संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद्‍भागवतमहापुराणम्|प्रथमः खण्डः : पंचमः स्कन्धः|

पंचमः स्कन्धः - अथ तृतीयोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

नाभिरपत्यकामोऽप्रजया मेरुदेव्या भगवन्तं यज्ञपुरुषमवाहितात्मायजत ॥१॥

तस्य ह वाव श्रद्धया विशुद्धभावेन यजतः प्रवर्ग्येषु प्रचरत्सु द्रव्यदेशकालमन्त्रर्त्विग्दक्षिना

भागवतवात्सल्यतया सुप्रतीक आत्मानमपराजितं निजजनाभिप्रेतार्थैधित्सया गृहीतहृदयो हृदयंडमं

मनोनयनानम्दनावयवाभिरममाविश्चकार ॥२॥

अथ ह तमाविष्कृतभुजयुगलद्वयं हिरण्मयं पुरुषविशेषं कपिशकौशेयाम्बरधरमुरसि विलस

च्छ्रीवत्सललामं दरवरवनरुहवनमालाच्छूर्यमुत

मणिगदादिभिरुपलक्षितं स्फुटकिरणप्रवर

मुकुटकुण्डलकटककतिसुत्रहारकेयुरनुपुराद्यडु

भुषणविभुषितमृत्विक सदस्यगृहपत्तयोऽधना

इवोत्तमधनमुपलभ्य सबहुमानमर्हणेनावनत

शीर्षाण उपतस्थुः ॥३॥

ऋत्विज ऊचुः

अर्हसि मुहुरर्हत्तमार्हणमस्काकमनुपथानां

नमो नम इत्येतावत्सदुपशिक्षितं कोऽर्हति पुमान

प्रकृतिगुणव्यतिकरमतिरनीश ईश्वरस्य परस्य

प्रकृतिपुरुषयोरर्वाक्तनभिर्नामरुपकृतिभी रुपनिरुपणम ॥४॥

सकलजननिकायवृजिननिरनिरसनशिवतम

प्रवरगुणगणैकदेशकथाद्वते ॥५॥

परिजननुरागविरचितशबलसंशब्दसलिल

सितकिसलयतुलसिकादुर्वांकुरैरपि सम्भृतया सपर्यया किल परम परितुष्यसि ॥६॥

अथानयापि न भवत इज्ययोरुभारभरया समुचितमर्थमिहोपलभामहे ॥७॥

आत्मन एवानुसवनमत्र्जसाऽव्यतिरेकेण

भोभुयमानाशेषपुरुषार्थस्वरुपस्य किन्तु नाथाशिष

आशासाननामेतदभिसंराधनमात्रं भवितुमर्हति ॥८॥

तद्यथा बालिशानां स्वयमात्मनः श्रेयः

परमाविदुषां परम परमपुरुष प्रकर्षकरुणया

स्वमहिमानं चापवर्गाख्यमुपकल्पयिष्यन स्वयं

नापचित एवेतरवादिहोपलक्षितः ॥९॥

अथायमेव वरो ह्यार्हत्तम यर्हि बर्हिषि राजर्षेर्वदर्षभो

भवान्निजपुरुषेक्षणविषय आसीत ॥१०॥

असंगनिशितज्ञानानलविधुताशेषमलानां

भवतस्वभावानामात्मारामाणांमुनीनामन

वरतपरिगुनतगुणगणपरममंगलायनगुणगण

कथानोऽसि ॥११॥

अथ कथत्र्चित्स्खलन क्षुप्ततानजृम्भण

दुरवस्थानादिषु विवशानां न स्मरणाय ज्वरमरण

दशायामपि सकलकश्मलनिरसनानि तव

गुणकृतनामधेयानि वचनगोचराणि भवन्तु ॥१२॥

किंत्र्चायं राजर्षिरपत्यकामः प्रजां भवादृशी

माशासान ईश्वरमाशिषं स्वर्गापवर्गयोरपि

भवन्तमुपधावति प्रजायामर्थप्रत्ययो धनद

मिवाधनः फळीकरणम ॥१३॥

को वा इह तेऽपराजितोऽपराजितया

माययानवसितपदव्यानावृतमातिर्विषयविषराया

नावृतप्रकृतिरनुपासितमहच्चरणः ॥१४॥

यदु ह वाव तव पुनरदभ्रकर्तरिह समाहुत

स्तत्रार्थधियां मन्दानं नस्तद्यद्देवहेलनं देवदेवार्हसि

साम्येन सर्वांन प्रतिवोढुमविदुषाम ॥१५॥

श्रीशुक उवाच

इति निगदेनाभिष्टुयमानो भगवाननिमिषर्षभो

वर्षधराबिवादिताभिवन्दिचरणः सदयमिदमाह ॥१६॥

श्रेभगवानुवाच

अहो बताहमृषयो भवद्धिरवितथगीर्भिर्वर

मसुलभमभियाचितो यदमुष्यात्मजो मया सदृशो

भुयादिति ममाहमेवाभिरुपः कैवल्यादथापि

ब्रह्मावदो न मृषा भवितुमर्हति ममैव हि मुखं यद

द्विजदेवकुलम ॥१७॥

तत आग्नीध्रीर्येऽशकलयवतरिष्याम्यात्मतुल्यमनुपलभमानः ॥१८॥

श्रीशुक उवाच

इति निशामयन्त्या मेरुदेव्याःपतिम

भिधायान्तर्दधे भगवान ॥१९॥

बर्हिषि तस्मिन्नेव विष्णुदत्त भगवान

परमर्षिभिः प्रसादितो नाभेः प्रियचिकीर्षया

तदवरोधायने मेरुदेव्यां धर्मान्दर्शयितुकामो वातरशनानां

श्रमणानामृषीणामुर्ध्वमन्थिनां शुक्लया तनुवावततार ॥२०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां पंचमस्कन्धे नाभिचरिते ऋशभावतासो नाम तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP