अहिर्बुध्नसंहिता - अध्यायः २३

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


वासुदेवादियन्त्रनिरूपणं नाम त्रयोविंशोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम्।
सुदर्शनस्य तद्दिव्यं भर्गो देवस्य धीमहि॥

द्वादशारचक्रम्
अहिर्बुध्न्यः---
द्वादशारस्य चक्रस्य क्रमोऽयं परिगीयते।
पाप्मानो विप्रदूयन्ते यस्य स्मरणमात्रतः ॥१॥
नारायणाह्वयं चक्रं यत् पूर्वं समुदीरितम्।
तदक्षं कल्पयेन्मन्त्री वक्ष्यमाणविधानतः ॥२॥
तारतारानुताराभिर्ग्रथितं मन्त्रनायकम्।
परितो विलिखेद् बाह्ये चक्रान्नारायणाह्वयात् ॥३॥
नामवर्णान् लिखेद् बाह्ये तारादित्रयलोलितान्।
द्वादशाक्षरमन्त्रेण ग्रथितं मन्त्रनायकम् ॥४॥
परितो विलिखेद् बाह्ये तद्बहिः सहदर्भिताम्।
मातृकां विलिखेत् सर्वमेतदक्षं विचिन्तयेत् ॥५॥
द्वादशाक्षरमन्त्रेण शक्तिश्रीबीजतारकैः।
ग्रथितां कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ॥६॥
स्राकारग्रथितां चापि मातृकां परितो लिखेत्।
एषा नाभिः समुद्दिष्टा द्वादशाराण्यथो लिखेत् ॥७॥
दिक्षु द्वे द्वे अरे लिख्याद्विदिक्ष्वेकैकमप्युत।
रेफं मन्त्राक्षरं तारं रेफं मन्त्रार्णतारिके ॥८॥
रेफं मन्त्रार्णलक्ष्म्यौ च रेफमित्यनया दिशा।
अराणि द्वादशैवं च द्वादशाक्षरविद्यया ॥९॥
प्रागादीशानपर्यन्तं कल्पयेन्मन्त्रवित्तमः।
तत्तदक्षरसंयुक्तं मन्त्रं चाप्यरपार्श्वयोः ॥१०॥
द्वादशारी महाविद्या सेयं सर्वेश्वरप्रिया।
परितः कल्पयेन्नेमिं जितंताख्यमहामनुम्॥ ११॥
तारतारानुताराभिर्ग्रथितं हुं बहिर्लिखेत्।
शक्तिताररमास्त्रिस्त्रिरालिखेत् परितो बहिः ॥१२॥
फट्कारग्रथितां बाह्ये मातृकां प्रधिमालिखेत्।
वासुदेवाह्वयं चक्रमेतद् देवैरभिष्टुतम् ॥१३॥
अस्य चक्रस्य माहात्म्यं वक्तं शक्यं न मादृशैः।
अजिताख्यद्वात्रिंशदरचक्रम्
अक्षं कृत्वा चक्रमेतद् द्वात्रिंशदरमालिखेत् ॥१४॥
अजिताख्यमिदं चक्रं सुरासुरनमस्कृतम्।
अस्य चक्रस्य विधिवद् विधानमुपदिश्यते ॥१५॥
वासुदेवाह्वयं चक्रमस्याक्षं परिकल्पयेत्।
यथा तथा विधानेन विधानं श्रुणु सांप्रतम् ॥१६॥
तारतारानुताराभिर्ग्रथितं मन्त्रनायकम्।
परितो विलिखेन्मन्त्री वासुदेवाह्वयाद् बहिः ॥१७॥
तारादिग्रथितान् साध्यनामवर्णान् लिखेद्बहिः।
जितंताग्रथितं मन्त्रं परितो बहिरालिखेत् ॥१८॥
मातृकां विलिखेद् बाह्ये सहद्वन्द्वविदर्भिताम्।
विद्यादजितचक्रस्य सम्यगक्षमिदं बुधः ॥१९॥
जितंताख्येन मन्त्रेण शक्तिश्रीबीजतारकैः।
ग्रथितं कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ॥२०॥
स्राकारग्रथितां चापि मातृकां परितो लिखेत्।
एषा नाभिः समुद्दिष्टा पुण्डरीकाक्षसंमता ॥२१॥
द्वात्रिंशतमराण्यस्य परितो नाभिमालिखेत्।
दिक्षु चत्वारि चत्वारि लिखेदष्टसु वै क्रमात् ॥२२॥
रेफं मन्त्राक्षरं तारं रेफं मन्त्रार्णतारिके।
रेफं मन्त्रार्णलक्ष्म्ययौ च रेफमित्यनया दिशा ॥२३॥
द्वात्रिंशतमराण्येवं लिखेत् सम्यग्जितंतया।
तत्तदक्षरसंयुक्तं मन्त्रं चाप्यरपार्श्वयोः ॥२४॥
सा द्वात्रिंशदरी दिव्या देवदेवजयप्रदा।
परितः कल्पयेन्नेमिं नृसिंहानुष्टुभं पराम् ॥२५॥
तारतारानुताराभिर्ग्रथितं हुं बहिर्लिखेत्।
शक्तिताररमास्त्रिस्त्रिः परितो बहिरालिखेत् ॥२६॥
फट्कारग्रथितां बाह्ये मातृकां प्रधिमालिखेत्।
अजिताख्यमिदं चक्रं पुण्डरीकाक्षसंमतम् ॥२७॥
येनाद्य पुण्डरीकाक्षो दैत्यान् विजयतेऽखिलान्।
एतदत्यद्भुतं चक्रं कथ्यते वैष्णवं यशः ॥२८॥
नित्ययुक्तोऽत्र सन्मन्त्री जगद्विजयतेऽखिलम्।
नारसिंहद्वात्रिंशदरचक्रम्
अक्षीकृत्यैतच्चक्रं तु चक्रमन्यत् प्रवर्तते ॥२९॥
महाविष्णुमयं घोरं भद्रं मृत्युविमर्दनम्।
विधानं श्रृणु तस्येदं कथ्यमानं मयानघ ॥३०॥
तारतारानुताराभिर्ग्रथितं मन्त्रनायकम्।
अजिताख्यान्महाचक्रात् परितो बहिरालिखेत् ॥३१॥
तारादिग्रथितान् साध्यनामवर्णान् बहिर्लिखेत्।
उग्रवीरादिमन्त्रेण ग्रथितं मन्त्रनायकम् ॥३२॥
परितो विलिखेद् बाह्ये सहग्रथितमातृकम्।
महाविष्णुमयं ह्येतदक्षं चक्रस्य शोभनम् ॥३३॥
उग्रवीरादिमन्त्रेण शक्तिश्रीबीजतारकैः।
ग्रथितं कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ॥३४॥
स्राकारग्रथितां चापि मातृकां परितो लिखेत्।
एषा नाभिः समुद्दिष्टा महाविष्णुमयी परा ॥३५॥
द्वात्रिंशतमराण्यस्य परितो नाभिमालिखेत्।
दिक्षु चत्वारि चत्वारि लिखेदष्टसु वै क्रमात् ॥३६॥
रेफं मन्त्राक्षरं तारं रेफं मन्त्रार्णतारके।
रेफं मन्त्रार्णलक्ष्म्यौ च रेफमित्यनया दिशा ॥३७॥
द्वात्रिंशतमराण्येवं नृसिंहानुष्टुभा लिखेत्।
तत्तदक्षरसंयुक्तं मन्त्रं चाप्यरपार्श्वयोः ॥३८॥
सा द्वात्रिंशदरी विद्या दुष्टदैत्यनिबर्हणी।
अस्य चक्रस्य नेमिं तु त्रीणि छन्दांसि कल्पयेत् ॥३९॥
गायत्रीं त्रिष्टुभं चैव तथानुष्टुभमेव च।
तारतारानुताराभिर्ग्रथितं हुं बहिर्लिखेत् ॥४०॥
शक्तिताररमास्त्रिस्त्रिः परितो बहिरालिखेत्।
फट्कारग्रथितां बाह्यो मातृकां प्रधिमालिखेत् ॥४१॥
एतदत्यद्भुतं घोरं दुष्टदानवसूदनम्।
नारसिंहं महाचक्रं मृत्युंजयमिति श्रुतम् ॥४२॥
प्रेतापस्मारकूश्माण्डदैत्यदानवराक्षसाः।
डाकिन्यो भूतयोगिन्यो याश्चान्याः क्रूरजातयः ॥४३॥
स्मरणादस्य चक्रस्य विनश्यन्त्येव सर्वदा।

शतारज्योतिश्चक्रम्
अक्षीकृत्यैतच्चक्रं तु ज्योतिश्चक्रं प्रवर्तते ॥४४॥
ज्योतींषि त्रीणि च्छन्दांसि गायत्र्यादीन्यसंशयम्।
विधिज्ञैस्तस्य चक्रस्य विधानं विहितं श्रृणु ॥४५॥
यदेतत् प्रथितं ज्योतिर्दिवि प्रत्यक्षमुत्तमम्।
एषा तदिति गायत्री वेदानां जननी परा ॥४६॥
यदेतदग्निहोत्रस्थं ज्योतिर्वहति वै हुतम्।
जातवेदस इत्येषा त्रिष्टुबग्निमयी तनुः ॥४७॥
रसैः पुष्णाति यद्विश्वं ज्योतिर्नयननन्दनम्।
तत् त्रियम्बकमित्येषानुष्टुबिन्दुमयी तनुः ॥४८॥
ज्योतिर्भिर्धार्यते विश्वं बोधतापनहर्षणैः।
विरुद्धोपक्रमैर्विश्वं भोक्तृभोग्यमयात्मभिः ॥४९॥
यत् पूर्वमुदितं चक्रं महाविष्णुमयं महत्।
तदक्षं कल्पयेन्मन्त्री त्रिभिर्ज्योतिर्भिरुत्तमैः ॥५०॥
छन्दोभिः कल्पयेदक्षं तारादिग्रथितं पुरा।
महाविष्णुमयाद् बाह्ये विलिखेन्मन्त्रनायकम् ॥५१॥
तारादिग्रथितांश्चापि साध्यवर्णान् लिखेद् बहिः।
छन्दोभिर्ग्रथितं मन्त्रं मन्त्री तद्बहिरालिखेत् ॥५२॥
मातृकां विलिखेद् बाह्यो सहद्वयविदर्भिताम्।
एतदक्षं समुद्दिष्टं ज्योतिश्चक्रस्य नारद ॥५३॥
त्रिभिस्तदाद्यैश्छन्दोभिः शक्तिश्रीबीजतारकैः।
ग्रथितं कल्पयेन्नाभिं स्राकारं परमाद्भुतम् ॥५४॥
स्राकारग्रथितां चापि मातृकां बहिरालिखेत्।
एषा नाभिः समुद्दिष्टा वेदवेदान्तपूजिता ॥५५॥
अराणि शतमस्य स्युर्विधानं तस्य मे श्रृणु।
वायुतो वह्निपर्यन्तं रक्षसः शर्वगोचरम् ॥५६॥
सूत्रद्वयं पातयित्वा चतुर्धा प्रविभज्य तु।
अराणि पञ्च प़ञ्चैव क्षेत्रमेकैकमालिखेत् ॥५७॥
अराणि शतमेवं स्युर्विधानं तस्य मे श्रृणु।
गायत्र्यादीनि यानि स्युस्तत्र च्छन्दस्त्रयं लिखेत् ॥५८॥
रेफं मन्त्राक्षरं तारं रेफं मन्त्रार्णतारके।
रेफं मन्त्रार्णलक्ष्म्यौ च रेफमित्यनया दिशा ॥५९॥
विलिखेदरगायत्रीं गायत्र्यादौ समाहितः।
अराणां त्रिष्टुभं चैव त्रिष्टुभैव समालिखेत् ॥६०॥
अनुष्टुभमराणां चानुष्टुभैव समालिखेत्।
प्रागादिक्रमयोगेन यावदीशानगोचरम् ॥६१॥
तत्तदक्षरसंयुक्तं मन्त्रं चाप्यरपार्श्वयोः
शतारीयं महापुण्या सा ब्रह्मास्त्रमयी परा ॥६२॥
पादैः पदैरक्षरैश्च त्रिधैव प्रतिलोमया।
ब्रह्मदण्डब्रह्मशिरोब्रह्मास्त्रमयतेजसा ॥६३॥
आन्तरं नेमिभागं तु गायत्र्या कल्पयेत् सुधीः।
आग्नेयास्त्रस्वरूपिण्या त्रिष्टुभा प्रतिलोमया ॥६४॥
मध्यमं नेमिभागं तु कल्पयेन्मन्त्रवित्तमः।
अनुष्टुभा तृतीयं तु नेमिभागं प्रकल्पयेत् ॥६५॥
त्रैयम्बकास्त्ररूपिण्या वर्णशः प्रतिलोमया।
विलिखेत् प्रतिलोमास्ता मन्त्रेण ग्रथिताः सुधीः ॥६६॥
तारतारानुताराभिर्ग्रथितं हुं बहिर्लिखेत्।
शक्तिताररमास्त्रिस्त्रिः परितो बहिरालिखेत् ॥६७॥
फट्कारग्रथितां बाह्ये मातृकां प्रधिमालिखेत्।
त्रिषु लोकेषु विख्यातं त्रिज्योतिश्चक्रमुत्तमम् ॥६८॥
ब्रह्मचक्रम्
अस्माच्चक्राद् बहिः पञ्च होतारः सग्रहाः स्मृताः ॥६९॥
सं भाराः पत्नयश्चैव दक्षिणा हृदयानि च।
तद्बहिः शतरुद्राणि पञ्च ब्रह्माणि तद्बहिः ॥७०॥
त्वरितां तद्बहिश्चैव सूक्तं पौरुषमेव च।
श्रीसूक्तं तद्बहिश्चैव गायत्रीं व्याहृतित्रयम् ॥७१॥
प्रणवं चेति परितः पङ्क्तीरेताः क्रमाल्लिखेत्।
एतद् ब्रह्ममयं चक्रं सर्वच्छन्दोविनिर्मितम्२ ॥७२॥
सर्वदुः खोपशमनं सर्वपापनिबर्हणम्।
स्मृतिमात्रेण सर्वेषामभीष्टार्थप्रदं सदा ॥७३॥
सहस्रारमातृकाचक्रम्
बहिः प्रवर्तते चास्मान्मातृकाचक्रमुत्तमम्।
सोमसूर्यौर्वबिन्दूनां कूटं तु परितो लिखेत् ॥७४॥
तारतारानुताराभिर्ग्रथितं मन्त्रनायकम्।
तद्बहिर्विलिखेन्मन्त्री तारादिग्रथितान् पुनः ॥७५॥
नामवर्णान् लिखेद् बाह्ये तद्बहिर्मन्त्रमिश्रितान्।
मातृकां विलिखेद् बाह्ये सहग्रथितमातृकाम् ॥७६॥
एतदक्षं समुद्दिष्टं मातृकाचक्रसंभवम्।
तारतारानुताराभिर्वर्णमातृकयापि च ॥७७॥
ग्रथितं कल्पयेन्नाभिं स्राकारं परमाद्भुतम्।
स्राकारग्रथितां चापि मातृकां बहिरालिखेत् ॥७८॥
एषा नाभिः समुद्दिष्टा शब्दब्रह्ममयी परा।
अराण्यस्य सहस्रं स्युस्तद्विधानमिदं श्रृणु ॥७९॥
पूर्वादिषु विभक्तेषु सूत्रैः क्षेत्रेषु पूर्ववत्।
पञ्च पञ्चाशतं कुर्यादराणि प्रतिभागशः ॥८०॥
पञ्चाशद्भिस्तु विंशत्या सहस्रारं भवेत् तलम्।
तारतारानुताराभिर्वाग्भवाद्यैस्त्रिभिस्तथा ॥८१॥
चतुर्भिर्मातृकाबीजैराद्यैरौर्वान्तिमैः स्वरैः।
आदिद्विसप्तसंभिन्नैः काद्यैः क्षान्तैश्च वर्णकैः ॥८२॥
त्रैलोक्यैश्वर्यदोपेतैः शतैः पञ्चभिरक्षरैः।
तावद्भिश्चैव सृष्ट्यन्तैः सहस्रेणेति संहतैः ॥८३॥
अराणि कल्पयेदेवं सहस्रं सद्विधिं श्रृणु।
रेफं मन्त्राक्षरं तारं रेफं मन्त्रार्णतारके ॥८४॥
रेफं मन्त्रार्णलक्षअम्यौ च रेफमित्यनया दिशा।
प्रागादिक्रमयोगेन लिखेदरसहस्रकम् ॥८५॥
सहस्रारीयमुद्दिष्टा शब्दब्रह्ममयी परा।
ऐश्वर्यं बिन्दुसंयुक्तं वाग्भवं संप्रचक्षते ॥८६॥
करालविबुधाख्यस्था माया व्यापिसमन्विता।
कामराजमयं बीजं सोमोर्वव्यापिसंयुता ॥८७॥
बीजं सारस्वतमिदं वाग्भवाद्या इमे त्रयः।
कालानलस्थकमलबास्करानिलगामिनी॥ ८८॥
माया व्यापिसमायुक्ता मातृकाबीजमादिमम्।
अशेषभुवनाधारसूर्यानलविहारिणी ॥८९॥
पञ्चबिन्दुर्व्यापियुता द्वितीयं बिजमुच्यते।
सोमानलस्थसूक्ष्मस्थानन्दव्यापिसमन्वयः ॥९०॥
तृतीयं बीजमुद्दिष्टं चतुर्थमपि मे श्रृणु।
सोमतालाङ्कसूक्ष्मस्थकालपावकगोपना ॥९१॥
कूटीकृता व्यापियुता चतुर्थं बीजमुत्तमम्।
बीजानीमानि चत्वारि मातृकायां महामुने ॥९२॥
तत्तदक्षरसंयुक्तं मन्त्रं चोभयपार्श्वयोः।
अराणां विलिखेन्मन्त्री सहस्रारविधिक्रमे ॥९३॥
मन्त्रार्णग्रथितां मन्त्री मातृकां प्रतिलोमिकाम्।
विलिखेत् परितो मन्त्री तारादिग्रथितं च हुम् ॥९४॥
बहिर्लिखेच्छक्तिताररमास्त्रिस्त्रिर्विचक्षणः।
फट्कारग्रथितां चापि मातृकां प्रधिमालिखेत्॥ ९५॥
एतत् तन्मातृकाचक्रं यत्र सर्वं प्रतिष्ठितम्।
यद्बीजं मातृकाक्षाद्यं तद्बहिः प्रधिमालिखेत् ॥९६॥
ततश्चिन्तामणिं बाह्ये तद्बहिश्च लिखेत् पराम्।
परावरां तद्बहिश्च तद्बहिः श्रियमालिखेत् ॥९७॥
तद्बहिस्तारिकां चैव तद्बहिस्तारकं परम्।
तद्बहिश्चाङ्कुशांस्त्रिस्त्रिः पाशांस्त्रिस्त्रिश्च तद्बहिः ॥९८॥
आचक्रादीनि चाङ्गानि तद्बहिः परितो लिखेत्।
तद्बहिश्चापि दिग्बन्धं तस्य रूपमिदं श्रृणु ॥९९॥
पुरुषाय ततः स्वाहा दिङ्नामामर्षणं ततः।
सहेति च ततः पश्चाद्बन्धयामीति दिग्गतम् ॥१००॥
आत्मने च ततः स्वाहा विदिङ्नामाप्यमर्षणम्।
सहेति च ततः स्वाहा विदिङ्नामाप्यमर्षणम्।
सहेति च ततः पश्चाद्बन्धयामि विदिग्गतम् ॥१०१॥
विलिखेच्चक्रगायत्रीमग्निपाकारमन्ततः।
आकाशमण्डलं बाह्ये तद्बीजेन समन्वितम् ॥१०२॥
वायुबीजं तु तद्बाह्ये स्वबीजेन समन्वितम्।
वह्निबीजं तु तद्बाह्ये स्वबीजेन समन्वितम् ॥१०३॥
आप्यं तु मण्डलं बाह्ये स्वबीजेन समन्वितम्।
तद्बाह्ये पार्थिवं बिम्बं स्वबीजेन समन्वितम् ॥१०४॥
प्राणः सूक्ष्मोऽनलश्चैव वारुणः पुरुषेश्वरः।
सव्यापिनः क्रमादेतद् व्योमादेर्बीजपञ्चकम् ॥१०५॥
अनलः कमलश्चैव भास्करो मर्दनस्तथा।
अनलः सूक्ष्म और्वश्चाप्यूर्जः पिण्डीकृता इमे ॥१०६॥
सव्यापिनः स्मृतं बीजं चिन्तामणिरिदं परम्।
परा नाम महाविद्या सोमस्थौर्वस्थसृष्टिका ॥१०७॥
सव्यापी सोमगो विष्णुरियं प्रोक्ता परावरा।
सौदर्शनेन कूटेन पृथिवीं परिवेष्टयेत् ॥१०८॥
योनिं सुदर्शनस्याथ वेष्टयेत् तारया बहिः।
सोमः सूर्यस्ततः सोमः कालपावकयोर्द्वयम् ॥१०९॥
सौदर्शनमिदं कूटं निरचां पञ्चकं हलाम्।
एतत् सौदर्शनं रूपं कालानलसमद्युति ॥११०॥
शमयेत् कूटमेतद्वै तारयामृतरूपया।
अग्नीषोमात्मकं चक्रमेतत्ते दर्शितं मुने।
वैष्णवं परमं तेजो ध्याहि चक्रमिदं सदा ॥१११॥
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां वासुदेवादियन्त्रनिरूपणं नाम त्रयोविंसोऽध्यायः
आदितः श्लोकाः १४१५

N/A

References : N/A
Last Updated : March 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP