संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|सृष्टिखण्डः|
अध्यायः ८

सृष्टिखण्डः - अध्यायः ८

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्यी पुराणास पद्म पुराण म्हणतात.


भीष्म उवाच
बहुभिर्द्धरणी भुक्ता भूपालैः श्रूयते पुरा
पार्थिवाः पृथिवीयोगात्पृथिवी कस्य योगतः ॥१॥
किमर्थं च कृता संज्ञा भूमेस्सा पारिभाषिकी
गौरितीयं च संज्ञा वा भुवः कस्माद्ब्रवीहि मे ॥२॥
पुलस्त्य उवाच
पुरा कृतयुगस्यासीदंगो नाम प्रजापतिः
मृत्योस्तु दुहिता तेन परिणीतातिदुर्मुखी ॥३॥
सुनीथा नाम तस्यास्तु वेनो नाम सुतः पुरा
अधर्मनिरतः कामी बलवान्वसुधाधिपः ॥४॥
लोकस्याधर्मकृच्चापि परभार्यापहारकः
अथ तस्य प्रसिद्यर्थं जगदर्थं महर्षिभिः ॥५॥
अनुनीतोपि न ददावशुद्धात्माऽभयं ततः
शापेन मारयित्वैनमराजकभयार्दिताः ॥६॥
ममंथुर्ब्राह्मणास्तस्य बलाद्देहमकल्मषाः
तत्कायान्मथ्यमानात्तु जनिता म्लेच्छजातयः ॥७॥
शरीरे मातुरंशेन कृष्णांजनसमप्रभाः
पितुरंशस्य संगेन धार्मिको धर्मकारकः ॥८
उत्पन्नो दक्षिणाद्धस्तात्सधनुः सशरो गदी
दिव्यतेजोमयः पुत्रस्सरत्नकवचांगदः ॥९॥
पृथुरेवाभवन्नाम्ना स च विष्णुरजायत
स विप्रैरभिषिक्तः संस्तपः कृत्वा सुदुष्करं ॥१०॥
विष्णोर्वरेण सर्वस्य प्रभुत्वमगमत्प्रभुः
निःस्वाध्यायवषट्कारं निर्द्धर्मं वीक्ष्य भूतलं ॥११॥
वेद्धुमेवोद्यतः कोपाच्छरेणामितविक्रमः
ततो गोरूपमास्थाय भूः पलायितुमुद्यता ॥१२॥
पृष्ठे त्वन्वगमत्तस्याः पृथुः सेषुशरासनः
ततः स्थित्वैकदेशे तु किं करोमीति चाब्रवीत् ॥१३॥
पृथुरप्यवदद्वाक्यमीप्सितं देहि सुव्रते
सर्वस्य जगतः शीघ्रं स्थावरस्य चरस्य च ॥१४॥
तथेति चाब्रवीद्भूमिर्दुदोह स नराधिपः
स्वके पाणौ पृथुर्वत्सं कृत्वा स्वायंभुवं मनुं ॥१५॥
तदन्नमभवद्दुग्धं प्रजा जीवंति येन तु
ततस्तु ऋषिभिर्दुग्धा वत्सः सोमस्तदाभवत् ॥१६॥
दोग्धा वाचस्पतिरभूत्पात्रं वेदस्तपो रसः
देवैश्च वसुधा दुग्धा मरुद्दोग्धा तदाभवत् ॥१७॥
इन्द्रो वत्सः समभवत्क्षीरमूर्ज्जस्वलं बलं
देवानां कांचनं पात्रं पितृणां राजतं तथा ॥१८॥
अंतकश्चाभवद्दोग्धा यमो वत्सः स्वधा रसः
बिलं च पात्रं नागानां तक्षको वत्सकोभवत् ॥१९॥
विषं क्षीरं ततो दोग्धा धृतराष्ट्रोभवत्पुनः
असुरैरपि दुग्धेयं आयसे शत्रुपीडनम् ॥२०॥
पात्रे मायामभूद्वत्सःप्राल्हादिस्तुविरोचनः
दोग्धा त्रिमूर्द्धा तत्रासीन्माया येन प्रवर्तिता ॥२१॥
यक्षैश्च वसुधा दुग्धा पुरांतर्द्धानमीप्सुभिः
कृत्वा विश्वावसुं वत्सं मणिमंतं महीपते ॥२२॥
प्रेतरक्षोगणैर्दुग्धा वसा रुधिरमुल्बणं
रौप्यनाभोभवद्दोग्धा सुमाली वत्स एव च ॥२३॥
गंधर्वैश्च पुनर्दुग्धा वसुधा साप्सरोगणैः
वत्सं चित्ररथं कृत्वा गंधान्पद्मदले तथा ॥२४॥
दोग्धावसुरुचिर्नामाथर्ववेदस्य पारगः
गिरिभिर्वसुधा दुग्धा रत्नानि विविधानि च ॥२५॥
औषधानि च दिव्यानि दोग्धा मेरुर्महीधरः
वत्सोभूद्धिमवांस्तत्र पात्रं शैलमयं पुनः ॥२६॥
वृक्षैश्च वसुधा दुग्धा क्षीरं छिन्नप्ररोहणं
पालाशपात्रे दोग्धा तु सालः पुष्पवनाकुलः ॥२७॥
प्लक्षोभवत्ततो वत्सः सर्ववृक्षवनाधिपः
एवमन्यैश्च वसुधा तथा दुग्धा यथेच्छतः ॥२८॥
आयुर्द्धनानि सौख्यं च पृथौ राज्यं प्रशासति
न दारिद्र्यं तथा रोगी नाधनोनचपापकृत् ॥२९॥
नोपसर्गा न चाघातः पृथौ राज्यं प्रशासति
नित्यंप्रमुदितालोका दुःखशोकविवर्जिताः ॥३०॥
धनुः कोट्या च शैलेंद्रानुत्सार्य स महाबलः
भूमंडलं समं चक्रे लोकानां हितकाम्यया ॥३१॥
न पुरग्रामदुर्गाणि न चायुधधरा नराः
म्रियंते यत्र दुःखं च नार्थशास्त्रस्य चादरः ॥३२॥
धर्मैकतानाः पुरुषाः पृथौ राज्यं प्रशासति
कथितानि च पात्राणि यत्क्षीरं च यथा तव ॥३३॥
येषां येन रुचिस्तत्र तेभ्यो दत्तं विजानता
यज्ञश्रीदेषु सर्वेषु मया तुभ्यं निवेदितं ॥३४॥
दुहितृत्वं गता यस्मात्पृथोः पृथ्वी महामते
तस्यानुसारयोगाच्च पृथिवी विश्रुता बुधैः ॥३५॥
भीष्म उवाच
आदित्यवंशमखिलं वद ब्रह्मन्यथाक्रमं
सोमवंशं च तत्त्वज्ञ यथावद्वक्तुमर्हसि ॥३६॥
पुलस्त्य उवाच
विवस्वान्कश्यपात्पूर्वमदित्यामभवत्पुरा
तस्य पत्नीत्रयं तद्वत्संज्ञा राज्ञी प्रभा तथा ॥३७॥
रैवतस्य सुता राज्ञी रेवतं सुषुवे सुतं
प्रभा प्रभातं सुषुवे त्वाष्ट्रं संज्ञा तथा मनुं ॥३८॥
यमश्च यमुना चैव यमलौ च बभूवतुः
ततस्तेजोमयं रूपमसहंती विवस्वतः ॥३९॥
नारीमुत्पादयामास स्वशरीरादनिंदितां
त्वाष्ट्री स्वरूपरूपेण नाम्ना छायेति भामिनी ॥४०॥
किंकरोमीति पुरतः संस्थितां तामभाषत
छाये त्वं भज भर्तारं मदीयं तं वरानने ॥४१॥
अपत्यानि मदीयानि मातृस्नेहेन पालय
तथेत्युक्त्वा च सा देवमगात्कामाय सुव्रता ॥४२॥
कामयामास देवोपि संज्ञेयमिति चादरात्
जनयामास सावर्णिं मनुं मनुस्वरूपिणम् ॥४३॥
सवर्णत्वाच्च सावर्णेर्मनोर्वैवस्वतस्य तु
ततः सुतां च तपतीं त्वाष्ट्रीं चैव क्रमेण तु ॥४४॥
छायायां जनयामास संज्ञेयमिति भास्करः
छाया स्वपुत्रे त्वधिकं स्नेहं चक्रे मनौ तदा ॥४५॥
न चक्षमे मनुः पूर्वस्तद्यमः क्रोधमूर्छितः
संतर्जयामास तदा पादमुत्क्षिप्य दक्षिणं ॥४६॥
शशाप च यमं छाया भवतु क्रिमिसंयुतः
पादोयमेको भविता पूयशोणितविस्रवः ॥४७॥
निवेदयामास पितुर्यमः शापेन धर्षितः
निःकारणमहं शप्तो मात्रा देव सकोपया ॥४८॥
बालभावान्मया किंचिदुद्यतश्चरणः सकृत्
मनुना वार्यमाणापि मम शापमदाद्विभो ॥४९
प्रायो न माता सास्माकमसमा स्नेहतो यतः
देवोप्याह यमं भूयः किं करोमि महामते ॥५०॥
सौख्यात्कस्य न दुःखं स्यादथवा कर्मसंततिः
अनिवार्या भवस्यापि का कथान्येषु जंतुषु ॥५१॥
कृकवाकुस्तव पदे स क्रिमिं भक्षयिष्यति
खंजं च रुचिरं चैव पादमेतद्भविष्यति ॥५२॥
एवमुक्तः समाश्वस्तस्तपस्तीव्रं चकार ह
वैराग्यात्पुष्करे तीर्थे फलफेनानिलाशनः ॥५३॥
पितामहं समाराध्य यावद्वर्षायुतं पुनः
तपःप्रभावाद्देवेशः संतुष्टः पद्मसंभवः ॥५४॥
वव्रे स लोकपालत्वं पितृलोकं तथाक्षयं
धर्माधर्मात्मकस्यास्य जगतस्तु परीक्षणम् ॥५५॥
एवं स लोकपालत्वमगमत्पद्मसंभवात्
पितॄणामाधिपत्यं च धर्माधर्मस्य चानघ ॥५६॥
विवस्वानथ तज्ज्ञात्वा संज्ञायाः कर्मचेष्टितं
त्वष्टुः समीपमगमदाचचक्षे सरोषवान् ॥५७॥
तमुवाच ततस्त्वष्टा सांत्वपूर्वमिदं वचः
तवासहंती भगवंस्तेजस्तीव्रं तमोनुद ॥५८॥
बडवारूपमास्थाय मत्सकाशमिहागता
निवारिता मया सा च त्वद्भयेन दिवस्पते ॥५९॥
यस्मादविज्ञातमना मत्सकाशमिहागता
तस्मान्मदीयं भवनं प्रवेष्टुं न तवार्हति ॥६०॥
एवमुक्ता जगामाशु मरुदेशमनिंदिता
बडवारूपमास्थाय भूतले संप्रतिष्ठिता ॥६१॥
तस्मात्प्रसादं कुरु मे यद्यनुग्रहभागहम्
अपनेष्यामि ते तेजः कृत्वा यंत्रे दिवाकरम् ॥६२
रूपं तव करिष्यामि लोकानंदकरं प्रभो
तथेत्युक्तः स रविणा भ्रमे कृत्वा दिवाकरं ॥६३॥
पृथक्चकार तेजश्च चक्रं विष्णोः प्रकल्पयत्
त्रिशूलं चापि रुद्रस्य वज्रमिंद्रस्य चापरं ॥६४॥
दैत्यदानवसंहर्तृ सहस्रकिरणात्मकं
रूपं चाप्रतिमं चक्रे त्वष्टा पद्भ्यामृते महत् ॥६५॥
न शशाक च तद्द्रष्टुं पादरूपं रवेः पुनः
अद्यापि च ततः पादौ न कश्चित्कारयेत्क्वचित् ॥६६॥
यः करोति स पापिष्ठो गतिमाप्नोति निंदितां
कुष्ठरोगमवाप्नोति लोकेस्मिन्दुःखसंज्ञितं ॥६७॥
तस्मान्न धर्मकामार्थी चित्रेष्वायतनेषु च
न क्वचित्कारयेत्पादौ देवदेवस्य धीमतः ॥६८॥
ततः स भगवान्गत्वा भूर्लोकममराधिपः
कामयामास कामार्तो मुख एव दिवाकरः ॥६९॥
अश्वरूपेण महता तेजसा च समन्वितः
संज्ञा च मनसा क्षोभमगमद्भयविह्वला ॥७०॥
नासापुटाभ्यामुत्सृष्टं परोयमिति शंकया
तस्याथ रेतसो जातावश्विनाविति नः श्रुतम् ॥७१॥
दस्रौ श्रुतित्वात्संजातौ नासत्यौ नासिकाग्रतः
ज्ञात्वा चिराच्च तं देवं संतोषमगमत्परं ॥७२॥
विमानेनागमत्स्वर्गे पत्न्या सह मुदान्वितः
सावर्ण्योपि मनुर्मेरावद्यापि तपते तपः ॥७३॥
शनिस्तपोबलाच्चापि ग्रहाणां समतां गतः
यमुना तपती चैव पुनर्नद्यौ बभूवतुः ॥७४॥
विष्ठिर्घोरात्मिका तद्वत्कालत्वेन व्यवस्थिता
मनोर्वैवस्वतस्यापि दश पुत्रा महाबलाः ॥७५॥
इलस्तु प्रथमस्तेषां पुत्रेष्ट्या समकल्पि यः
इक्ष्वाकुः कुशनाभश्च अरिष्टो धृष्ट एव च ॥७६॥
नरिष्यंतः करूषश्च शर्यातिश्च महाबलः
पृषध्रश्चाथ नाभागः सर्वे ते दिव्यमानुषाः ॥७७॥
अभिषिच्य मनुः पूर्वमिलं पुत्रं स धार्मिकम्
जगाम तपसे भूयः पुष्करं स तपोवनं ॥७८॥
अथाजगाम सिध्यर्थं तस्य ब्रह्मा वरप्रदः
वरं वरय भद्रं ते मानवेय यथेप्सितं ॥७९॥
उवाच स तदा देवं पद्माक्षं पद्मजं विभुं
वंशे मे धर्मसंयुक्ताः पृथिव्यां सर्वपार्थिवाः ॥८०॥
भवेयुरीश्वराः स्वामिन्प्रसादात्तव कंजज
तथेत्युक्त्वा तु देवेशस्तत्रैवांतरधीयत ॥८१॥
ततोयोध्यां समागत्य समतिष्ठद्यथा पुरा
अथैकदा रथारूढ इलो निज सुतो मनोः ॥८२॥
निर्जगामार्थसिध्यर्थमिनप्रायां महीमिमां
भ्रमन्द्वीपानि सर्वाणि क्ष्माभृतः संप्रसाधयन् ॥८३॥
जगामोपवनं शंभोरथाकृष्टः प्रतापवान्
कल्पद्रुमलताकीर्णं नाम्ना शरवणं महत् ॥८४॥
रमते यत्र देवेशः सोमः सोमार्द्धशेखरः
उमया समयस्तत्र पुरा शरवणे कृतः ॥८५॥
पुंनामसंज्ञं यत्किंचिदागमिष्यति नो वनं
स्त्रीत्वमेष्यति तत्सर्वं दशयोजनमंडले ॥८६॥
अज्ञातसमयो राजा इलः शरवणं गतः
स्त्रीत्वं जगाम सहसा बडवाश्वोऽभवत्क्षणात् ॥८७॥
पुरुषत्वे कृतं सर्वं स्त्रीकाये विस्मृतं ततः
इलेति साभवन्नारी पीनोन्नतघनस्तनी ॥८८॥
उन्नतश्रोणिजघना पद्मपत्रायतेक्षणा
पूर्णेन्दुवदना तन्वी विलासिन्यसितेक्षणा ॥८९॥
पीनोन्नतायतभुजा नीलकुंचितमूर्द्धजा
तनुलोमा सुवदना मृदुगद्गदभाषिणी ॥९०॥
श्यामागौरेण वर्णेन तनुताम्रनखांकुरा
कार्मुकभ्रूयुगोपेता हंसावरणगामिनी ॥९१॥
भ्रममाणा वने तस्मिन्चिंतयामास भामिनी
को मे पिता वा भ्राता वा को मे त्राता भवेदिह ॥९२॥
कस्य भर्त्तुरहं दत्ता कियद्वर्षास्मि भूतले
चिंतयंती च ददृशे सोमपुत्रेण साङ्गना ॥९३॥
इलारूप समाक्षिप्त मनसा वरवर्णिनी
बुधस्तदाप्तये यत्नमकरोत्कामपीडितः ॥९४॥
विशिष्टाकारवान्मुंडी स कमंडलुपुस्तकः
वेणुदंडकृतावेशः पवित्रक खनित्रकः ॥९५॥
द्विजरूपः शिखी ब्रह्म निगदन्कर्णकुंडली
वटुभिश्चार्थिभिर्युक्तः समित्पुष्पकुशोदकैः ॥९६॥
कालेन्विष्यां ततस्तस्मिन्नाजुहाव स तामिलाम्
बहिर्वनस्यांतरितः किल पादपमंडपे ॥९७॥
ससंभ्रममकस्माच्च सोपालंभमिवाभवत्
त्यक्त्वाग्निहोत्रशुश्रूषां क्व गता मंदिरान्मम ॥९८॥
इयं विहारवेला ते अतिक्रामति सांप्रतम्
एह्येहि पृथुसुश्रोणि संभ्रांता केन हेतुना ॥९९॥
इयं सायंतनी वेला विहारस्येह वर्त्तते
कृत्वोपलेपनं पुष्पैरलंकुरु गृहं मम ॥१००॥
साब्रवीद्विस्मृताहं च सर्वमेव तपोधन
आत्मानं त्वां च भर्त्तारं कुलं च वद मेनघ ॥१०१
बुधः प्रोवाच तां तन्वीमिला त्वं वरवर्णिनी
अहं च कामुको नाम बहुविद्यो बुधः स्मृतः ॥१०२॥
तेजस्विनः कुले जातः पिता मे ब्राह्मणाधिपः
इति सा तस्यवचनात्प्रविष्टा बुधमंदिरम् ॥१०३॥
रत्नस्तंभसमाकीर्णं दिव्यमायाविनिर्मितम्
इला कृतार्थमात्मानं मेने तद्भवने स्थिता ॥१०४॥
अहो वृत्तमहोरूपमहो धनमहोकुलम्
मम चास्य च भर्त्तुर्वा अहो लावण्यमुत्तमम् ॥१०५॥
रेमे च सा तेन सममतिकालमिला वने
सर्वभोगमये गेहे यथेंद्रभवने तथा ॥१०६॥
अथान्विष्यंतो राजानं भ्रातरस्तस्य मानवाः
इक्ष्वाकुप्रमुखा जग्मुस्तदा शरवणांतिकम् ॥१०७
ततस्ते ददृशुः सर्वे वडवामग्रतः स्थिताम्
रत्नपर्यंतकिरणदीप्यमानामनुत्तमाम् ॥१०८॥
संप्राप्य प्रत्यभिज्ञानात्सर्वे विस्मयमागताः
अयं चंद्रप्रभो नाम वाजी तस्य महात्मनः ॥१०९॥
अगमद्वडवारूपमुत्तमं केन हेतुना
ततस्तु मैत्रावरुणिं पप्रच्छुः स्वपुरोहितम् ॥११०॥
किमेतदित्यभूच्चित्रं वद योगविदां वर
वसिष्ठोप्यब्रवीत्सर्वं दृष्ट्वा तं ध्यानचक्षुषा ॥१११॥
समयः शंभुदयिता कृतः शरवणे पुरा
यः पुमान्प्रविशेच्चात्र स नारीत्वमवाप्स्यति ॥११२॥
अयमश्वोपि नारीत्वमगाद्राज्ञा सहैव तु
इलः पुरुषतामेति यथासौ धनदोपमः ॥११३॥
तथैव यत्नः कर्त्तव्य आराध्य च पिनाकिनम्
ततस्ते मानवा जग्मुर्यत्र देवो महेश्वरः ॥११४॥
तुष्टवुर्विविधैः स्तोत्रैः पार्वतीपरमेश्वरौ
तावूचतुरलं चैष समयः किं नु सांप्रतं ॥११५॥
इक्ष्वाकोरश्वमेधेन यत्फलं स्यात्तदावयोः
दत्वा किंपुरुषो वीरः स भविष्यत्यसंशयम् ॥११६॥
तथेत्युक्त्वा तु ते सर्वे जग्मुर्वैवस्वतात्मजाः
इष्ट्वाश्वमेधेन तत इला किंपुरुषोभवत् ॥११७॥
मासमेकं पुमान्वीरः स्त्रीत्वं मासमभूत्पुनः
बुधस्य भवने तिष्ठन्निलो गर्भधरोभवत् ॥११८॥
अजीजनत्पुत्रमेकमनेकगुणसंयुतम्
बुध उत्पाद्य तं पूरुं स स्वर्गमगमत्पुनः ॥११९॥
इलस्य नाम्ना तद्वर्षमिलावृतमभूत्तदा
सोमार्कवंशजो राजा इलोभूद्वंशवर्द्धनः ॥१२०॥
एवं पुरूरवाः पूरोरभवद्वंशवर्द्धनः
इक्ष्वाकुरर्कवंशस्य तथैवोक्तो नरेश्वरः ॥१२१॥
इलः किंपुरुषत्वे च सुद्युम्न इति चोच्यते
पुनः पुत्रत्रयमभूत्सुद्युम्नस्यापराजितम् ॥१२२॥
उत्कलोथ गयस्तद्वद्धरिताश्वश्च वीर्यवान्
उत्कलस्योत्कला नाम गयस्य तु गयापुरी ॥१२३॥
हरिताश्वस्य दिग्याम्या संज्ञाता कुरुभिः सह
प्रतिष्ठानेभिषिच्याथ स पुरूरवसं सुतम् ॥१२४॥
जगामेलावृतं भोक्तुं दिव्यं वर्षं फलाशनः
इक्ष्वाकुर्ज्येष्ठदायादो मध्यदेशमवाप्तवान् ॥१२५॥
नरिष्यंतस्य पुत्रोभूच्छुको नाम महाबलः
नाभागादंबरीषस्तु धृष्टस्य तु सुतत्रयम् ॥१२६॥
धृष्टकेतुः स्वधर्माथो रणधृष्टश्च वीर्यवान्
आनर्तो नाम शर्यातेः सुकन्या चैव दारिका ॥१२७॥
आनर्तस्याभवत्पुत्रो रोचमानः प्रतापवान्
आनर्तो नाम देशोभून्नगरी च कुशस्थली ॥१२८॥
रोचमानस्य रेवोभूद्रेवाद्रैवत एव च
ककुद्मी चापरं नाम ज्येष्ठः पुत्रशतस्य च ॥१२९॥
रेवती तस्य सा कन्या भार्या रामस्य विश्रुता
करूषाच्चैव कारूषा बहवः प्रथिता भुवि ॥१३०॥
पृषध्रो गोवधाच्छूद्रो गुरुशापादजायत
इक्ष्वाकुपुत्रा नाम्नाथ विकुक्षि निमिदंडकाः ॥१३१॥
श्रेष्ठाः पुत्रशतस्यासन्पंचाशच्चाथ तत्सुताः
मेरोरुत्तरतस्ते तु जाताः पार्थिवसत्तमाः ॥१३२॥
चत्वारिंशत्तथाष्टान्ये शतमध्ये च येभवन्
मेरोर्दक्षिणतश्चैव राजानस्ते प्रकीर्तिताः ॥१३३॥
ज्येष्ठात्ककुत्स्थनामाभूत्सुतस्तस्य सुयोधनः
तस्य पुत्रः पृथृर्नाम विश्वस्तस्य पृथोः सुतः ॥१३४॥
आर्द्रस्तस्य च पुत्रोभूद्युवनाश्वस्ततोभवत्
युवनाश्वस्य पुत्रोभूच्छावस्तो नाम वीर्यवान् ॥१३५॥
निर्मिता येन शावस्ती ह्यंगदेशे नराधिप
शावस्ताद्बृहदश्वो भूत्कुवलाश्वस्ततोभवत् ॥१३६॥
धुंधुमारत्वमगमद्धुंधुं हत्वाऽसुरं पुरा
तस्य पुत्रास्त्रयो जाता दृढाश्वो घृणिरेव च ॥१३७॥
कपिलाश्वश्च विख्यातो धौंधुमारिः प्रतापवान्
दृढाश्वस्य प्रमोदस्तु हर्यश्वस्तस्य चात्मजः ॥१३८॥
हर्यश्वस्य निकुंभोभूत्संहताश्वस्ततोभवत्
अकृताश्वो रणाश्वश्च संहताश्व सुतावुभौ ॥१३९॥
युवनाश्वो रणाश्वस्य मांधाता च ततोभवत्
मांधातुः पुरुकुत्सोभूद्धर्मसेतुश्च पार्थिवः ॥१४०॥
मुचुकुन्दश्च विख्यातश्शक्रमित्रः प्रतापवान्
पुरुकुत्सस्य पुत्रोभूद्दुस्सहो नर्मदापतिः ॥१४१॥
संभूतिस्तस्य पुत्रोभूत्त्रिधन्वा च ततोभवत्
त्रिधन्वनः सुतो जातस्त्रय्यारुण इति स्मृतः ॥१४२॥
तस्य सत्यव्रतो नाम तस्मात्सत्यरथः स्मृतः
तस्य पुत्रो हरिश्चन्द्रो हरिश्चंद्राच्च रोहितः ॥१४३॥
रोहताच्च वृको जातो वृकाद्बाहुरजायत
सगरस्तस्य पुत्रोभूद्राजा परमधार्मिकः ॥१४४॥
द्वे भार्ये सगरस्यापि प्रभा भानुमती तथा
ताभ्यामाराधितः पूर्वमौर्वाग्निः पुत्रकाम्यया ॥१४५॥
और्वस्तुष्टस्तयोः प्रादाद्यथेष्टं वरमुत्तमम्
एका षष्टिसहस्राणि सुतमेकं तथापरा ॥१४६॥
अगृह्णाद्वंशकर्तारं प्रभाऽगृह्णाद्बहून्सुतान्
एकं भानुमती पुत्रमगृह्णादसमंजसं ॥१४७॥
ततः षष्टिसहस्राणि सुषुवे यादवी प्रभा
खनंतः पृथिवीं दग्धा विष्णुना ये ऽश्वमार्गणे ॥१४८॥
असमंजस्तु तनयो ह्यंशुमान्नाम विश्रुतः
तस्य पुत्रो दिलीपस्तु दिलीपात्तु भगीरथः ॥१४९॥
येन भागीरथी गङ्गा तपः कृत्वावतारिता
भगीरथस्य तनयो नाभाग इति विश्रुतः ॥१५०॥
नाभागस्यांबरीषोभूत्सिंधुद्वीपस्ततोभवत्
तस्यायुतायुः पुत्रोभूदृतुपर्णस्ततोभवत् ॥१५१॥
तस्य कल्माषपादस्तु सर्वकर्मा ततः स्मृतः
तस्यानरण्यः पुत्रोभून्निघ्नस्तस्य सुतोभवत् ॥१५२॥
निघ्नपुत्रावुभौ जातावनमित्र रघूत्तमौ
अनमित्रो वनमगादरिनाशकृते नृप ॥१५३॥
रघोरभूद्दिलीपस्तु दिलीपाच्चाप्यजस्तथा
दीर्घबाहुरजाज्जातः प्रजापालस्ततोभवत् ॥१५४॥
ततो दशरथो जातस्तस्य पुत्रचतुष्टयं
नारायणात्मकाः सर्वे रामस्तस्याग्रजोभवत् ॥१५५॥
रावणांतकरस्तद्वद्रघूणां वंशवर्द्धनः
वाल्मीकिर्यस्य चरितं चक्रे भार्गवसत्तमः ॥१५६॥
तस्य पुत्रः कुशो नाम इक्ष्वाकुकुलवर्द्धनः
अतिथिस्तु कुशाज्जातो निषधस्तस्य चात्मजः ॥१५७॥
नलस्तु निषधाज्जातो नभास्तस्मादजायत
नभसः पुंडरीकोभूत्क्षेमधन्वा ततः परम् ॥१५८॥
तस्यपुत्रोभवद्वीरो देवानीकः प्रतापवान्
अहीनगुस्तस्य सुतः सहस्राश्वस्ततः परः ॥१५९॥
ततश्चंद्रावलोकस्तु तारापीडस्ततोभवत्
तस्यात्मजश्चन्द्रगिरिश्चंद्रस्तस्य सुतोभवत् ॥१६०॥
श्रुतायुरभवत्तस्माद्भारते यो निपातितः
नलौ द्वावेव विख्यातौ वंशे यस्य विशेषतः ॥१६१॥
वीरसेनसुतस्तद्वन्नैषधश्च नराधिपः
एते विवस्वतो वंशे राजानो भूरिदक्षिणाः ॥१६२॥
इक्ष्वाकुवंशप्रभवाः प्राधान्येन प्रकीर्तिताः ॥१६३॥

इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे आदित्यवंशकथनंनामाष्टमोध्यायः ॥८॥

N/A

References : N/A
Last Updated : October 25, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP