तृतीयोऽध्यायः - चतुर्थः पादः

ब्रह्मसूत्र, वेदान्त दर्शनचा एक अधारभूत ग्रन्थ आहे. ह्या ग्रंथाचे रचयिता बादरायण होत.


पुरुषार्थोऽतः शब्दादिति बादरायणः ॥१॥
शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः ॥२॥
आचारदर्शनात् ॥३॥
तच्छ्रुतेः ॥४॥
समन्वारम्भणात् ॥५॥
तद्वतो विधानात् ॥६॥
नियमाच्च ॥७॥
अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॥८॥
तुल्यं तु दर्शनम् ॥९॥
असार्वत्रिकी ॥१०॥
विभागः शतवत् ॥११॥
अध्ययनमात्रवतः ॥१२॥
नाविशेषात् ॥१३॥
स्तुतयेऽनुमतिर्वा ॥१४॥
कामकारेण चैके ॥१५॥
उपमर्दं च ॥१६॥
ऊर्ध्वरेतस्सु च शब्दे हि ॥१७॥
परामर्शं जैमिनिरचोदना चापवदिति हि ॥१८॥
अनुष्ठेयं बादरायणः साम्यश्रुतेः ॥१९॥
विधिर्वा धारणवत् ॥२०॥
स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥२१॥
भावशब्दाच्च ॥२२॥
पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥२३॥
तथा चैकवाक्योपबन्धात् ॥२४॥
अत एव चाग्नीन्धनाद्यनपेक्षा ॥२५॥
सर्वापेक्षा च यज्ञादिश्रुतेः अश्ववत् ॥२६॥
शमदमाद्युपेतः स्यात्तथाऽपि तु तद्विधेस्तदङ्गतया
तेषामवश्यानुष्ठेयत्वात् ॥२७॥
सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥२८॥
अबाधाच्च ॥२९॥
अपि स्मर्यते ॥३०॥
शब्दश्चातोऽकामचारे ॥३१॥
विहितत्वाच्चाश्रमकर्मापि ॥३२॥
सहकारित्वेन च ॥३३॥
सर्वथापि तु त एवोभयलिङ्गात् ॥३४॥
अनभिभवं च दर्शयति ॥३५॥
अन्तरा चापि तु तद्दृष्टेः ॥३६॥
अपि स्मर्यते ॥३७॥
विशेषणानुग्रहं च ॥३८॥
अतस्त्वितरज्ज्यायो लिङ्गाच्च ॥३९॥
तद्भूतस्य तु तद्भावो जैमिनेरपि
नियमातद्रूपाऽभावेभ्यः ॥४०॥
न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॥४१॥
उपपूर्वमपीत्येके भावशमनवत्तदुक्तम् ॥४२॥
बहिस्तूभयथापि स्मृतेराचाराच्च ॥४३॥
स्वामिनः श्रुतेरित्यात्रेयः ॥४४॥
आर्त्विज्यमित्यौडुलोमिः तस्मै हि परिक्रियते ॥४५॥
सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥४६॥
कृत्स्नभावात्तु गृहिणोपसंहारः ॥४७॥
मौनवदितरेषामप्युपदेशात् ॥४८॥
अनाविष्कुर्वन्नन्वयात् ॥४९॥
ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥५०॥
एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥५१॥

इति ब्रह्मसूत्रेषु
तृतीयाध्यायस्य चतुर्थः पादः समाप्तः
॥ इति तृतीयोऽध्यायः॥

N/A

References : N/A
Last Updated : March 16, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP