अथ होमविधिं वक्ष्ये पुरश्चरनसिद्धये ।
सङ्केतभाषया नाथ कथयामि श्रृणुष्व तत् ॥११९॥

आत्मानमपरिच्छिन्न विभाव्य सूक्ष्मवत् स्थितः ।
आत्मत्रयस्वरुपं तु चित्कुण्डं चतुरस्त्रकम् ॥१२०॥

आनन्दमेखलायुक्तं नाभिस्थज्ञानवहिनषु ।
अर्द्धमात्राकृतिर्योनिभूषितं जुहुयात् सुधीः ॥१२१॥

इतिमन्त्रेण तद्‌वहनौ सोऽहंभावेन होमयेत् ।
बाह्यनारीविधिं त्यक्त्वा मूलान्तेन स्वतेजसम् ॥१२२॥

नाभिचैतन्यरुपग्नौ हविषा मनसा स्त्रुचा ।
ज्ञानप्रदीपिते नित्यमक्षवृत्तिर्जुहोम्यहम् ॥१२३॥

इति प्रथममाहुत्या मूलान्ते सञ्चरेत क्रियाम् ।
द्वितीयाहुतिदानेन होमं कृत्वा भवेद्‌वशी ॥१२४॥

धर्माधर्मप्रदीप्ते च आत्माग्नौ मनसा स्त्रुचा ।
सुषुम्ना वर्त्मना नित्यमक्षवृत्तिं जुहोम्यहम् ॥१२५॥

स्वाहान्त मन्त्रमुच्चार्य आद्ये मूलं नियोज्य च ।
जुहुयादेकभावेन मूलाम्भोरुहमण्डले ॥१२६॥

चतुर्थे पूर्णहवने एतन्मन्त्रेण कारयेत् ।
एतन्मन्त्रचतुर्थं तु पूर्णविद्याफलप्रदम् ॥१२७॥

अन्तर्निरतरनिरन्धनमेधमाने
मायान्धकारपरिपन्थिनि संविदग्नौ ।
कस्मिंश्चिदद्‌भुतमरीचिविकास भूमौ
विश्वं जुहोमि वसुधादिशिवावसानम् ॥१२८॥

इत्यन्तर्यजनं कृत्वा साक्षाद्‍ ब्रह्मामयो भवेत् ।
न तस्य पुण्यपापानि जीवन्मुक्तो भवेद्‍ ध्रुवम् ॥१२९॥

N/A

References : N/A
Last Updated : April 16, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP