संस्कृत सूची|संस्कृत साहित्य|संहिता|पुरुषोत्तमसंहिता|

पुरुषोत्तमसंहिता - अष्टविंशोध्यायः

पुरुषोत्तम

सालग्रामलक्षण श्रवणे ब्रह्म प्रश्नः
ब्रह्मा-
भगवन्देवदेवेश सर्वसंपत्करप्रभो
सालग्रामादिमूर्तीनां लक्षणं वक्तुमर्हसि ॥१॥
भगवत्बतिवचनं
श्रीभगवानुवाचः
सालग्रामलक्षणं
श्रुणुब्रह्मन्‌ प्रवक्ष्यामि सालग्रामस्यलक्षणम्
यस्यार्चनं सदान्रूणां सर्वपापक्षयं (भवेत् स्मृतं)शुभम् ॥२॥
सालग्रामस्य प्रतिष्ठावर्जनं
सालग्रामे सदाशौरि स्तिष्ठत्येवनसंशयः
प्रतिष्ठाप्य समाचीनं सदापूज्योमुमुक्षुभिः ॥३॥
तेषां तु लक्षणं (वक्ष्ये)वत्ससमासाच्छ्रुणुपांप्रतम्
कूर्ममूर्तिल लक्षणं
कूर्मस्यादुन्नतः पृष्ठोश्वेतभागोखुरां चितः ॥४॥
द्विचक्रो भूधराख्योयं मनोरधफलप्रदः
मंधर धरकूर्म लक्षणं
बिंदुद्वयान्वितो चक्रशंखद्वयमु तोपिच ॥५॥
दीर्घदक्षिना नामास्युः भूगेवलयपंचकः
सामंदरधरः कूर्ममूर्तिस्यात्सर्वकामदः ॥६॥
आदिकूर्म लक्षणं
वृत्तायताकूर्ममूर्तिः कनकच्छवि संयुतः
स्नुहिपुष्पाकृतिर्वासि चक्रस्यो भयपार्श्वतः ॥७॥
आदिकूर्मइति ख्यातस्सर्य कामफलप्रदः
कूर्मलक्षणं
वर्तुलाम कराकारा दीर्घद्वारातु वैद्विज ॥८॥
नाभिचक्रयुता सम्यक्कूर्माकारातु पोर्श्वतः
स्थिरासनाचतत्पृष्ठॆ उन्नतानील लोहिता ॥९॥
कूर्ममूर्ति रितिख्याता पुत्रपौत्राभिवृद्धिदा
क्षत्रियाणां (तदाराज्ञां)चहितथा सर्वशत्रुविनाशिनी ॥१०॥
लक्ष्मीवराहलक्षणं
इंद्रनीलनिभस्थूल श्शीरेखालांछितश्शुभः
दक्षिणेतु स्थिते चक्रे समलग्ने प्रदेशतः ॥११॥
वनमालायुतो लक्ष्मीवाराहश्शुभडस्सृतः
अतसीकुसुमप्रख्या नीलोत्पल निभस्तदा ॥१२॥
भूवराह लक्षणं
दीर्घद्वारमुतो दीर्घद्वारयुक्त स्सगंह्वरः
पृष्ठोन्नतस्तु दीर्घास्यो वामतच्चक्रमुन्नतः ॥१३॥
पृष्ठरेखा समायुक्तो वराहाकृति रेवच
आस्यमात्रंतु वा ब्रह्मान्‌ पादलांगूलकंतथाः ॥१४॥
दृश्यतेकौंस्तुभाकार रेखापृष्ठॆ च पार्श्वके
भूवराहयिति पोक्तो राज्यलक्ष्मी प्रदॊनृणाम् ॥१५॥
वराहमूर्ति स्त्रीविधः
नानारत्न युतश्चापि कालवर्णयुतोपि च
दीर्घद्वारयुतस्स्निग्धो द्वारमध्ये द्विचक्रयुत् .॥१६॥
वनमाला युतश्छापि वराहः परिकीर्तितः
पुत्रपौत्र धनैश्वर्य (गोभूधान्य विवर्थनः) भूप्रभुर्ज्ञान वर्धनः ॥१७॥
[अधिक पाठानि
एकादश्यां विशेषेण पूजनं मोक्षसिद्दिदं]
लक्ष्मीनरसिंहः
वामेभागे स्थिते चक्रे कृष्णवर्ण स्सबिंदुकः
लक्ष्मीनृसिंहविख्यातो भुक्तिमुक्ति फलप्रदः ॥१८॥
वीरलक्ष्मीनृसिंहः
द्विचक्रस्तु बृहद्वक्त्रः कपिलः कनकप्रभः
वीरलक्ष्मीनृसिंहाख्यो ब्रह्मचारिभिरर्चितः ॥१९॥
विदारणनृखंह लक्षणं
कपिलो ग्रंधिमूलार्धो शक्तिबिंदु खुराकृतिः
कराळवदनो देवः सृधुचक्र स्सुदंष्ट्रकः ॥२०॥
विदारणाभिथान श्च नृसिंहोदीर्घकेसरः
ब्रह्मचर्येध पूज्यश्च नान्यधापूजितो भवेत् ॥२१॥
ज्वालाविदारण नारसिंहः
अंतश्चक्रो बृहद्वीर्यः दीक्षिणोन्नत मस्तकः
ज्वालाविदारणोनारसिंहौदंष्ट्रोपशोभितः ॥२२॥
ब्रह्मचर्य विहीनेन (पूजिते)पूजितो नष्टदायकः
नृसिंहलक्षणं
नारसिंहस्त्रि बिंदुश्च कपिलाभोबृहद्बिलः ॥२३॥
दंष्ट्राकराळवदनो बृहदास्योति रूक्षकः
अधवानारसिंहश्च उदरेवा चतुर्मुखः ॥२४॥
झषाकृतिर्वा चक्रस्य पार्श्वॆदंष्ट्राकृतिस्तधाः
नारसिंह इतिख्यातो यतिभिः पूज्यउच्यते ॥२५॥
कपिल नारसिंह लक्षणं
स्थूलचक्रद्वयं मध्ये गुंजालाक्ष्मक्तकर्तनः
स्फुटिते विषमे चक्रे नारसिंहस्तु कापिलः ॥२६॥
संपूज्य मुक्तिमाप्नोति संग्रामे विजयीभवेत्
सर्वतोमुखनारसिंहः
सप्तचक्रोबहुमुखः समंतास्स्वर्णभूषितः ॥२७॥
बहुवर्गं मोक्षदोस्यान्नृसिंहोसर्वतोमुखः
विलिक्तास्यो वामचक्रो वर्तुलः कपिलप्रभः ॥२८॥
भीताख्यनृसिंहः नारसिंहोगृहस्थानां भीतिदो भीतिनामकः
पाताळनृसिंह लक्षणं
त्रादित्रयोदशांतैस्तु चक्रैर्युक्तं बहूदरं ॥२९॥
बहुवर्णयुतं वापि बहुद्वारसमन्वितम्
पाताळनरसिंहाख्यं (यतीनां मोक्षसिद्धिदं.)भिक्षूणाममृत प्रदम् ॥३०॥
तत्तन्मूर्त्युक्तचिह्नैस्तुरहितश्चेद्वि शेषतः
पाताळ नरसिंहोवा बहुरूपोधनाफवेत् ॥३१॥
कुक्षिनारसिंह लक्षणं
अल्पिष्ठ मल्पचक्राढ्य मल्पभारं महोदरम्
तत्कुक्षिनारसिंहाख्यं वनवासि भिरर्चितम् ॥३२॥
राक्षस नृसिंहः
बहुच्छिद्रं भिन्नदक्त्रं सुवर्णघनकांतिमत्
द्विचक्रं राक्षसंज्ञेयं नृसिंहं गृहदाहकम् ॥३३॥
विद्युजिह्वानृसिंहः
दूर्वाभोन्नतशीर्षं च विद्युज्जिह्वानृसिंहकः
द्विचक्र तश्शोभयुतो मखोदारिद्य्र दोर्चितः ॥३४॥
अथोमुख नृसिंहः
मुखे पार्श्वेच पृष्ठॆच त्रिचक्रैरुपशोभितः
अधोमुखनृसिंहाख्य मर्चकानां विमुक्तिदं ॥३५॥
बालनृसिंहः
सूक्ष्मरंध्रंद्वि चक्राढ्यं वनमालाविभूषितम्
तद्बालनरसिंहाख्यं नृणां संसारमोचकम् ॥३६॥
विभीषण नृसिंहः
दीर्घाकारोदीर्घचक्रो ऋषकास्यो बृहत्तरः
विभीषणनृसिंहाख्यो नृणां दुःखप्रदस्सदा ॥३७॥
दधिनामन लक्षणं
अतिह्रस्वोवर्तुलास्यो वामनः परिकीर्तितः.
अतसी कुसुमप्रख्यो बिंदवः परिशोभितः ॥३८॥
चक्रद्वय समायुक्त श्श्वेतबिंदुयुतेमखे
दधिवामन संज्ञास्या द्गोभूधान्यधनप्रदः ॥३९॥
अभीष्टवामन लक्षणं
वर्तुलं स्निग्धमत्यंतं स्पष्टचक्र समन्वितम्
ह्रस्वमुन्नतमश्चैव दीर्घास्य मति गंह्वरे ॥४०॥
स्पुरद्रेखामलयुतं नाभिस्तन्योन्नता भवेत्
केसरांभंचवै ब्रह्मन्‌ दृस्यते चक्रपार्श्वतः ॥४१॥
अभिष्टवामनं ज्ञेयं सुखसौभाग्यदायकम्
अन्नवृद्धिं प्रजावृद्धिं भूलाभं दिशतिभृशम् ॥४२॥
वामन लक्षणं
मध्यचक्रमतिह्रस्व मतिस्निग्धंतु कांस्यवत्
स्पष्टचक्रंवामनं स्यात् सृणामीप्सितकामदम् ॥४३॥
बालवामन लक्षणं
अतसी कुसुमप्रख्यं किंचिदुन्नतमस्तकम्
किंचिद स्पष्टचक्रं च कामदं बालवामनम् ॥४४॥
बृहत्कवामनः
वर्तुलं नीलमेखाभं वनमाल विभूषितम्
सूक्ष्मरंध्रं बृहत्कुक्षिंवामनंचक्रयुक्शुभं ॥४५॥
परशुराम लक्षणं
पीतकृष्णारुणोपेतो दीर्घाकारोबृहद्बिलः
भित्तभागगतं चक्रं वामेवा दक्षिणेपिवा ॥४६॥
चक्रभागे भवेद्बिंदु परश्वाकृतिरेववा
पृष्ठॆवा पार्श्वतोवापि रेखादंष्ट्राकृतिर्भवेत् ॥४७॥
(जामदग्नि सविज्ञेयो)जामदग्निस्तु तन्मूर्तिःपूज्यस्याभूभृतामपि
शांतपरशुरामः
केवलं लांछितं वृष्ठॆ परश्वाकृति रेखया ॥४८॥
सचक्रो जामदग्निस्तु शांताख्यो शांतिदोर्चिते
विररामः
बाणतूणीर चापाद्याः कुंडलसृक्सृवान्वितः ॥४९॥
सूक्ष्मकेसर चक्राढ्यो वीरराम श्श्रियासह
सीतारामः
वदने प्येकवदन श्च तु श्चक्रां बरः प्रभुः ॥५०॥
चापबाणां कुशच्छत्र ध्वजचामर संयुतः
वनमाला धरोदेव स्सितारामः प्रकीर्तितः ॥५१॥
षट्चक्रसीतारामः
अस्त्रक्षतेन धनुषानूपुरेण चवांछितः
बिलत्रय समायुक्त ष्षट्चुदर्शन संयुतः ॥५२॥
श्यामलोन्नतपृष्ठ श्च स्थूलजंबूफलं यथा
सीताबिलसमायुक्तो दीर्घजं बूशिलोपमः ॥५३॥
सीतारामस्सविज्ञेय स्तारकब्रह्म संज्ञिकः
स एवमष्टचक्रस्तु त्रिलोकेषुच दुर्लभः ॥५४॥
दशकंठकुलांतक रामः
सचक्रःकुक्कुटाकार श्श्यामलः वृष्ठमुन्नतः
रेखाद्वय समायुक्तो द्वारपार्श्वेतु पद्मज ॥५५॥
थनुराकृति रेखाचदृश्यते पार्श्वतोधवा
पृष्ठतो वाभवेद्रामो दशकंठांतकश्शुभः ॥५६॥
बालरामः
पृष्ठभागे पंचरेखाः चापबाणौच पार्श्वयोः
बालरामोद्वि चक्राढ्यः पुत्रदायीन संशयः ॥५७॥
विजय रामः
दिव्यबाणेन संयुक्तो चापतूणीर संयुतः
कराळदनोरक्त बिंदुयुक्चक्रशोभितः ॥५८॥
श्रीदोवियरामाख्यो केशलीकृत चक्रिणः
हृष्टरामः
मूर्थ्नि मालाधनुर्बाणः पार्श्वेखुरयुतस्तधा ॥५९॥
हृष्ठरामोद्वि चक्राढ्यो भुक्तिमुक्ति फलप्रदः
कोदंडरामः
बाणतूणीर चापाढ्यो वर्तुलः किंचिदायतः ॥६०
कोदंडरामश्च क्राढ्यो नीलांबुदनिभश्शुभः
कवित्वराम
एकचक्रं तु वदने श्यामवर्ण न्सुशोभनः ॥६१॥
साराममूर्ती विज्ञेयः पूजकस्य कवित्वदा
यदुवीरकृष्ण
कृष्णोतिकृष्णोनस्थूलः चक्रश्चातीव शोभनः ॥६२॥
यदुवीर इतिख्यात श्श्रीयशः पुष्टिदोनृणाम्
श्रीकृष्णः
कृष्णः पीतः कृशतनुः भित्तिपार्श्वेतु चक्रयुत् ॥६३॥
द्वारतुल्यो भवेन्नाभिः कूर्माकारस्तु पृष्ठतः
पार्श्व(पार्शचक्रयुतोकृष्णः धर्मदऋ पापनाशकृत्)चक्राढ्य कृष्णोयं धर्मदः पापनाशनः ॥६४॥
गोवाकृष्ण लक्षणं
(वनमालिकाचक्रयुतः श्रीवत्सेव च लांछितः) वनमालायुतश्चक्र युतश्श्रीवत्सलांछनः
दंडशृंगयुतः पार्श्वे वेणुनाशोभितेमुखे ॥६५॥
गोपालकृष्णमूर्तिस्यात् गोभूधान्यधनप्रदः
मदनगोपाल लक्षणं
शिरश्चक्रद्वयेवेणुदंड श्श्रीवत्सलांछनः ॥६६॥
मालायुक्तः पार्श्वभागे तरुयुग्मश्चकल्पकम्
सस्यान्मदनगोपाल कृष्णः कुंडलशोभितः ॥६७॥
पुत्रपौत्रधनैश्वर्य सर्वलोकैकपश्यदः
संतानगोपाल मुर्ति लक्षणं
दीर्घाकारः कृष्णवर्णोप्यर्थचंद्रास्यचक्रयुत् ॥६८॥
कृष्णस्संतानगोपालः पुत्रपौत्राभिवृद्धिदः
बालकृष्णः
उन्नतोमुर्ध्नि कॆष्णाभोनिम्नोधस्त्रात्त्रिबिंदुकः ॥६९॥
सबालकृष्णॊद्वे चक्रेदीर्घास्योपुत्रभाग्यदः
श्रीकृष्णः
समचक्रं द्वारदेशे कृष्णवर्णस्सुशोभनः ॥७०॥
सा कृष्णमूर्ती विज्ञेया पूजितासौख्यदायनी
बुद्धमूर्ति लक्षणं
अंतर्गंह्वरसंयुक्ता चक्रहीनायथाभवेत् ॥७१॥
बुद्धमूर्ति रितिख्याता ददातिपरमं पदम्
कलिकिमूर्ति लक्षणं
अतिरक्त स्सूक्ष्मबिलःसृष्ठचक्रः स्थिरासनः ॥७२॥
कृपाणाकृतिरेखाच द्वारस्योपरिपृष्ठकॆ
म्लेच्छनाशोभवेत्कल्की सर्वकिल्बिषनाशनः ॥७३॥
मत्समूर्तिः
दीर्घाकारः श्यामवर्णः वनमालाविभूषितः
अर्चने सर्वसंसिद्धिः पुत्रपौत्रप्रवर्थनम् ॥७४॥
केशवमूर्ति लक्षणं
रेखात्रयं द्वादेशे पृष्ठॆपद्मस्यलाभनं.
सौभाग्यः केशवोदद्याच्च तुष्कोणद्दिचक्रयुत्. ॥७५॥
श्यामनारायण लक्षणं
श्यामवर्णयुतो वक्त्रेनाभिचक्रस्तधोन्नतः ॥७६॥
दीर्घरेखात्रयोपेतो दक्षिणे सुषिरं पृथक्
श्यामनारायणः प्रोक्तो भुक्तिमुक्ति फलप्रदः ॥७७॥
लक्ष्मीनारायणः
एकवक्त्रश्चतुश्चक्रो वर्तुलश्यामवर्णकः
ध्वजवज्रां कुशोपेतो मालायुक्त स्सबिंदुकः ॥७८॥
नातिह्रस्वोनाति दीर्घः लक्ष्मिनारायणन्मृतः
तन्यदर्शनमात्रेण चाभीष्ट फलमाप्नुयात् ॥७९॥
सूधवमूर्ति लक्षणं
मथुवर्णो मध्यचक्रस्निग्धश्चक्र धरस्तथा
माधवस्सतु विज्ञेयो यतीनां मोक्षदायकः ॥८०॥
गोविंदमूर्तिः
नातिस्थूलः पंचवक्त्रो गोविंदोदशचक्रकः
कृष्णवर्णसमायुक्तो सर्वकामफलप्रदः ॥८१॥
विष्णुमूर्ति लक्षणं
वामचक्रो बृहद्द्वार मुन्नतोमध्य निम्नः
सकापिलस्स्निग्धवर्णोविष्णुस्सर्पभलप्रदः ॥८२॥
मधुसूदन लक्षणं
मधुसूदन नामास्या देकचक्रो महाद्युतिः
सर्ववर्ण समायुक्तो महातेयप्रदश्शुभः ॥८३॥
त्रिविक्रमः
चक्रद्वययुतो वक्त्रो एकचक्रंतु पार्श्वतः
त्रिविक्रमस्त्रिकोणाढ्यो विप्रैः पूज्यस्तु नेतरैः ॥८४॥
श्रीधरः
मालवत्च्रिधरोदेवः चिह्नितो वनमालाया
कदंबकुसुमाकारो रेखापंचकसंयुतः ॥८५॥
चक्रद्वयश्च वदने सर्वकामफलप्रदः
हृषीकेशः
अर्थचंद्राकृतिर्देवो हृषीकेश उदाहृतः ॥८६॥
बिलेचक्रयुतो देव स्सर्वाभीष्टप्रदायकः
पद्मनाभः
निष्केसरं तूर्थ्वचक्रे मध्यचक्रं स केसरम् ॥८७॥
पद्मनाभस्सविज्ञेय स्सर्वकामफलप्रदः
दामोदरः
दामोदरस्तथास्थूलो मध्यचक्रः प्रकीर्तितः ॥८८॥
दूर्वाभोद्वार संकीर्णं पीतरेखायुतश्शुभः
संकर्षणमूर्ति लक्षणं
द्विचक्र एकसंलग्न एकभागश्च पुष्करः ॥८९॥
संकर्षणस्सविज्ञोयो रक्ताभश्शोभनप्रदः
वासुदेवमूर्तिः
(समचक्रौद्वात देशे)द्वारद्वेशे समेचक्रे दृश्येते चातिशोभने ॥९०॥
वासुदेवस्सविज्ञेयो शुक्लाभश्च शुभप्रदः
प्रद्युम्नः
मकराभमुखे रेखा पार्श्वतः पृष्ठतोपिवा ॥९१॥
नप्रद्युम्न स्सूक्ष्मचक्रः पीतवर्णश्शुभप्रदः
अनिरुद्द
कृष्णवर्णस्समद्वारे चक्रभित्तिसमीपगम् ॥९२॥
अल्पचक्रं भवेदूर्थ्वं पार्श्वेचणक पुष्पवत्
अनिरुद्ध इतिख्यात स्सर्वलोकसुखावहः ॥९३॥
पुरुषोत्तममूर्ति लक्षणं
मथ्यचक्रश्श्यामवर्णो मस्तकेपृथुचक्रकः
पुरुषोत्तमनामासौपूजकस्य सुशोभनः ॥९४॥
अधोक्षजः
अधोक्षजोरक्तरेखा वृत्तदेहस्तुचक्रवान्
किंचित्कपिलसंयुक्तो सूक्ष्मोवास्थूलएववा ॥९५॥
अधोक्षजोबिलयुतः पूजकस्य शुभप्रदः
अच्युतमूर्तिः
चतुर्भुजोचाष्टचक्रैर्वाम दक्षिण (पार्श्वतः)पार्श्यकैः ॥९६॥
अधिष्ठितो मुखेप्येक चक्रः कुंडिलशोभितः
शंखनंदकपद्मादिशार्ङकोमोदकी धरः ॥९७॥
मुसलध्वज धृक्छ्वेत च्छत्रमभ्रांकुशैर्वृतः
सोच्युतः कधितो नाम्ना दुर्लभस्तस्यदर्शनम् ॥९८॥
जनार्धनः
पूर्वभागैकवदनः पस्चात्रेखा (समन्वितता)स्यसंयुता
जनार्दनश्च क्रधरः स्त्रीप्रदोअरिनाशनः ॥९९॥
उपेंद्रोमणिवर्णाभो ह्रस्व चक्रातिकोमलः
मायायुतस्सूक्ष्मबिलस्सर्वसौख्यप्रदायकः ॥१००॥
श्यामलाकोमकभस्तु सचपार्श्वेतु चक्रयुत्
अल्बदासमायुक्तः हरिरिष्टप्रदायकः ॥१०१॥
हायग्रीव
हयग्रीवो पि ऩगनान्‌ रक्तपीतवि मिश्रितः
अनकुशाकृति गोवक्त्रे चक्रद्वय समन्वितः ॥१०२॥
बद्माकृतिस्तथा पार्श्वे कुंडलाकृति रेववा
ज्ञानदोमोक्षदो लोके भोगदोवापि पद्मज ॥१०३॥
अष्टभुज नृसिंहाः
चतुश्चक्रोष्ट चक्रश्च दीर्घास्योयोन्नताकृतिः
सोष्टबाहुनृसिंहस्या द्यतिभिः पूजनीयकः ॥१०४॥
दिव्यवासुदेवमूर्ति
षड्बिलोद्वादशश्चक्रः वनमालाविभूषितः
वासुदेवोति दिव्योय मितिशास्त्रेषु निश्चितः ॥१०५॥
सुदर्शन नारसिंहः
आष्टवक्त्रॊन्नत वपुः विवृतास्यो भयप्रदः
षोडशैश्च क्रराजाभिसंयुतो शतृमारकः ॥१०६॥
सुदर्शन नृसिंहोयं गृहार्बायां विसर्जयेत्
सालग्राम पूजाविधिः
इत्येवं लक्षणान्सर्वान्‌ परीक्ष्यार्चनमाचरेत् ॥१०७॥
सालग्रामशिलानां तु भक्ति युक्तेन चेतसा
देवालयेषु नर्वेक्षु तत्तन्मूर्त्यनुकूलिनम् ॥१०८॥
सालग्रामशिलां तीर्थबेरार्थं परिकल्बयेत्
सालग्रामाभिषेकं र्रानिषिद्धः
नकदाविहितं रात्रौ सालग्रामाभिषेचनम् ॥१०९॥
शंखेविन्यस्ययो भक्त्यापूजते तुलसीदळैः
[अधिकपाठानि
पतदारभ्य अध्यायांतमधिपाठयेव]
सालग्राम पूजावितीर्थफलविशेषः
सालग्रामंतु सस्सर्व कामानाप्नोति निश्चयः ॥११०॥
सालग्रामाभिषिक्तं यत्तोयं पि बतिमानवः
तस्य सर्वाणि पापानि नस्यंत्त्येव नसंशयः ॥१११॥
इतिसंक्षेवतः प्रोक्तौ सालग्रामस्य लक्षणम्
यस्यश्रवणमात्रेण धूतपापोनरोभवेत् ॥११२॥
इति श्रीपांचरात्रे महोपनिषदि श्रीपुरुषोत्तम संहितायां
सालग्रामलक्षणं नाम अष्टविंशोध्यायः
श्रीश्रीश्री

N/A

References : N/A
Last Updated : January 21, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP