतेः अपि लुक् प्रसज्येत ।

६७ - १०८ - एतत् अपि न अस्ति प्रयोजनम् ।

६८ - १०८ - यथा परिभाषितम् प्रत्ययस्य लुक्श्लुलुपः भवन्ति इति प्रत्ययस्य भविष्यति ।

६९ - १०८ - एवम् अपि उकारसकारयोः प्रसज्येत ।

७० - १०८ - कमेः सः कंसः परान् श्र्णाति इति परशुः इति ।

७१ - १०८ - उणादयः अव्युत्पन्नानि प्रातिपदिकानि ।

७२ - १०८ - वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणे च प्रत्ययविधौ तत्सम्प्रत्ययार्थम् ।

७३ - १०८ - वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणे तर्हि प्रत्ययविधौ तत्सम्प्रत्ययार्थम् ङ्याप्प्रातिपदिकग्रहणम् क्रियते ।

७४ - १०८ - वृद्धात् अवृद्धात् अवर्णान्टात् अनुदात्तादेः द्व्यचः इति एतानि प्रातिपदिकविशेषणानि यथा स्युः इति ।

७५ - १०८ - अथ अक्रियमाणे ङ्याप्प्रातिपदिकग्रहणे कस्य एतानि विशेषणानि स्युः ।

७६ - १०८ - समर्थविशेषणानि ।

७७ - १०८ - तत्र कः दोषः ।

७८ - १०८ - उदीचाम् वृद्धात् अगोत्रात् इह च प्रसज्येत ज्ञानाम् ब्राह्मणानाम् अपत्यम् इति ।

७९ - १०८ - एतत् हि समर्थम् वृद्धम् ।

८० - १०८ - इह च न स्यात् ज्ञयोः ब्राह्मणयोः अपत्यम् इति ।

८१ - १०८ - एतत् हि समर्थम् अवृद्धम् ।

८२ - १०८ - वृद्ध. अवृद्ध ।

८३ - १०८ - प्राचाम् अवृद्धात् फिन् बहुलम् इह च प्रसज्येत ज्ञयोः ब्राह्मणयोः अपत्यम् इति ।

८४ - १०८ - एतत् हि समर्थम् अवृद्धम् ।

८५ - १०८ - इह च न स्यात् ज्ञानाम् ब्राह्मणानाम् अपत्यम् इति ।

८६ - १०८ - एतत् हि समर्थम् वृद्धम् ।

८७ - १०८ - अवृद्ध ।

८८ - १०८ - अवर्ण ।

८९ - १०८ - अत इञ् भवति इह एव स्यात् दक्षस्य अपत्यम् दाक्षिः इति ।

९० - १०८ - एतत् हि समर्थम् अकारान्तम् ।

९१ - १०८ - इह च न स्यात् दक्षयोः अपत्यम् दक्षाणाम् अपत्यम् इति ।

९२ - १०८ - एतत् ह्स् समर्थम् अनवर्णान्तम् ।

९३ - १०८ - अवर्ण ।

९४ - १०८ - स्वर ।

९५ - १०८ - अनुदात्तादेः अञ् भवति इति इह च प्रसज्येत वाचः विकारः त्वचः विकारः इति ।

९६ - १०८ - एतत् ह्स् समर्थम् अनुदात्तादि ।

९७ - १०८ - इह च न स्यात् सर्वेषाम् विकारः इति ।

९८ - १०८ - एतत् ह्स् समर्थम् उदात्तादि ।

९९ - १०८ - स्वर ।

१०० - १०८ - द्व्यज्लक्षण द्व्जचः ठन् इति इह च प्रसज्येत वाचा तरति त्वचा तरति इति ।

१०१ - १०८ - एतत् हि समर्थम् द्व्यच् ।

१०२ - १०८ - इह च न स्यात् घटेन तरति इति ।

१०३ - १०८ - एतत् हि समर्थम् समर्थम् अद्व्यच् ।

१०४ - १०८ - अस्ति पुनः समर्थविशेषणे सति किम् चित् इष्टम् सङ्गृहीतम् भवति आहोस्वित् दोषान्तम् एव ।

१०५ - १०८ - अस्ति इति आह ।

१०६ - १०८ - किम् ।

१०७ - १०८ - साम्ना तरति वेम्ना तरति इति ।

१०८ - १०८ - एतत् हि समर्थम् अपि ङ्याप्प्रातिपदिकम् अपि ।

१ - २०६ - अथ ङ्याब्ग्रहणम् किमर्थम् न प्रातिपदिकात् इति एव सिद्धम् ।

२ - २०६ - न सिध्यति ।

३ - २०६ - अप्रत्ययः इति प्रातिपदिकसञ्ज्ञायाः प्रतिषेधः प्राप्नोति ।

४ - २०६ - यदि एषः ङ्याब्ग्रहणे हेतुः त्यूग्रहणम् अपि कर्तव्यम् ।

५ - २०६ - तौ अपि हि प्रत्ययौ ।

६ - २०६ - तिग्रहणे तावत् वार्त्तम् ।

७ - २०६ - तद्धितः प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा भविष्यति ।

८ - २०६ - ऊग्रहणे च अपि वार्त्तम् ।

९ - २०६ - उवर्णान्तात् ऊङ् विधीयते ।

१० - २०६ - तत्र एकादेशः ।

११ - २०६ - एकादेशे कृते अन्तादिवद्भावात् प्रातिपदिकसञ्ज्ञा भविष्यति ।

१२ - २०६ - यदि एषः ऊङः अग्रहणे हेतुः आब्ग्रहणम् अपि न कर्तव्यम् ।

१३ - २०६ - आप् अपि हि अकारान्तात् विधीयते ।

१४ - २०६ - तत्र एकादेशः ।

१५ - २०६ - एकादेशे कृते अन्तादिवद्भावात् प्रातिपदिकसञ्ज्ञा भविष्यति ।

१६ - २०६ - यः तर्हि अनकारान्तात् ।

१७ - २०६ - क्रुञ्चा उष्णिहा देवविशा इति ।

१८ - २०६ - अत्र अपि अकारान्तात् वृत्तिः लक्ष्यते ।

१९ - २०६ - क्रुञ्चान् आलभेत ।

२० - २०६ - उष्णिहककुभौ ।

२१ - २०६ - देवविशम् च मनुष्यविशम् च इति ।

२२ - २०६ - इह तावत् उष्णिहककुभौ इति ।

२३ - २०६ - आपः एव एतत् औत्तरपदिकम् ह्रस्वत्वम् ।

२४ - २०६ - इह खलु अपि देवविशम् च मनुष्यविशम् च इति ।

२५ - २०६ - न अस्ति विशेषः अकारान्तात् उत्पत्तौ सत्याम् व्यञ्जनान्तात् वा इति ।

२६ - २०६ - यत् तावत् उच्यते इह तावत् उष्णिहककुभौ इति ।

२७ - २०६ - आपः एव एतत् औत्तरपदिकम् ह्रस्वत्वम् इति ।

२८ - २०६ - सञ्ज्ञाच्छन्दसोः इति एवम् तत् ।

२९ - २०६ - न च एषा सञ्ज्ञा न अपि इदम् छन्दः ।

३० - २०६ - यत् अपि उच्यते इह खलु अपि देवविशम् च मनुष्यविशम् च इति ।

३१ - २०६ - न अस्ति विशेषः अकारान्तात् उत्पत्तौ सत्याम् व्यञ्जनान्तात् वा इति ।

३२ - २०६ - स्वरे विशेषः ।

३३ - २०६ - यदि अत्र व्यञ्जनान्तात् उत्पत्तिः स्यात् देवविशम् इति एवम् स्वरः प्रसज्येत ।

३४ - २०६ - देवविशम् इति च इष्यते ।

३५ - २०६ - तस्मात् कः एषः एवम्विषयः ।

३६ - २०६ - इदम् तर्हि पादः अन्यतरस्याम् टाप् ऋचि इति ।

३७ - २०६ - ऋचि इति उच्यते ।

३८ - २०६ - तत्र छान्दसत्वात् भविष्यति ।

३९ - २०६ - ऋचि इति न इदम् छन्दः विवक्षितम् काठकम् कापालकम् अमुदकम् पैप्पलादकम् वा ।

४० - २०६ - किम् तर्हि ।

४१ - २०६ - प्रत्ययार्थविशेषणम् एतत् ।

४२ - २०६ - ऋक् चेत् प्रत्ययार्थः भवति इति ।

४३ - २०६ - एतत् अपि न अस्ति प्रयोजनम् पदशब्दः पादशब्दसमानार्थः अकारान्तः छन्दसि दृश्यते ।

४४ - २०६ - तस्याः सप्ताक्षरम् एकम् पदम् एअकः पादः इति अर्थः ।

४५ - २०६ - तस्मात् उत्पत्तिः भविष्यति ।

४६ - २०६ - इदम् तर्हि डाप् उभाभ्याम् अन्यतरस्याम् इति ।

४७ - २०६ - बहुराजा बहुराजे बहुराजाः ।

४८ - २०६ - ङ्याब्ग्रहणम् अनर्थकम् प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणात् ।

४९ - २०६ - ङ्याब्ग्रहणम् अनर्थकम् ।

५० - २०६ - किम् कारणम् ।

५१ - २०६ - प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणात् ।

५२ - २०६ - प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति एषा परिभाषा कर्तव्या ।

५३ - २०६ - कः पुनः विशेषः एषा वा परिभाषा क्रियते आब्ग्रहणम् वा ।

५४ - २०६ - अवश्यम् एषा परिभाषा कर्तव्या ।

५५ - २०६ - बहूनि एतस्याः परिभाषायाः प्रयोजनानि ।

५६ - २०६ - कानि ।

५७ - २०६ - प्रयोजनम् सर्वनामस्वरसमासतद्धितविधिलुगलुगर्थम् ।

५८ - २०६ - सर्वनामविधिः प्रयोजनम् ।

५९ - २०६ - सर्वनाम्नः सुट् इह एव स्यात् तेषाम् येषाम् ।

६० - २०६ - तासाम् यासाम् इति अत्र न स्यात् ।

६१ - २०६ - न एतत् अस्ति प्रयोजनम् ।

६२ - २०६ - अवर्णान्तात् टाप् विधीयते ।

६३ - २०६ - तत्र एकादेशः ।

६४ - २०६ - एकादेशे कृते अन्तादिवद्भावात् सुट् भविष्यति ।

६५ - २०६ - इदम् तर्हि प्रयोजनम् ।

६६ - २०६ - सर्वनाम्नः तृतीया च इह एव स्यात् भवता हेतुना भवतः हेतोः इति ।

६७ - २०६ - भवत्या हेतुना भवत्याः हेतोः इति अत्र न स्यात् ।

६८ - २०६ - सर्वनाम ।

६९ - २०६ - स्वर ।

७० - २०६ - कुशूलकूपकुम्भशालम् बिले इह एव स्यात् कुशूलबिलम् ।

७१ - २०६ - कुशूलीबिलम् इति अत्र न स्यात् ।

७२ - २०६ - स्वर ।

७३ - २०६ - समास ।

७४ - २०६ - द्वितीया श्रितादिभिः सह समस्यते इह एव स्यात् कष्टम् श्रितः कष्टश्रितः ।

७५ - २०६ - कष्टम् श्रिता कष्टश्रिता इति अत्र न स्यात् ।

७६ - २०६ - एतत् अपि न अस्ति प्रयोजनम् ।

७७ - २०६ - श्रितशब्दः अकारान्तः ।

७८ - २०६ - तत्र एकादेशः ।

७९ - २०६ - एकादेशे कृते अन्तादिवद्भावात् भविष्यति ।

८० - २०६ - इदम् तर्हि ।

८१ - २०६ - पूर्वसदृश इति इह एव स्यात् पित्रा सदृशः पितृसदृशः ।

८२ - २०६ - पित्रा सदृशी पितृसदृशी इति अत्र न स्यात् ।

८३ - २०६ - समासः ।

८४ - २०६ - तद्धितविधि ।

८५ - २०६ - अचित्तहिअस्तिधेनोः ठक् इह एव स्यात् हस्तिनाम् समूहः हास्तिकम् ।

८६ - २०६ - हस्तिनीनाम् समूहः हास्तिकम् इति अत्र न स्यात् ।

८७ - २०६ - एतत् अपि न अस्ति प्रयोजनम् ।

८८ - २०६ - पुंवद्भावेन एतत् सिद्धम् ।

८९ - २०६ - इदम् तर्हि ।

९० - २०६ - प्रमाणे द्वयसच् यथा इह भवति हस्तिद्वयसम् हस्तिमात्रम् एवम् हस्तिनीद्वयसम् हस्तिनीमात्रम् इति अपि यथा स्यात् ।

९१ - २०६ - तद्धितविधि ।

९२ - २०६ - लुक् ।

९३ - २०६ - न इन्द्सिद्धबध्नातिषु च इह एव स्यात् स्थण्डिलशायी ।

९४ - २०६ - स्थण्डिलशायिनी इति अत्र न स्यात् ।

९५ - २०६ - लुक् ।

९६ - २०६ - अलुक् ।

९७ - २०६ - शयवासवासिषु अकालात् इह एव स्यात् ग्रामेवासी ।

९८ - २०६ - ग्रामेवासिनी इति अत्र न स्यात् ।

९९ - २०६ - मानिनि च विधिप्रतिषेधाऋथम् । मानिनि च विधिप्रतिषेधाऋथम् प्रयोजनम् ।

१०० - २०६ - विध्यर्थम् तावत् ।

१०१ - २०६ - क्यङ्मानिनोः च इह एव स्यात् दर्शनीयमानी ।

१०२ - २०६ - दर्शनीयमानिनी इति अत्र न स्यात् ।

१०३ - २०६ - प्रतिषेधार्थम् अपि ।

१०४ - २०६ - वक्याति श्वाङ्गात् च ईतः अमानिनि ।

१०५ - २०६ - तस्मिन् क्रियमाणे इह एव स्यात् दीर्घमुखमानी ।

१०६ - २०६ - दीर्घमुखमानिनी इति अत्र न स्यात् ।

१०७ - २०६ - प्रत्ययग्रहणोपचारेषु च ।

१०८ - २०६ - प्रत्ययग्रहणोपचारेषु च प्रयोजनम् ।

१०९ - २०६ - तृजकाभ्याम् कर्तरि इह एव स्यात् अपाम् स्रष्टा ।

११० - २०६ - अपाम् स्रष्ट्री इति अत्र न स्यात् ।

१११ - २०६ - उपचार अतः कृकमिकंसकुम्भ इथ एव स्यात् अयस्कुम्भः ।

११२ - २०६ - अयस्कुम्भी इति अत्र न स्यात् ।

११३ - २०६ - एतानि अस्याः परिभाषायाः प्रयोजनानि यदर्थम् एषा परिभाषा कर्तव्या ।

११४ - २०६ - एतस्याम् च सत्याम् न अर्थः ङ्याब्ग्रहणेन ।

११५ - २०६ - अतिप्रसङ्गः उपपदविधौ ।

११६ - २०६ - उपपदविधौ अतिप्रसङ्गः भवति ।

११७ - २०६ - द्विषत्परयोः तापेः यथा इह भवति द्विषन्तपः इति एवम् द्विषतीतपः इति अत्र अपि स्यात् ।

११८ - २०६ - यञिञोः फकि ।

११९ - २०६ - यञिञोः फकि अतिप्रसङ्गः भवति ।

१२० - २०६ - यथा इह भवति गार्ग्यायणः दाक्षायणः एवम् गार्गेयः दाक्षेयः इति अत्र अपि स्यात् ।

१२१ - २०६ - न एषः दोषः ।

१२२ - २०६ - ढक् अत्र बाधकः भविष्यति ।

१२३ - २०६ - समासान्तेषु च ।

१२४ - २०६ - समासान्तेषु च अतिप्रसङ्गः भवति ।

१२५ - २०६ - राजाहसखिभ्यः टत् यथा इह भवति मद्रराजः कश्मीरराजः एवम् मद्रराज्ञी कश्मीरराज्ञी इति अत्र अपि स्यात् ।

१२६ - २०६ - न वा भवति मद्रराजी इति ।

१२७ - २०६ - भवति यदा समासान्तात् ईकारः ।

१२८ - २०६ - लिङ्गविशिष्टग्रहणे तु ईकारान्तात् समासान्तः प्रसज्येत ।

१२९ - २०६ - तत्र कः दोषः ।

१३० - २०६ - पुंवद्भावः टिलोपः च ।

१३१ - २०६ - तत्र मद्रजी इति एतत् रूपम् स्यात् ।

१३२ - २०६ - मद्रराज्ञी इति च इष्यते ।

१३३ - २०६ - महदात्त्वे प्रियादिषु ।

१३४ - २०६ - महदात्त्वे प्रियादिषु अतिप्रसङ्गः भवति ।

१३५ - २०६ - आत् महतः समानाधिकरणजातीययोः इति यथा इह भवति महान् प्रियः अस्य महाप्रियः एवम् महती प्रिया अस्य महतीप्रियः इति अत्र अपि स्यात् ।

१३६ - २०६ - किम् उच्यते प्रियादिषु इति ।

१३७ - २०६ - यत्र पुंवद्भावः प्रतिषिध्यते ।

१३८ - २०६ - यत्र तु न प्रतिषिध्यते भवितव्यम् एव तत्र आत्त्वेन ।

१३९ - २०६ - ञ्नित्स्वरे ।

१४० - २०६ - ञ्नित्स्वरे अतिप्रसङ्गः भवति ।

१४१ - २०६ - ञ्निति आदिः उदात्तः भवति यथा इह भवति दाक्षिः अहिचुम्बुकायनिः एवम् दाक्षी अहिचुम्बुकायनी इति अत्र अपि स्यात् ।

१४२ - २०६ - राज्ञः स्वरे ब्राह्मणकुमारयोः ।

१४३ - २०६ - राज्ञः स्वरे ब्राह्मणकुमारयोः अतिप्रसङ्गः भवति ।

१४४ - २०६ - राजा च ब्राह्मणकुमारयोः इति यथा इह भवति राजकुमारः राजब्राह्मणः एवम् राजकुमारी राजब्राह्मणी इति अत्र अपि स्यात् ।

१४५ - २०६ - समाससङ्घातग्रहणेषु च ।

१४६ - २०६ - समाससङ्घातग्रहणेषु च अतिप्रसङ्गः भवति ।

१४७ - २०६ - बहोः नञ्वत् उत्तरपदभूम्नि यथा इह भवति बहुगोमान् बहुयवमान् एवम् बहुगोमती बहुयवमती इति अत्र अपि स्यात् ।

१४८ - २०६ - किम् उच्यते समाससङ्घातग्रहणेषु इति ।

१४९ - २०६ - यत् अवयवग्रहणम् प्रयोजनम् एव तस्याः परिभाषायाः ।

१५० - २०६ - कुम्भशालम् बिले कुशूलीबिलम् इति यथा ।

१५१ - २०६ - विभक्तौ च उक्तम् ।

१५२ - २०६ - किम् उक्तम् ।

१५३ - २०६ - न वा विभक्तौ लिङ्गविशिष्टाग्रहणात् इति ।

१५४ - २०६ - एते अस्याः परिभाषाः दोषाः एतानि च प्रयोजनानि स्युः ।

१५५ - २०६ - एते दोषाः समाः भूयांसः वा ।

१५६ - २०६ - तस्मात् न अर्थः अनया परिभाषया ।

१५७ - २०६ - न हि दोषाः सन्ति इति परिभाषा न कर्तव्या लक्षणम् वा न प्रणेयम् ।

१५८ - २०६ - न हि भिक्षुकाः सन्ति इति स्थाल्यः न आश्रीयन्ते न च मृगाः सन्ति इति यवा न उप्यन्ते ।

१५९ - २०६ - न हि दोषाणाम् लक्षणम् अस्ति इति ।

१६० - २०६ - तस्मात् यानि एतस्या परिभाषयाः प्रयोजनानि तदर्थम् एषा कर्तव्या प्रतिविधेयम् च दोषेषु ।

१६१ - २०६ - तद्धितविधानाऋथम् तु ।

१६२ - २०६ - तद्धितविधानाऋथम् तु ङ्याब्ग्रहणम् कर्तव्यम् ।

१६३ - २०६ - ङ्याबन्तात् तद्धितोत्पत्तिः यथा स्यात् ।

१६४ - २०६ - कालितरा हरिणितरा खट्वातरा मालातरा ।

१६५ - २०६ - किम् पुनः कारणम् न सिध्यति ।

१६६ - २०६ - विप्रतिषेधात् हि तद्धितबलीयस्त्वम् । विप्रतिषेधात् हि तद्धितोत्पत्तिः प्राप्नोति ।

१६७ - २०६ - तत्र समासान्तेषु दोषः । तत्र समासान्तेषु दोषः भवति ।

१६८ - २०६ - बहुगोमत्का बहुयवमत्का ।

१६९ - २०६ - समासान्ताः अपि ङ्याबन्तात् स्युः ।

१७० - २०६ - त्यूङोः च ग्रहणम् ।

१७१ - २०६ - त्यूङोः च ग्रहणम् कर्तव्यम् ।

१७२ - २०६ - युवतिका ब्रह्मबन्धुका इति ।

१७३ - २०६ - ऊङ्ग्रहणेन तावत् न अर्थः ।

१७४ - २०६ - न अस्ति अत्र विशेषः उकारान्तात् उत्पत्तौ सत्याम् ऊङन्तात् वा ।

१७५ - २०६ - इदम् तर्हि युवतितरा ब्रह्मबन्धुतरा इति ।

१७६ - २०६ - तदन्तस्य च प्रत्ययार्थेन अयोगात् तद्धितानुत्पत्तिः ।

१७७ - २०६ - तदन्तस्य च ङ्याबन्तस्य प्रत्ययार्थेन अयोगात् तद्धितोत्पत्तिः न प्राप्नोति ।

१७८ - २०६ - कालितरा हरिङितरा खट्वातरा मालातरा ।

१७९ - २०६ - किम् कारणम् ।

१८० - २०६ - ङ्यापन्तम् एतत् स्त्रीप्रधानम् ।

१८१ - २०६ - न च स्त्रीत्वस्य प्रकर्षापकर्षौ स्तः ।

१८२ - २०६ - न एषः दोषः ।

१८३ - २०६ - न हि किम् चित् उच्यते एवञ्जातीयकात् उत्पत्तव्यम् एवञ्जातीयकात् न इति ।

१८४ - २०६ - एतावत् उच्यते अतिशायने तमबिष्ठनौ तिङः च इति ।

१८५ - २०६ - यस्य च प्रकर्षः अस्ति तस्य प्रकर्षे प्रत्ययः भविष्यति ।

१८६ - २०६ - अस्ति च अप्रधानस्य गुणस्य प्रकर्षः ।

१८७ - २०६ - इह खलु अपि शुक्लतरः कृष्णतरः इति द्रव्यम् प्रधानम् गुणस्य च प्रकर्षे प्रत्ययः उत्पद्यते ।

१८८ - २०६ - उक्तम् वा ।

१८९ - २०६ - किम् उक्तम् ।

१९० - २०६ - सिद्धम् तु स्त्रियाः प्रातिपदिकविशेषणत्वात् स्वार्थे टाबादयः इति ।

१९१ - २०६ - प्रातिपदिकविशेषणम् स्त्रीग्रहणम् ।

१९२ - २०६ - स्वार्थिकाः टाबादयः ।

१९३ - २०६ - न एवम् विज्ञयते स्त्रियाम् अभिधेयायाम् इति न अपि स्त्रीसमानाधिकरणात् प्रातिपदिकात् ।

१९४ - २०६ - कथम् तर्हि ।

१९५ - २०६ - यत् स्त्रियाम् प्रातिपदिकम् वर्तते तस्मात् टाबादयः भवन्ति ।

१९६ - २०६ - कस्मिन् अर्थे ।

१९७ - २०६ - स्वार्थे इति ।

१९८ - २०६ - ननु च उक्तम् तत्र समासान्तेषु दोषः इति ।

१९९ - २०६ - समासान्ताः अपि स्वार्थिकाः ।

२०० - २०६ - उभयोः स्वार्थिकयोः परत्वात् समासान्ताः भविष्यन्ति ।

२०१ - २०६ - कथम् कालिका इति ।

२०२ - २०६ - प्रत्ययस्थात् कात् पूर्व्सस्य इति इत्त्वम् भविष्यति ।

२०३ - २०६ - कथम् हरिणिका इति ।

२०४ - २०६ - हरिणशब्दः प्रकृत्यन्तरम् अस्ति ।

२०५ - २०६ - कथम् लोहिनिका इति ।

२०६ - २०६ - वक्ष्यति एतत् लोहिता लिङ्गबाधनम् वा इति ।

१ - ९५ - स्त्रियाम् इति उच्यते ।

२ - ९५ - का स्त्री नाम ।

३ - ९५ - लोकततः एते शब्दाः प्रसिद्धाः स्त्रीपुमान् नपुंसकम् इति ।

४ - ९५ - यत् लोके दृष्ट्वा एतत् अवसीयते इयम् स्त्री अयम् पुमान् इदम् नपुंसकम् इति सा स्त्रीसः पुमान् तत् नपुंसकम् इति ।

५ - ९५ - किम् पुनः लोके दृष्ट्वा एतत् अवसीयते इयम् स्त्री अयम् पुमान् इदम् नपुंसकम् इति ।

६ - ९५ - लिङ्गम् ।

७ - ९५ - किम् पुनः तत् ।

८ - ९५ - स्तनकेशवती स्त्री स्यात् ।

९ - ९५ - लोमशः पुरुषः स्मृतः ।

१० - ९५ - उभयोः अन्तरम् यत् च तदभावे नपुंसकम् ।

११ - ९५ - लिङ्गात् स्त्रीपुंसयोः ज्ञाने भ्रूकुंसे टापा- प्रसज्यते । लिङ्गात् स्त्रीपुंसयोः ज्ञाने भ्रूकुंसे टाप् प्राप्नोति ।

१२ - ९५ - यत् हि लोके दृष्ट्वा एतत् अवसीयते इयम् स्त्री इति अस्ति तत् भ्रूकुंसे ।

१३ - ९५ - नत्वम् खरकुटीः पश्य । इह चञ्चाः पश्य वध्रिकाः पश्य खरकुटीः पश्य इति तस्मात् शसः नः पुंसि इति नत्वम् प्राप्नोति ।

१४ - ९५ - यत् हि दृष्ट्वा एतत् अवसीयते अयम् पुमान् इति अस्ति तत् वध्रिकादिषु ।

१५ - ९५ - खट्वावृक्षौ न सिध्यतः ।

१६ - ९५ - खट्वावृक्षयोः च लिङ्गम् न सिध्यति ।

१७ - ९५ - यत् हि लोके दृष्ट्वा एतत् अवसीयते इयम् स्त्री अयम् पुमान् इति न तत् खट्वावृक्षयोः अस्ति ।

१८ - ९५ - किम् तर्हि तयोः लिङ्गम् न्याय्यम् ।

१९ - ९५ - नापुंसकम् भवेत् तस्मिन् । नपुंसकम् खट्वावृक्षयोः लिङ्गम् न्याय्यम् ।

२० - ९५ - किम् इदम् नापुंसकम् इति ।

२१ - ९५ - नपुंसके भवम् नापुंसकम् ।

२२ - ९५ - तदभावे नपुंसकम् ।

२३ - ९५ - तदभावे स्त्रीपुंसलिङ्गाभावे नपुंसकलिङ्गम् न्याय्यम् ।

२४ - ९५ - असत् तु मृगतृष्णावत् ।

२५ - ९५ - असत् तु खट्वावृक्षयोः लिङ्गम् द्रष्टव्यम् ।

२६ - ९५ - कथम् पुनः असत् नाम लिङ्गम् शक्यम् द्रष्टुम् ।

२७ - ९५ - मृगतृष्णावत् ।

२८ - ९५ - तत् यथा मृगाः तृषिताः अपाम् धाराः पश्यन्ति ।

२९ - ९५ - न च ताः सन्ति ।

३० - ९५ - गन्धर्व्नगरम् यथा ।

३१ - ९५ - यथा गन्धर्वनगराणि दूरतः दृश्यन्ते उपसृत्य च न उपलभ्यन्ते तद्वत् खट्वावृक्षयोः लिङ्गम् द्रष्टव्यम् ।

३२ - ९५ - आदित्यगतिवत् सत् न ।

३३ - ९५ - अथ व यथा आदित्यस्य गतिः सती न उपलभ्यते तद्वत् खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते ।

३४ - ९५ - वस्त्रान्तर्हितवत् च तत् ।

३५ - ९५ - यथा वस्त्रान्तर्हितानि द्रव्याणि न उपलभ्यन्ते तद्वत् खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते ।

३६ - ९५ - विषमः उपन्यासः ।

३७ - ९५ - वस्त्रान्तर्हितानि द्रव्याणि वस्त्रापाये उपलभ्यन्ते ।

३८ - ९५ - खट्वावृक्षयोः पुनः ये अपि एते रथ्काराः वाशीवृक्षादनहस्ताः मूलात् प्रभृति आ अग्रात् वृक्षान् तक्ष्णुवन्ति ते अपि तयोः लिङ्गम् न उपलभन्ते ।

३९ - ९५ - केन एतत् अवसीयते खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते इति ।

४० - ९५ - षड्भिः प्रकारैः सताम् भावानाम् अनुपलब्धिः भवति ।

४१ - ९५ - सन्निकर्षात् अतिविप्रकर्षात् मूर्त्यन्तरव्यवधानात् तमसा आवृतत्वात् इन्द्रियदौर्बल्यात् अतिप्रमादात् इति ।

४२ - ९५ - अतः अत्र कः चित् हेतुः द्रष्टव्यः येन खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते ।

४३ - ९५ - केन एतत् अवसीयते खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते इति ।

४४ - ९५ - तयोः तु तत्कृतम् दृष्ट्वा ।

४५ - ९५ - स्त्रीकृतम् शब्दम् दृष्ट्वा स्त्री इति अवसीयते पुंस्कृतम् दृष्ट्वा पुमान् इति ।

४६ - ९५ - यथा आकाशेन ज्योतिषः ।

४७ - ९५ - तत् यथा आकाशम् दृष्ट्व ज्योतिः अत्र इति गम्यते ।

४८ - ९५ - ज्योतिर्निमित्तम् हि आकाशम् ।

४९ - ९५ - अन्योन्य्संश्रयम् तु एतत् ।

५० - ९५ - अन्योन्य्संश्रयम् तु एतत् भवति ।

५१ - ९५ - स्त्रीकृतः शब्दः शब्दकृतम् च स्त्रीत्वम् ।

५२ - ९५ - एतत् इतरेतराश्रयम् भवति ।

५३ - ९५ - इतरेतराश्रयाणि च न प्रकल्पन्ते ।

५४ - ९५ - प्रत्यक्षेण विरुध्यते ।

५५ - ९५ - प्रत्यक्षेण खलु अपि सः विरुध्यते यः आह खट्वावृक्षयोः सत् लिङ्गम् न उपलभ्यते इति ।

५६ - ९५ - तत्र स्वेन्द्रियविरोधः कृतः भवति ।

५७ - ९५ - न च नाम स्वेन्द्रियविरोधिना भवितव्यम् ।

५८ - ९५ - तटे च सर्वलिङ्गानि दृष्ट्वा कः अध्यवसायति ।

५९ - ९५ - तटे च खलु अपि सर्वाणि लिङ्गानि दृष्ट्वा तटः तटई तटम् इति कः अध्यवसातुम् अर्हति इयम् स्त्रीअयम् पुमान् इदम् नपुंसकम् इति ।

६० - ९५ - तस्मात् न वैयाकरणैः शक्यम् लौकिकम् लिङ्गम् आस्थातुम् ।

६१ - ९५ - अवश्यम् च कः चित् स्वकृतान्तः आस्थेयः ।

६२ - ९५ - कः असौ स्वकृतान्तः ।

६३ - ९५ - संस्त्यानप्रसवौ लिङ्गम् आस्थेयौ स्वकृतान्ततः ।

६४ - ९५ - संस्त्यानप्रसवौ लिङ्गम् आस्थेयौ ।

६५ - ९५ - किम् इदम् संस्त्यानप्रसवौ इति ।

६६ - ९५ - संस्त्याने स्त्यायतेः ड्रट् स्त्री ।

६७ - ९५ - सूतेः सप् प्रसवे पुमान् इति ।

६८ - ९५ - ननु च लोके अपि स्त्यायतेः एव स्त्री सूतेः च पुमान् ।

६९ - ९५ - अधिकरणसाधना लोके स्त्री स्त्यायति अस्याम् गर्भः इति ।

७० - ९५ - कर्तृसाधनः च पुमान् सूते पुमान् इति ।

७१ - ९५ - इह पुनः उभयम् भावसाधनम् स्त्यानम् स्त्री प्रवृत्तिः च पुमान् ।

७२ - ९५ - कस्य पुनः स्त्यानम् स्त्री प्रवृत्तिः वा पुमान् ।

७३ - ९५ - गुणानाम् ।

७४ - ९५ - केषाम् ।

७५ - ९५ - शब्सस्पर्शरूपरसगन्धानाम् ।

७६ - ९५ - सर्वाः च पुनः मूर्तयः एवमात्मिकाः संस्त्यानप्रसवगुणाः शब्सस्पर्शरूपरसगन्धवत्यः ।

७७ - ९५ - यत्र अल्पीयांसः गुणाः तत्र अवरतः त्रयः शब्दः स्पर्शः रूपम् इति ।

७८ - ९५ - रसगन्धौ न सर्वत्र ।

७९ - ९५ - प्रवृत्तिः खलु अपि नित्या ।

८० - ९५ - न हि इह कः चित् स्वस्मिन् आत्मनि मुहूर्तम् अपि अवतिष्ठते ।

८१ - ९५ - वर्धते वा यावत् अनेन वर्धितव्यम् अपायेन वा युज्यते ।

८२ - ९५ - तत् च उभयम् सर्वत्र ।

८३ - ९५ - यदि उभयम् सर्वत्र कुतः व्यवस्था ।

८४ - ९५ - विवक्षातः ।

८५ - ९५ - संस्त्यानविवक्षायाम् स्त्री प्रसवविवक्षायाम् पुमान् उभयोः अविवक्षायाम् नपूम्सकम् ।

८६ - ९५ - तस्य उक्तौ लोकतः नाम । तस्य उक्तौ च वचने लोकतः नाम एतत् भवति स्त्री पुमान् नपुंसकम् इति ।

८७ - ९५ - गुणः वा लुपि युक्तवत् ।

८८ - ९५ - वध्रिकादिषु भूयान् परिहारः ।

८९ - ९५ - लुपि युक्तवत् व्यक्तिवचने इति एवम् अत्र गुणः भवति ।

९० - ९५ - न च एतत् मन्तव्यम् स्वमनीषिकया उच्यते इति ।

९१ - ९५ - पठिष्यति हि आचार्यः लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य इति ।

९२ - ९५ - पुनः पठिष्यति एकार्थे शब्दान्यत्वात् दृष्टम् लिङ्गान्यत्वम् अवयवान्यत्वात् च इति ।

९३ - ९५ - संस्त्याने स्त्यायतेः ड्रट् स्त्रीसूतेः सपा- प्रसवे पुमान् ।

९४ - ९५ - तस्य उक्तौ लोकतः नाम ।

९५ - ९५ - गुणः वा लुपि युक्तवत् ।

१ - ९० - कथम् पुनः इदम् विज्ञायते ।

२ - ९० - स्त्रियाम् अभिधेयायाम् टाबादयः भवन्ति इति आहोस्वित् स्त्रीसमानाधिकरणात् प्रातिपदिकात् इति ।

३ - ९० - कः च अत्र विशेषः ।

४ - ९० - स्त्रियाम् इति स्त्र्यर्थाभिधाने चेत् टाबादयः द्विवचनबहुवचनानेकप्रत्ययानुपपत्तिः ।

५ - ९० - स्त्रियाम् इति स्त्र्यर्थाभिधाने चेत् टाबादयः भवन्ति द्विवचनबहुवचनयोः अनुपपत्तिः ।

६ - ९० - कुमार्यौ कुमार्यः किशोर्यौ किशोर्यः ।

७ - ९० - किम् कारणम् ।

८ - ९० - एकः अयम् अर्थः स्त्रीत्वम् नाम ।

९ - ९० - तस्य एकत्वात् एकवचनम् एव प्राप्नोति ।

१० - ९० - अनेकप्रत्ययानुपपत्तिः च ।

११ - ९० - अनेकः च प्रत्ययः न उपपद्यते ।

१२ - ९० - गार्ग्यायणी कारीषगन्ध्या कालितरा इति ।

१३ - ९० - किम् कारणम् ।

१४ - ९० - एकत्वात् स्त्रीत्वस्य ।

१५ - ९० - एकः अयम् अर्थः स्त्रीत्वम् नाम ।

१६ - ९० - तस्य एकेन उक्तत्वात् द्वितीयस्य प्रयोगेण न भवितव्यम् ।

१७ - ९० - किम् कारणम् ।

१८ - ९० - उक्तार्थानाम् अप्रयोगः इति ।

१९ - ९० - स्त्र्यर्थस्य च प्रातिपदिकार्थत्वात् स्त्रियाम् इति लिङ्गानुपपत्तिः ।

२० - ९० - स्त्र्यर्थस्य च प्रातिपदिकार्थत्वात् स्त्रियाम् इति अधिकारः न प्राप्नोति ।

२१ - ९० - अस्तु तर्हि स्त्रीसमानाधिकरणात् प्रातिपदिकात् इति ।

२२ - ९० - स्त्रीसमानाधिकरणात् इति चेत् भूतादिषु अतिप्रसङ्गः ।

२३ - ९० - स्त्रीसमानाधिकरणात् इति चेत् भूतादिषु अतिप्रसङ्गः भवति ।

२४ - ९० - भूतम् इयम् ब्राह्मणी ।

२५ - ९० - कारणम् इयम् ब्राह्मणी इति ।

२६ - ९० - आवपनम् इयम् उष्ट्रिका इति ।

२७ - ९० - स्त्र्यर्थाभिधाने पुनः टाबादिषु सत्सु इह तावत् भूतम् इयम् ब्राह्मणी इति न अत्र स्त्रीत्वम् विवक्षितम् ।

२८ - ९० - किम् तर्हि ।

२९ - ९० - पौतन्यम् ।

३० - ९० - कारणम् इयम् ब्राह्मणी इति न अत्र स्त्रीत्वम् विवक्षितम् ।

३१ - ९० - किम् तर्हि ।

३२ - ९० - प्राधान्यम् ।

३३ - ९० - आवपनम् इयम् उष्ट्रिका इति न अत्र स्त्रीत्वम् विवक्षितम् ।

३४ - ९० - किम् तर्हि ।

३५ - ९० - सम्भवनम् ।

३६ - ९० - षट्सञ्ज्ञकेभ्यः च प्रतिषेधः ।

३७ - ९० - षट्सञ्ज्ञकेभ्यः च प्रतिषेधः वक्तव्यः ।

३८ - ९० - पञ्च ब्राह्मण्यः दश ब्राह्मण्यः ।

३९ - ९० - स्त्र्यर्थाभिधाने पुनः टाबादिषु सत्सु न अत्र स्त्रीत्वम् विवक्षितम् ।

४० - ९० - किम् तर्हि भेदः विवक्षितः सङ्ख्या ।

४१ - ९० - इह च स्त्री ईकारः न प्राप्नोति ।

४२ - ९० - न हि तेन एव तस्य सामानाधिकरण्यम् अस्ति ।

४३ - ९० - सिद्धम् तु स्त्रियाः प्रातिपदिकविशेषणत्वात् स्वार्थे टाबादयः ।

४४ - ९० - सिद्धम् एतत् ।

४५ - ९० - कथम् ।

४६ - ९० - स्त्रियाः प्रातिपदिकविशेषणत्वात् ।

४७ - ९० - प्रातिपदिकविशेषणम् स्त्रीग्रहणम् ।

४८ - ९० - स्वार्थिकाः टाबादयः ।

४९ - ९० - न एवम् विज्ञायते स्त्रियाम् अभिधेयायाम् इति न अपि स्त्रीसमानाधिकरणात् इति ।

५० - ९० - कथम् तर्हि ।

५१ - ९० - स्त्रियाम् यत् प्रातिपदिकम् वर्तते तस्मात् टाबादयः भवन्ति ।

५२ - ९० - कस्मिन् अर्थे ।

५३ - ९० - स्वार्थे इति ।

५४ - ९० - अथ वा पुनः अस्तु स्त्रियाम् अभिधेयायाम् इति ।

५५ - ९० - ननु च उक्तम् स्त्रियाम् इति स्त्र्यर्थाभिधाने चेत् टाबादयः द्विवचनबहुवचनानेकप्रत्ययानुपपत्तिः ।

५६ - ९० - स्त्र्यर्थस्य च प्रातिपदिकार्थत्वात् स्त्रियाम् इति लिङ्गानुपपत्तिः ।

५७ - ९० - न एषः दोषः ।

५८ - ९० - यत् तावत् उच्यते द्विवचनबहुवचनयोः अनुपपत्तिः इति ।

५९ - ९० - गुणवचनस्य च आश्रयतः लिङ्गवचनभावात् । गुणवचनानाम् हि शब्दानाम् आश्रयतः लिङ्गवचनानि भवन्ति ।

६० - ९० - तत् यथा शुक्लम् वस्त्रम् , शुक्ला शाटी शुक्लः कम्बलः शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति ।

६१ - ९० - यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति ।

६२ - ९० - एवम् इह अपि यत् अदः द्रव्यम् श्रितम् भवति स्त्रीत्वम् तस्य यत् लिङ्गम् वचनम् च तत् स्त्रीत्वस्य अपि भविष्यति ।

६३ - ९० - यत् अपि उच्यते अनेकप्रत्ययानुपपत्तिः इति ।

६४ - ९० - भावस्य च भावयुक्तत्वात् । भावः भावेन युज्यते ।

६५ - ९० - तत् यथ इषिः इषिणा निमन्त्रिः च निमन्त्रिणा ।

६६ - ९० - विषमः उपन्यासः ।

६७ - ९० - युक्तम् तत्र अन्यत्वम् साधनभेदात् कालभेदात् च ।

६८ - ९० - उक्तम् तत्र एकस्य बाह्यम् साधनम् सर्वकालः च प्रत्ययः अपरस्य आभ्यन्तरम् साधनम् वर्तमानकालः च प्रत्ययः इति ।

६९ - ९० - इह पुनः एकम् स्त्रीत्वम् ।

७० - ९० - अथ एकम् उपलभ्यते ।

७१ - ९० - किम् च अतः यदि एकम् उपलभ्यते द्वितीयम् अपि उपलभ्यताम् ।

७२ - ९० - अथ एकम् अपि अनुमानगम्यम् द्व्तीयम् अपि अनुमानात् गम्यताम् ।

७३ - ९० - कस्य तावत् भवान् एवम् गुणम् न्याय्यम् मन्यते स्त्रीत्वम् नाम ।

७४ - ९० - द्रव्यस्य ।

७५ - ९० - द्रव्ये च भवतः कः सम्प्रत्ययः ।

७६ - ९० - यदि तावत् गुअणसमुदायः द्रव्यम् का गतिः ये एते भावाः कृदभिहिताः तद्धिताभिहिताः च ।

७७ - ९० - चिकीर्षा गोता इति ।

७८ - ९० - अथ मतम् एतत् कृदभिहितः भावः द्रव्यवत् भवति इति स्त्रीत्वम् अपि स्त्रीत्वेन अभिहितम् द्रव्यवत् भविष्यति ।

७९ - ९० - क्व च तावत् दोषः स्यात् ।

८० - ९० - दृष्टस्य हि दोषस्य सुसुखः परिहारः गार्ग्यायणी कारीषगन्ध्या कालितरा इति ।

८१ - ९० - इह तावत् गार्ग्यायणी इति षित्करणसामर्थ्यात् ङीष् भविष्यति ।

८२ - ९० - कारीषगन्ध्या इति वचनात् चाप् भविष्यति ।

८३ - ९० - कालितरा इति न यावत् काली तावत् कालितरा ।

८४ - ९० - किम् तर्हि ।

८५ - ९० - प्रकृष्टा काली कालितरा ।

८६ - ९० - यत् शब्दरूपम् प्रकर्षे वर्तते तस्य अनुक्तम् स्त्रीत्वम् इति कृत्वा टाप् भविष्यति ।

८७ - ९० - यत् अपि उच्यते इह च स्त्री ईकारः न प्राप्नोति इति ।

८८ - ९० - निपातनात् एतत् सिद्धम् ।

८९ - ९० - किम् निपातनम् ।

९० - ९० - स्त्रियाम् अकुन्तिकुरुभ्यः च इति ।

१ - २२ - स्त्रीविषये ङ्यापोः अप्रसिद्धिः अकारान्तादर्शनात् ।

२ - २२ - स्त्रीविषये ङ्यापोः अप्रसिद्धिः ।

३ - २२ - खट्वा माला ।

४ - २२ - किम् कारणम् ।

५ - २२ - अकारान्तादर्शनात् ।

६ - २२ - न हि अकारान्तता दृश्यते ।

७ - २२ - ननु च इयम् दृश्यते ।

८ - २२ - अतिखट्वः अतिमालः इति ।

९ - २२ - न एषा अकारान्तता ।

१० - २२ - आपः एव एतत् ह्रस्वत्वम् ।

११ - २२ - सर्वेषाम् तु स्वरवर्णानुपूर्वीज्ञानार्थः उपदेशः ।

१२ - २२ - सर्वेषाम् एव तु प्रातिपदिकानाम् स्वरवर्णानुपूर्वीज्ञानार्थः उपदेशः कर्तव्यः ।

१३ - २२ - शशः ।

१४ - २२ - षषः इति मा भूत् ।

१५ - २२ - पलाशः ।

१६ - २२ - पलाषः इति मा भूत् ।

१७ - २२ - मञ्चकः ।

१८ - २२ - मञ्जकः इति मा भूत् ।

१९ - २२ - तस्मात् सिद्धम् ।

२० - २२ - तस्मात् सिद्धम् एतत् भवति ।

२१ - २२ - अथ वा इयम् अकारान्तता दृश्यते ।

२२ - २२ - पञ्चभिः खट्वाभिः क्रीतः पटः पञ्चखट्वः दशखट्वः ।

१ - २१ - शूद्रा च अमहत्पूर्वा ।

२ - २१ - शूद्रा च अमहत्पूर्वा इति वक्तव्यम् ।

३ - २१ - शूद्रा ।

४ - २१ - अमहत्पूर्वा इति किमर्थम् ।

५ - २१ - महाशूद्री ।

६ - २१ - जातिः ।

७ - २१ - जातिः इति वक्तव्यम् ।

८ - २१ - या हि मथती शूद्रा महाशूद्रा सा भवति ।

९ - २१ - शूद्राशब्दः अजादिषु पठ्यते ।

१० - २१ - तत्र कः प्रसङ्गः यत् महत्पूर्वात् स्यात् ।

११ - २१ - न एव प्राप्नोति न अर्थः प्रतिषेधेन ।

१२ - २१ - तदन्तविधिना प्राप्नोति ।

१३ - २१ - ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते ।

१४ - २१ - एवम् तर्हि ज्ञापयति आचार्यः भवति इह तदन्तविधिः इति ।

१५ - २१ - किम् एतस्य ज्ञापने प्रयोजनम् ।

१६ - २१ - भवती , अतिभवती महती , अतिमहती अत्र तदन्तविधिः सिद्धः भवति ।

१७ - २१ - जातिः इति च वक्ष्यामि ।

१८ - २१ - यदि एतत् ज्ञाप्यते पञ्चाजी दशाजी अत्र अपि प्राप्नोति ।

१९ - २१ - न एषः दोषः ।

२० - २१ - अजादिभिः स्त्रियम् विशेषयिष्यामः ।

२१ - २१ - अद्जादीनाम् या स्त्री इति ।

१ - ३३ - कथम् इदम् विज्ञायते उगितः प्रातिपदिकात् इति आहोस्वित् उगितन्तात् प्रातिपदिकात् इति ।

२ - ३३ - किम् च अतः ।

३ - ३३ - यदि विज्ञायते उगितः प्रातिपदिकात् इति सिद्धम् भवती महती ।

४ - ३३ - अतिभवती , अतिमहती इति न सिध्यति ।

५ - ३३ - तदन्तविधिना भविष्यति ।

६ - ३३ - ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते ।

७ - ३३ - अथ विज्ञायते उगितन्तात् प्रातिपदिकात् इति सिद्धम् अतिभवती अतिमहती ।

८ - ३३ - भवती महती इति न सिध्यति ।

९ - ३३ - व्यपदेशिवद्भावेन भविष्यति ।

१० - ३३ - व्यपदेशिवद्भावः अप्रातिपदिकेन ।

११ - ३३ - उभयथा च निर्गोमती निर्यवमती इति न सिध्यति ।

१२ - ३३ - किम् कारणम् ।

१३ - ३३ - प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति ।

१४ - ३३ - यथा इच्छसि तथा अस्तु ।

१५ - ३३ - अस्तु तावत् उगितः प्रातिपदिकात् इति ।

१६ - ३३ - कथम् अतिभवती अतिमहती इति ।

१७ - ३३ - तदन्तविधिना भविष्यति ।

१८ - ३३ - ननु च उक्तम् ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते ।

१९ - ३३ - न एतत् प्रातिपदिकग्रहणम् ।

२० - ३३ - प्रातिपदिकाप्रातिपदिकयोः एतत् ग्रहणम् ।

२१ - ३३ - अथ वा पुनः अस्तु उगितन्तात् प्रातिपदिकात् इति ।

२२ - ३३ - कथम् भवती महती इति ।

२३ - ३३ - व्यपदेशिवद्भावेन भविष्यति ।

२४ - ३३ - ननु च उक्तम् व्यपदेशिवद्भावः अप्रातिपदिकेन इति ।

२५ - ३३ - न एतत् प्रातिपदिकग्रहणम् ।

२६ - ३३ - प्रातिपदिकाप्रातिपदिकयोः एतत् ग्रहणम् ।

२७ - ३३ - यत् अपि उच्यते उभयथा च निर्गोमती निर्यवमती इति न सिध्यति ।

२८ - ३३ - किम् कारणम् ।

२९ - ३३ - प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति ।

३० - ३३ - न एतत् प्रत्ययग्रहणम् ।

३१ - ३३ - प्रत्ययाप्रत्यययोः एतत् ग्रहणम् ।

३२ - ३३ - कथम् ।

३३ - ३३ - वर्णः अपि उगित् प्रत्ययः अपि उगित् प्रातिपदिकम् अपि उगित् ।

१ - ९ - धातोः उगितः प्रतिषेधः ।

२ - ९ - धातोः उगितः प्रतिषेधः वक्तव्यः ।

३ - ९ - उखास्रात् ब्राह्मणी पर्णध्वत् ब्राह्मणी ।

४ - ९ - अञ्चतेः च उपसङ्ख्यानम् ।

५ - ९ - अञ्चतेः च उपसङ्ख्यानम् कर्तव्यम् ।

६ - ९ - प्राची प्रतीची ।

७ - ९ - उगिति अञ्चतिग्रहणात् सिद्धम् अधातोः । उगिति अञ्चतिग्रहणात् अधातोः सिद्धम् ।

८ - ९ - अञ्चतिग्रहणम् नियमार्थम् भविष्यति ।

९ - ९ - अञ्चतेः एव उगितः धातोः न अन्यस्य उगितः धातोः इति ।

१ - ३९ - इह कस्मात् न भवति ।

२ - ३९ - निःशूनी अतियूनी इति ।

३ - ३९ - अर्थवद्ग्रहणे न अनर्थकस्य इति ।

४ - ३९ - एवम् अपि मघोनी अत्र प्राप्नोति ।

५ - ३९ - मघवन्शब्दः अव्युत्पन्नम् प्रातिपदिकम् ।

६ - ३९ - वनः न हशः ।

७ - ३९ - वनः र च इति अत्र हशन्तात् न भवति इति वक्तव्यम् ।

८ - ३९ - इह मा भूत् ।

९ - ३९ - सहयुध्वा ब्राह्मणी इति ।

१० - ३९ - यदि न हशः इति उच्यते शर्वरी इति न सिध्यति ।

११ - ३९ - विहितविशेषणम् हश्ग्रहणम् ।

१२ - ३९ - हशन्तात् यः विहितः इति ।

१३ - ३९ - एवम् अपि प्रेर्त्वरी इति न सिध्यति ।

१४ - ३९ - कथम् च अत्र तुगागमः ।

१५ - ३९ - छान्दसत्वात् ।

१६ - ३९ - ङीब्रौ अपि तर्हि छान्दसत्वात् एव भविष्यतः ।

१७ - ३९ - बहुलम् छन्दसि ङीब्रौ वक्तव्यौ ।

१८ - ३९ - यज्वरीः इषः यज्वनीः इषः ।

१९ - ३९ - रविधाने बहुव्रीहेः उपसङ्ख्यानम् प्रतिषिद्धत्वात् ।

२० - ३९ - रविधाने बहुव्रीहेः उपसङ्ख्यानम् कर्तव्यम् ।

२१ - ३९ - बहुधीवरी बहुपीवरी ।

२२ - ३९ - किम् पुनः कारणम् न सिध्यति ।

२३ - ३९ - प्रतिषिद्धत्वात् ।

२४ - ३९ - अनः बहुव्रीहेः इति प्रतिषेधः प्राप्नोति ।

२५ - ३९ - अनः बहुव्रीहिप्रतिषेधे वा उपधालोपिनः वावचनम् ।

२६ - ३९ - अनः बहुव्रीहिप्रतिषेधे वा उपधालोपिनः वा इति वक्तव्यम् ।

२७ - ३९ - अन्यथा कृत्वा चोदितम् अन्यथा कृत्वा परिहारः ।

२८ - ३९ - यथा उपसङ्ख्यानम् चोदितम् तथा नित्याभ्याम् ङीब्राभ्याम् भवितव्यम् ।

२९ - ३९ - यथा परिहारः तथा विभाषया भवितव्यम् ।

३० - ३९ - यथा उपसङ्ख्यानम् चोदितम् एवम् अपि विभाषया भवितव्यम् ।

३१ - ३९ - न हि अत्र ङीप् दुर्लभः ।

३२ - ३९ - सिद्धः अत्र ङीप् अनः उपधालोपिनः अन्यतरस्याम् इति ।

३३ - ३९ - ङीप्सन्नियोगेन रः उच्यमानः अन्येन सति न स्यात् इति एवमर्थम् उपसङ्ख्यानम् चोद्यते ।

३४ - ३९ - किम् पुनः कारणम् ङीप्सन्नियोगेन रः उच्यते ।

३५ - ३९ - इह मा भूत् सुपर्वा चारुपर्वा इति ।

३६ - ३९ - तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् ।

३७ - ३९ - न कर्तव्यम् ।

३८ - ३९ - वक्ष्यति डाप् उभाभ्याम् अन्यतरस्याम् इति अत्र अन्यतरस्याङ्ग्रहणस्य प्रयोजनम् ।

३९ - ३९ - डाप्प्रतिषेधाभ्याम् मुक्ते ङीब्रौ अपि यथा स्याताम् इति ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP