षड्‌विंशः पटलः - कौलानां संध्या

षट्‍चक्रभेदः


अथ सन्ध्यां महातीर्थे कुलनिष्ठः समाचरेत् ।
कुलरुपां योगविद्यां योगयोगाद्‍ यतीश्वरः ॥९२॥

शिवशक्तौ समायोगो यस्मिन् काले प्रजायते ।
सा सन्ध्या कुलनिष्ठानां समाधिस्थे प्रजायते ॥९३॥

शिवं सूर्यं ह्रदि ध्यात्वा भालशक्तीन्दुसङुमम् ।
सा सन्ध्या कुलनिष्ठानां समाधिस्थे प्रजायते ॥९४॥

अथवेन्दुं शिवं ध्यात्वा ह्रत्सूर्यशक्तिसङुमम् ।
संयोगविद्या सा सन्ध्या समाधिस्थे प्रजायते ॥९५॥

इति सन्ध्या च कथिता ज्ञानरुपा जगन्मयी ।
सा नित्या वायवी शक्तिः छिन्नभिना विनाशनात् ॥९६॥

N/A

References : N/A
Last Updated : April 16, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP