प्रथमोध्यायः - द्वितीयः पादः

ब्रह्मसूत्र, वेदान्त दर्शनचा एक अधारभूत ग्रन्थ आहे. ह्या ग्रंथाचे रचयिता बादरायण होत.


सर्वत्र प्रसिद्धोपदेशात् ॥१॥
विवक्षितगुणोपपत्तेश्च ॥२॥
अनुपपत्तेस्तु न शारीरः ॥३॥
कर्मकर्तृव्यपदेशाच्च ॥४॥
शब्दविशेषात् ॥५॥
स्मृतेश्च ॥६॥
अर्भकौकस्त्वात् तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥७॥
संभोगप्राप्तिरिति चेन्न वैशेष्यात् ॥८॥
अत्ता चराचरग्रहणात् ॥९॥
प्रकरणाच्च ॥१०॥
गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥११॥
विशेषणाच्च ॥१२॥
अन्तर उपपत्तेः ॥१३॥
स्थानादिव्यपदेशाच्च ॥१४॥
सुखविशिष्टाभिधानादेव च ॥१५॥
श्रुतोपनिषत्कगत्यभिधानाच्च ॥१६॥
अनवस्थितेरसंभवाच्च नेतरः ॥१७॥
अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॥१८॥
न च स्मार्तं अतद्धर्माभिपालात् ॥१९॥
शरीरश्चोभयेऽपि हि भेदेनैनमधीयते ॥२०॥
अदृश्यत्वादिगुणको धर्मोक्तेः ॥२१॥
विशेषणभेदव्यपदेशाभ्यां नेतरौ ॥२२॥
रूपोपन्यासाच्च ॥२३॥
वैश्वानरः साधारणशब्दविशेषात् ॥२४॥
स्मर्यमाणमनुमानं स्यादिति ॥२५॥
शब्दादिभ्योऽन्तः प्रतिष्ठानान्नेति चेन्न तथा दृष्ट्युपदेशादसंभवात्पुरुषविध्मपि चैनमधीयते ॥२६॥
अत एव न देवता भूतं च ॥२७॥
साक्षादप्यविरोधं जैमिनिः ॥२८॥
अभिव्यक्तेरित्याश्मरथ्यः ॥२९॥
अनुस्मृतेर्बादरिः ॥३०॥
सम्पत्तेरिति जैमिनिः तथा हि दर्शयति ॥३१॥
आमनन्ति चैनमस्मिन् ॥३२॥

इति ब्रह्मसूत्रेषु
प्रथमाध्यायस्य द्वितीयः पादः समाप्तः

N/A

References : N/A
Last Updated : March 16, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP