संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : पंचमः स्कन्धः|

पंचमः स्कन्धः - अथ अष्टमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

एकदा तु महानद्यां कृताभिषेकनैयामिकावश्यको

ब्रह्माक्षरमभिगृणानो मूहूर्तकतमुदकान्त उपविवेश ॥१॥

तत्र तदा राजन हरिणी पिपासया जलाशयाभ्यासमेकैवोपजगाम ॥२॥

तया पेपीयमान उदके तावरेवाविदुरेण नदतो मृगपतेरुन्नादो लोकभयंकर उदपतत ॥३॥

तमुपश्रुत्य सा मृगवधुः प्रकृतिविक्लवा चकितनिरिक्षणा सुतरामपि हरिभयभिनेवेशव्यग्रहृदया

पारिप्लवद्रुश्टरगततृशा भयात सहसैवोच्चक्रम ॥४॥

तस्या उप्तनन्त्या अन्तर्वत्‍न्या उरुभयावगलितो

योनिनिर्गतो गर्भः स्रोतासि निपपात ॥५॥

तत्प्रसवोत्सर्पणभयखेदातुरा स्वग्णेन वियुज्यमाना

कास्यात्र्चिदर्या कृष्णसारसती निपपाताथ च ममार ॥६॥

तं त्वेणकुणकं कृपणं स्रोतसानुह्यमानमभिवीक्ष्यापविद्ध

बन्धुरिवानुकम्पया राजर्षिर्भरत आदर

मृतमतरमित्याश्रमपदमनयत ॥७॥

तस्य ह वा एककुणक उच्चेरेतस्मिन कृतनिजाभिमनस्याहरहस्तत्पो

षणपालनलालन प्रीणनानुध्यानेनात्मनियमः सहयमाः पुरुषपरिचर्यादय

एकैकशः कतिपयेनाहर्गणेन वियुज्यमानाः किल सर्व एवोदवसन ॥८॥

अहो बतायं हरिणकुणकः कृपण ईश्वररथचरणपरिभ्रमणरयेण

स्वगणसुहृदबन्धुभ्यः परिवर्जितः शरणं च मोपसादितो मामेव मातापितारौ

भ्रातृज्ञातीन यौथिकांश्चैविपेयाय नान्यं काचंन वेद मय्यतिविस्रब्धश्चात एव माया

मत्परायणस्य पोषणपालनप्रीणनलालनमनसुयुनानुष्ठेयं शरण्यापेक्शादोशविदुषा ॥९॥

नूनं ह्यार्याः साधव उपशमशीलाः कृपणसुहृद एवंविधार्थे

स्वार्थनापि गुरुतरानुपेक्षन्ते ॥१०॥

इतिकृतानुषड आसनशयनाटनस्थानाशनाइषु

सह मृगजहुना सेनहानुबद्धहृदय आसीत ॥११॥

कुशकुसुमसमिप्तलाशफलमुलोदकान्याहरिष्यमाणो

वृकसालावृकादिभ्यो भयमाशंसमानो यदा सह

हरीणकुणकेन वनं समाविशति ॥१२॥

पथिषु च मुग्धभावेन तत्र तत्र विषक्रमतिप्रणयभरहृदयः

कर्पण्यात्स्कन्धेनोद्वहति एवमुत्संग उरसि चाधायोपलालयन्मुदं

परमामवाप ॥१३॥

क्रियायां निर्वर्त्यमानायामन्तरालेऽप्युत्थायोथाय यदैनमभिचक्षीच तर्हिवाव स

वर्षपतिः प्रकृतिस्थेन मनसा तस्मा आषिष आशास्ते स्वस्ति स्ताद्वत्स ते सर्वत इति ॥१४॥

अन्यदा भृशमुद्विग्नमना नष्टद्रविणा इव कृपणः सकरुणमतितर्षेण हरिणकुणकविरहविह्रलहृदय

सनापस्तमेवानुशोचन किल कश्मलं महदभिरम्भित इति होवाच ॥१५॥

अपि बत वैकृपणएणबालको मृतहरिणीसुतोऽहो ममानार्यस्य शठकिरातमतेरकृतसुकृतस्य

कृताविस्रम्भ आत्मप्रत्ययेन तदविगणयन सुजन इवागमिष्यति ॥१६॥

अपि क्षेमेणास्मिन्ना श्रमोपवणे शष्पाणि चरन्त देवगुप्तं द्रक्ष्यामि ॥१७॥

अपि च न वृकः सालावृकोऽन्यतमो वा नैकचर एकचरो वा भक्षयति ॥१८॥

निम्लोचति हे भगवान सकलजगत क्षेमोदयस्त्रय्यात्माद्यापि मम न

मृगवधून्यस आगच्छति ॥१९॥

अप्स्विदकृतसुकृतमागय मां सुखयिष्यति

हरिणराजकुमारो विविधरुचिरदर्शनीयनिजमृगदारकविनौदैरस्नतोष

स्वानामपनुदन ॥२०॥

क्ष्वेलिकायां मां मृषासमाधिनाऽऽमीलितदृशंप्रेमसंम्भेण चकितचकित

आगत्य पृषदपुरुषविषाणग्रेण लुठति ॥२१॥

आसदितहरिषि बर्हिषि दुषिते मयोपालब्धो

भीतभीतः सपद्युपारतरास ऋषिकुमारवदवहित

करणकलाप आस्ते ॥२२॥

किं वा अरे आचरितं तपस्तपस्विन्यानया यदियमवानिःसविनैयकृष्णसारतनयतनुतरसुभग

शिवतमाखरखुरपदपंड्क्तिभिर्द्रविणविधुरातुरस्य कृपयस्य मम द्रविणपदवीं सुचयन्त्यात्मानं

च सर्वतः कृतकौतुकं द्विजानां स्वर्गापवर्गकामानाम देवयजनं करोति ॥२३॥

अपिस्विदसौ भगवानुडुपतिरेनं मृगपतिभयात

मृतमातरं मृगबलाकं स्वाश्रमपरिभ्रष्टमनुकम्पया

कृपणजनवत्सलः परिपाति ॥२४॥

किंवाऽऽत्मजविश्लेषज्वरदवदहनशिखाभि

रुपतत्प्यमानह्रुदयश्तलनलिनीकं मामुपसृतमृगी

तनयं शिशिरशान्तानुरागगगुणितानि जवदनसलिला

मृतमयगभस्तिभिःस्वधयतीति च ॥२५॥

एवमधटमनमनोरथाकुलहृदयो मृगदारका

भासेन स्वारब्धकर्मणायोगारम्भणतो विभ्रशिंतः स

योगतापसो भगवदाराधनलक्षणाच्च कथमितरथा

जात्यन्तर एण्कुणक आसंगः साक्षात्रिह श्रयसप्रतिपक्षतय

प्राक्परित्यक्तदुस्त्यजह्रुदयाभिजातस्य

तावन्मृगार्भकपोषणपाअनप्रीणनलालनानानुषंनाविगणयत

आत्मानमहिरिवाखिलं दुरतिक्रमः कालः

कारालरभस आपद्यत ॥२६॥

तदानीमपि पाश्ववर्तिनमात्मजमिवानुशोचन्तम

अभिवीक्षमाणो मृग एवाभिनिवेशितमना विसृज्य

लोकमिमं सह मृगेण कलेवर मृतमनु न मृतजन्मा

नुस्मृतिरितरवन्मुगशरीरमवाप ॥२७॥

तत्रापि ह वा आत्मनो म्रुगत्वकारणं भगवादाराधनसमीहानुभावेनानुस्मृस्य

भृशमनुतप्यमान आह ॥२८॥

अहो कष्टं भ्रष्टोऽ‍मात्मवतामनुपथाद यद्विमुक्तसमस्तसंगस्य विविक्तपुण्यरण्यशर्णस्य

आत्मवत आमनि सर्वेषामात्मना भगवति वासुदेव तदनुश्रवणमननसंकीर्तनाराधनानानुस्मरणाभियोगेना

शुन्यसकलयामेन कालेन समावेशितं समाहितं

कात्स्न्येन मनस्तत्तु पुनर्ममाबुधस्यारान्मृग सुतमनु परिसुस्राव ॥२९॥

इत्येवं निगुढनिर्वेदो विसृज्य मुर्गी मातरं पुनर्भवत्क्शेत्रमुपशमशीलमुनिगणदयितं

शालग्रामं पुलत्स्यपुलहाश्रमं कालत्र्जरात्प्रज्याजगाम ॥३०॥

तस्मिन्नपि कालं प्रतीक्षंमाणः संगाच्च भृशमुद्विम आत्मसहचरः

शुष्कपर्णतृणवीरुधा वर्तमानो मृगत्वनित्तावसानमेव गणयन्मृगशरीरं

तीर्थोदकक्लिन्नमुत्ससर्ज ॥३१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां पंचामस्कन्धे भरतचरितेऽष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP