श्रीविष्णुपुराण - प्रथम अंश - अध्याय २०

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Poranas.


श्रीपराशर उवाच

एवं सत्र्चिन्तयन्विष्णुमभेदेनात्मनो द्विज । तन्मयत्वमवाप्याग्रयं मेने चात्मानमच्युतम् ॥१॥

विसस्मार तथात्मानं नान्यत्कित्र्चिदजानत । अहमेवाव्ययोऽनन्तः परमात्मेत्यचिन्तयत् ॥२॥

तस्य तद्भवनायोगात्क्षीणपापस्य वै क्रमात् । शुद्धेऽन्तः करने विष्णुस्तस्थौ ज्ञानमयोऽच्युतः ॥३॥

योगप्रभावात्प्रह्लादे जाते विष्णुमयेऽसुरे । चलत्युरगबन्धैस्तैमैत्रेय त्रिटितं क्षणात् ॥४॥

भ्रान्तग्राहगणः सोर्मिर्ययौ क्षोभं महार्णवः । चचाल च मही सर्वा सशैलवनकानना ॥५॥

स च तं शैलसंघात दैत्यैर्न्यस्तमथोपरि । उत्क्षिप्य तस्मात्सलिलान्निश्चक्राम महामतिः ॥६॥

दृष्टा च स जगद्भूयो गगनाद्युपलक्षणम् । प्रह्लादोऽस्मीति सस्मार पुनरात्मानमात्मानि ॥७॥

तुष्टाव च पुनर्धीमाननादिं पुरुषोत्तमम् । एकाग्रमतिरव्यग्रो यतवाक्कायमानसः ॥८॥

प्रह्लाद उवाच

ॐ नमः परमार्थार्थ स्थूलसूक्ष्म क्षराक्षर । व्यक्ताव्यक्त कलातील सकलेश निरत्र्जन ॥९॥

गुणात्र्जन गुणाधार निर्गुणात्मन गुणस्थित । मूर्तामूर्महामूर्त सूक्ष्ममूर्त स्फूटास्फुट ॥१०॥

करालसुम्यरूपात्मन्विद्याऽविद्यामयाच्युत । सदसुद्रुपसद्भाव सदसद्भावभावन ॥११॥

नित्यानित्यप्रपत्र्चात्मन्निष्प्रपत्र्चामलाश्रित । एकानेक नमस्तुभ्यं वासुदेवादिकारण ॥१२॥

यः स्थूलसुक्ष्मः प्रकटप्रकाशो यः सर्वभूतो न च सर्वभुतः । विश्व यतश्चैतदविश्वहेतोर्नमोऽस्तु तस्मै पुरुषोत्तमाय ॥१३॥

श्रीपराशर उवाच

तस्य तच्चेतसो देवः स्तुतिमित्थं प्रकृर्वतः । आविर्बभुव भगवान् पीताम्बरधरो हरिः ॥१४॥

ससम्भ्रस्तमालोक्य समुत्थायाकुलाक्षरम् । नमोऽस्तु विष्णुवेत्यतद् व्याजहारासकृद द्विज ॥१५॥

प्रह्लाद उवाच

देव प्रपन्नार्त्तिहर प्रसादं कुरु केशव । अवलोककनदानेन भूयो मां पावयाच्युत ॥१६॥

श्रीभगवानुवाच

कुर्वतस्ते प्रसन्नोऽहं भक्तिमव्यभिचारिणीम् । यथाभिलषितो मत्तः प्रह्लाद व्रियतां वरः ॥१७॥

प्रह्लाद उवाच

नाथ योनिसहस्नेषु येषू येषु व्रजाम्यहम्‌ । तेषु तेष्वच्युताभक्तिरच्युतास्तु सदा त्वयि ॥१८॥

या प्रीतिरविवेकानाम विषयेष्वपायिनी । त्वामनुस्मरतः सा मे हृदयान्मापसर्पतु ॥१९॥

श्रीभगवानुवाच

मयि भक्तिस्तवास्त्येव भूयोऽप्येवं भविष्यति । वरस्तु मत्तः प्रह्लाद व्रियतां यस्तवेप्सितः ॥२०॥

प्रह्लाद उवाच

मयि द्वेषनुबन्धोऽभुत्संस्तुतावुद्यते तव । मत्पितुस्तत्कृतं पापं देव तस्य प्रणश्यतु ॥२१॥

शस्त्राणि पातितान्यंगेः क्षिप्तो यच्चाग्निसंहतौ । दंशितश्चौरगैर्दत्तं यद्विंष मम भोजन ॥२२॥

बद्धा समुद्रे यत्क्षिप्तो यच्चितोऽस्मि शिलोच्चयैः । अन्यानि चाप्यसाधूनि यानि पित्रा कृतानि मे ॥२३॥

त्वयि भक्तिमतो द्वेषादघं तत्सम्भवं च यत् । त्वत्प्रसादात्प्रभो सद्यस्तेन मुच्येत मे पिता ॥२४॥

श्रीभगवानुवाच

प्रह्लाद सर्वमेतत्ते मत्प्रसादाद्भविष्यति । अन्यच्च ते वरं दद्यि व्रियतामसुरात्मज ॥२५॥

प्रह्लाद उवाच

कृतकृत्योऽस्मि भगवन्वरेणानेन यत्वायि । भवित्री त्वत्प्रसादेन भक्तिरव्याभिचारिणी ॥२६॥

धर्मार्थकामैः किं तस्य मुक्तिस्तस्य करे स्थिता । समस्तजगतां मुले यस्य भक्तिः स्थिरा त्वयि ॥२७॥

श्रीभगवानुवाच

यथा ते निश्चलं चेतो मयि भक्तिसमनिन्वितम् । तथा त्वं मत्प्रसादेन निर्वाणं परमाप्स्यसि ॥२८॥

श्रीपराशर उवाच

इत्युक्त्वान्तर्दधे विष्णुस्तस्य मैत्रेय पश्यतः । स चापि पुनरागम्य ववन्दे चरणो पितुः ॥२९॥

तं पिता मूर्ध्न्यपाघ्राय परिष्वज्य च पीडितम् । जीवसीत्याह वत्सेति बाष्पर्द्रनयनो द्विज ॥३०॥

प्रीतिमांश्चाऽभवत्तस्मिन्ननुतापी महासुरः । गुरुपित्रोश्चकारैवं शुश्रुषां सोऽपि धर्मावित ॥३१॥

पितर्युपरतिं नीते नरसिंहस्वरूपिणा । विष्णूना सोऽपि दैत्यानां मैत्रेयाभूत्पतिस्ततः ॥३२॥

ततो राज्यद्युतिं प्राप्यं कर्मसुद्धिकरीं द्विज । पुत्रपौत्रांश्च सुबहूनवाप्यैश्वर्यमेव च ॥३३॥

क्षीणाधिकारः स यदा पूण्यपापविवर्जितः । तदा स भगवद्धयानात्परं निर्वाणमाप्तवान् ॥३४॥

एवं प्रभवो दैत्योऽसौ मैत्रेयासीन्महामतिः । प्रह्लादो भगवद्भक्तो यं त्वं मामनुपृच्छसि ॥३५॥

यस्त्वेतच्चरितं तस्य प्रह्लादस्य महात्मनः । श्रृणोति तस्य पापानि सद्यो गच्छन्ति संक्षयम् ॥३६॥

अहोरात्रकृतं पापं प्रह्लादचरितं नरः । श्रृण्वन् पठंश्च मैत्रेय व्यपोहति न संशयः ॥३७॥

पौर्णमास्याममावास्यामष्टम्यामथ वा पठन् । द्वादश्यां वा तदाप्नोति गोप्रदानपलं द्विज ॥३८॥

प्रह्लादं सकलापत्सु यथा रक्षितवान्हरीः । तथा रक्षति यस्तस्य श्रृणोति चरितं सदा ॥३९॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP