लिङ्गात्मकानां शब्दानां वृत्तिर्नारायणे परे ।
चिन्त्यते सर्वगत्वं तु प्रथमं प्रविचार्यते ॥१॥
तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तिप्रबोधकः ।
दूरतोऽप्यतिरिक्तः स लीलया केवलं प्रभुः ॥२॥
इति ज्ञापयितुं कर्मकर्त्रोरुत्सर्गतो भिदा ।
अभेदोऽपि विशेषे स्याद्बली सोऽप्यनपोदितः ॥३॥
एतद्भावाभिधं लिङ्गं क्रियालिङ्गे ततः परम् ।
अन्तर्याम्यन्तरश्चेति क्रियाभावाख्यमुच्यते ॥४॥
अदृश्यत्वाद्यभावाख्यं श्रुतिर्लिङ्गाधिका परा ।
अनित्यत्वात्क्रियाणां तु कथमेव स्वरूपता ॥५॥
इति चेत्स विशेषोऽपि क्रियाशक्तयात्मना स्थिरः ।
शक्तिता व्यक्तता चेति विशेषोऽपि विशेषवान् ॥६॥
अभिन्नोऽपि क्रियादिश्च स्वभाव इति हि श्रुतिः ।
ज्ञानं नित्यं क्रिया नित्या बलं शक्तिः परात्मनः ॥७॥
इति पैङ्गिश्रुतिश्चाह शक्तिसद्भाव एव तु ।
क्रियादिनित्यता ज्ञेया तदन्यत्र त्वनित्यता ॥८॥
इति सत्तत्त्ववचनं द्वित्वं चैकस्य युज्यते ।
यः सेतुरिति चैकत्ववचनेन विशेषणात् ॥९॥
अन्तः स्थित्वा रमणकृदन्तरः समुदाहृतः ।
रमणं चात्मशब्देनादेयं मातीति चोच्यते ॥१०॥
विशिष्टसुखवत्त्वाच्च ब्रह्मत्वं च विशिष्टता ।
अन्योन्यनियतिश्चेशनियमे नान्यथा भवेत् ॥११॥
चेतनानां विशेषो यः स्वभावोऽपीश्वरापिर्तः ।
अन्योन्यनियमे तस्मादनवस्थित्यसम्भवौ ॥१२॥
ईश्वरश्चेन्नियन्ता च स एव प्रथमागतः ।
किमित्यपोद्यते कस्माद्वृथावस्थितिकल्पना ।
दोषवत्येव तस्मात्सा नैव कार्या कथञ्चन ॥१३॥
रमणं नातियत्नस्य विक्षेपादेव युज्यते ।
इति चेत्सर्वनियमो यस्य कस्मान्न शक्यते ॥१४॥
आत्मनानियतं वस्तु प्रतीपं ह्यात्मनो भवेत् ।
स्वाधीनसत्ताशक्तयादि कथमात्मप्रतीपकम् ॥१५॥
गुणक्रियादयो भावा यदिवा स्युरभेदिनः ।
अभेदोऽभावधर्माणां ब्रह्मणा युज्यते कथम् ॥१६॥
नाभावो भाव इति च विशेषः प्रायशो भवेत् ।
अतद्भावोऽन्यता चेति न विशेषोऽस्ति कश्चन ॥१७॥
दोषाभावो गुण इति प्रसिद्धो लौकिकेष्वपि ।
अदृश्यत्वादिकांस्तस्माद्गुणानाह स्वयं प्रभुः ॥१८॥
भावाभावविरोधोऽपि न तु सर्वत्र विद्यते ।
तदभावो हि तद्भावविरोधी न ततोऽपरः ॥१९॥
पृथक्तवाभावतद्रूपान् भेदांस्त्रीन् कल्पयन्ति चेत् ।
कल्पनागौरवाद्यास्तु दोषास्तत्र विरोधिनः ॥२०॥
पृथक्तवान्यत्वभेदास्तु पर्यायेणैव लौकिकैः ।
व्यवह्रियन्ते सततं वैदिकैरपि सर्वशः ॥२१॥
दृष्टहानिरदृष्टस्य कल्पनेत्येव दूषणम् ।
यदा तदधिको दोषो विद्यते को नु वादिनाम् ॥२२॥
भावाभावस्वरूपास्तु विशेषा एव वस्तुनः ।
अभिन्ना एव सङ्ग्राह्या व्यवहारप्रसिद्धये ॥२३॥
यथैकः समवायोऽपि भेदाभेदौ च वस्तुनि ।
अङ्गीकार्या विशेषेण स्थानेषु व्यवहर्तृभिः ॥२४॥
अखण्डवादिनोऽ पि स्याद्विशेषोऽनिच्छतोऽप्यसौ ।
व्यावृत्ते निर्विशेषे तु किं व्यावर्त्यबहुत्वतः ॥२५॥
बहुलिङ्गसमायुक्तैर्बहुभी रूढनामभिः ।
प्रसिद्धैरन्यगत्वेन वाच्यः साक्षाज्जनार्दनः ॥२६॥
वैश्वानरादयः शब्दा अपि तद्वाचिनस्ततः ।
तानि लिङ्गानि ते शब्दा अपि तद्गा हि सर्वशः ।
बहुलाप्यज्ञरूढिस्तत्प्रज्ञारूढिं न बाधते ॥२७॥

॥इति श्रीमदानन्दतीर्थभगवत्पादविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य द्वितीयः पादः॥

N/A

References : N/A
Last Updated : July 03, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP