चतुर्थः भागः - लिङ्गार्शोऽधिकारः

भावप्रकाशसंहिता


अथ द्विपञ्चाशत्तमो लिङ्गार्शोऽधिकारः ॥५२॥
अङ्कुरैरिव सञ्जातैरुपर्युपरि संस्थितैः
क्रमेण जायते वर्त्तिस्ताम्रचूडशिखोपमा ॥१॥
कोषस्याभ्यन्तरे सन्धौ पर्वसन्धिगतापि वा
लिङ्गवर्त्तिरिति ख्याता लिङ्गार्श इति चापरे
सवेदनापिच्छिला च दुश्चिकित्स्या त्रिदोषजा ॥२॥
क्षारेण प्रदहेच्छित्त्वा लिङ्गवर्त्तिमशेषतः
व्रणवच्चाचरेत्सम्यक् समं चूर्णमुपद्र वान् ॥३॥
स्वर्जिकातुत्थशैलेयमञ्जनं सरसाञ्जनम्
मनःशिलाऽले च समं चूर्णं मांसाङ्कुरापहम् ॥४॥
हरति घृतकुमारीपत्रमावेष्टेनेन ग्रथनविधिविशेषांश्चर्मकीलांस्तृतीये
अहनि गुरुतरानप्यङ्गलब्धप्रतिष्ठान् विधिरिव विपरीतः पौरुषस्य प्रकारान् ॥५॥
शुभे तु चारटीमूलं वृषमूत्रेण पेषयेत्
चर्मकीलान्निहन्त्याशु प्रलेपात्साधनोद्भवान् ॥६॥
इति द्विपञ्चाशत्तमो लिङ्गार्शोऽधिकारः समाप्तः ॥५२॥

N/A

References : N/A
Last Updated : May 17, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP