संस्कृत सूची|संस्कृत साहित्य|संहिता|धनुर्वेदसंहिता|
अथ दृढचतुष्कम्

धनुर्वेदसंहिता - अथ दृढचतुष्कम्

धनुर्वेदसंहिता


अयश्चर्म्मघटश्चैव मृतपिण्डश्च चतुष्ट्यम्
यो भिनत्ति न तस्येषुर्वज्रेणापि विदीर्यते ॥१४७॥
सार्द्धाङ्गुलप्रमाणेन लोहपत्राणि कारयेत्
तानि भित्त्वैकबाणेन दृढघाती भवेन्नरः ॥१४८॥
चतुर्विंशति चर्म्माणि यो भिनत्तीषुणा नरः
तस्य बाणो गजेन्द्रस्य कायं निर्भिद्य गच्छति ॥१४९॥
भ्राम्यन् जले घटो वेध्यश्चक्रे मृत्पिण्डकं तथा
भ्रमन्ति वेधयेद्यो हि दृढ भेदी स उच्यते ॥१५०॥
अयस्तु काकतुण्डेन चर्म्मचारामुखेन हि
मृतपिण्डं च घटं चैव विध्येत् सूचीमुखेन वै ॥१५१॥
बाणभङ्गकरावर्त्तः काष्ठच्छेदनमेव च
बिन्दुकं गोलकयुग्मं यो वेत्ति स जयी भवेत् ॥१५२॥
लक्ष्य स्थाने धृतं कान्तं सम्मुखं छेदयेत्ततः
किञ्चिद् मुष्टिं विधाय स्वां तिर्य्यग् द्विफलकेषुणा ॥१५३॥
सम्मुखं बाणमायान्तं तिर्य्यग् बाणं न सञ्चरेत्
प्राज्ञः शरेण यश्छिन्द्याद्बाणच्छेदी स उच्यते ॥१५४॥

N/A

References : N/A
Last Updated : May 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP