अनेकार्थसङ्ग्रहः - षट्स्वरकाण्डः

आचार्यश्रीहेमचन्द्रेण विरचितः अनेकार्थसङ्ग्रहो नाम कोशः


अथ षष्ठः काण्डः

षट्स्वरकान्ताः

ग्राममद्गुरिका श्रृङ्ग्यां ग्रामयुद्धेऽपि कीर्त्यते ।
स्यान्मदनशलाका तु सार्यां कामोदयौषधौ ॥१॥

मातुलपुत्रको धत्तूरफले मातुलात्मजे ।
लूतामर्कटकः पुत्रीनवमालिकयोः कपौ ॥२॥

वर्णविलोडकः काव्यच्छायाहृत्सन्धिचौरयोः ।
स्नानाचिकित्सकश्चातुर्मास्यव्रतकरे नरे ॥३॥

स्नानाचिकित्सकं प्रोक्तं नारीपुष्पतपस्ययोः ।
सिन्दूरतिलको हस्ती सिन्दूरतिलकाऽङ्गना ॥४॥

इति षट्स्वरकान्ताः ।

षट्स्वरणान्ताः

दोहदलक्षणं गर्भे स्यात्सन्धौ योवनस्य च ।
यौवनलक्षणं वक्षोरुहे च लवणिम्नि च ॥५॥

इति षट्स्वरणान्ताः ।

षट्स्वरतान्ताः

अर्धपारावतश्चित्रकण्ठे स्यात्तित्तिरावपि ।

इति षट्स्वरतान्ताः ।

षट्स्वरयान्ताः

प्रत्युद्गमनीयमुपस्थेये धौतांशुकद्वये ॥६॥

विष्वक्सेनप्रिया लक्ष्म्यां त्रायमाणौषधावपि ।
समुद्रनवनीते स्यात्पीयूषे च सुधाकरे ॥७॥

इति षट्स्वरयान्ताः ।
इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसङ्ग्रहे षट्स्वरादिकाण्डः षष्ठः ।

N/A

References : N/A
Last Updated : November 07, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP