संस्कृत सूची|संस्कृत साहित्य|संहिता|भावप्रकाशसंहिता|मध्यखण्डः|द्वितीयः भागः|

द्वितीयः भागः - श्लेष्मव्याध्यधिकारः

भावप्रकाशसंहिता


अथाष्टाविंशः श्लेष्मव्याध्यधिकारः ॥२८॥
गुरुमधुररसादि स्निग्धमन्दोदराग्नि
द्र वदधिदिननिद्रा शीतनिश्चेष्टितानि
प्रथमदिवसभागे भुक्तमात्रे वसन्ते
भवति हि कफरोगो रात्रिभागेपि चाद्ये ॥१॥
प्रथमं मुखमाधुर्यं तथैव मुखलिप्तता
मुखप्रसेकश्च तथा निद्रा धिक्यं तथैव च ॥२॥
कण्ठे घुर्घुरता चापि कटुकाङ्क्षोष्णकामिता
बुद्धिमान्द्यमचैतन्यमालस्यं तृप्तिरेव च ॥३॥
अग्निमान्द्यं मलाधिक्यं मलशौक्ल्यं तथैव च
मूत्राधिक्यं मूत्रशौक्ल्यं शुक्राधिक्यं तथैव च ॥४॥
स्तैमित्यं गौरवं शैत्यमेत एव हि विंशतिः
योगतो रूढितः प्रोक्ता मुनिभिः श्लैष्मिका गदाः ॥५॥
रुक्षक्षारकषायतिक्तकटुकव्यायामनिष्ठीवनं
धूमोष्मानलघर्मनस्यवमनं स्वेदोपवासादिकम् ॥६॥
तृड्घाताध्वनियुद्धजागरजलक्रीडाङ्गनासेवनम्
पानाहारविहारभेषजमिदं श्लेष्मामयान् संहरेत् ॥७॥
इत्यष्टाविंशः श्लेष्मव्याध्यधिकारः समाप्तः ॥२८॥

N/A

References : N/A
Last Updated : May 17, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP