बलभद्रखण्डः - अध्यायः १२

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


दुर्योधन उवाच -
गोपीभ्यः कवचं दत्तं गर्गाचार्येण धीमता ॥
सर्वरक्षाकरं दिव्यं देहि मह्यं महामुने ॥१॥
प्राड्‌विपाक उवाच -
स्नात्वा जले क्षौमधरः कुशासनः
पवित्रपाणिः कृतमन्त्रमार्जनः ॥
स्मृत्वाथ नत्वा बलमच्युताग्रजं
संधारयेद्धर्मसमाहितो भवेत् ॥२॥
गोलोकधामाधिपतिः परेश्वरः
परेषु मां पातु पवित्रकीर्तनः ॥
भूमण्डलं सर्षपवद्विलक्ष्यते
यन्मूर्ध्नि मां पातु स भूमिमण्डले ॥३॥
सेनासु मां रक्षतु सीरपाणि-
र्युद्धे सदा रक्षतु मां हली च ॥
दुर्गेषु चाव्यान्मुसली सदा मां
वनेषु संकर्षण आदिदेवः ॥४॥
कलिंदजावेगहरो जलेषु
नीलांबरो रक्षतु मां सदाग्नौ ॥
वायौ च रामोऽवतु खे बलश्च
महार्णवेऽनन्तवपुः सदा माम् ॥५॥
श्रीवासुदेवोऽवतु पर्वतेषु
सहस्रशीर्षा च महाविवादे ॥
रोगेषु मां रक्षतु रौहिणेयो
मां कामपालोऽवतु वा विपत्सु ॥६॥
कामात्सदा रक्षतु धेनुकारिः
क्रोधत्सदा मां द्विविदप्रहारी ॥
लोभात्सदा रक्षतु बल्वलारि-
र्मोहात्सदा मां किल मागधारिः ॥७॥
प्रातः सदा रक्षतु वृष्णिधुर्यः
प्राह्णे सदा मां मथुरापुरेन्द्रः ॥
मध्यन्दिने गोपसखः प्रपातु
स्वराट् पराह्णेऽवतु मां सदैव ॥८॥
सायं फणींद्रोऽवतु मां सदैव
परात्परो रक्षतु मां प्रदोषे ॥
पूर्णे निशीथे च दुरन्तवीर्यः
प्रत्यूषकालेऽवतु मां सदैव ॥९॥
विदिक्षु मां रक्षतु रेवतीपति-
र्दिक्षु प्रलंबारिरधो यदूद्वहः ॥
ऊर्ध्वं सदा मां बलभद्र आरा-
त्तथा समन्ताद्‌बलदेव एव हि ॥१०॥
अन्तः सदाव्यात्पुरुषोत्तमो बहि-
र्नागेन्द्रलीलोऽवतु मां महाबलः ॥
सदांतरात्मा च वसन् हरिः स्वयं
प्रपातु पूर्णः परमेश्वरो महान् ॥११॥
देवासुराणां भयनाशनं च
हुताशनं पापचयेन्धनानाम् ॥
विनाशनं विघ्नघटस्य विद्धि
सिद्धासनं वर्मवरं बलस्य ॥१२॥

इति श्रीगर्गसंहितायां बलभद्रखण्डे
स्तोत्रकवचवर्णनं नाम द्वादशोऽध्यायः ॥१२॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥

N/A

References : N/A
Last Updated : May 21, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP