संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|पार्वतीखण्डः|
अध्यायः ५३

पार्वतीखण्डः - अध्यायः ५३

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ब्रह्मोवाच ॥
अथ विष्ण्वादयो देवा मुनयश्च तपोधनाः ॥
कृत्वावश्यककर्माणि यात्रां सन्तेनिरे गिरेः ॥१॥
ततो गिरिवरः स्नात्वा स्वेष्टं सम्पूज्य यत्नतः ॥
पौरबन्धून्समाहूय जनवासं ययौ मुदा ॥२॥
तत्र प्रभुम्प्रपूज्याथ चक्रे सम्प्रार्थनां मुदा ॥
कियद्दिनानि सन्तिष्ठ मद्गेहे सकलैस्सह ॥३॥
विलोकनेन ते शम्भो कृतार्थोहं न संशयः ॥
धन्यश्च यस्य मद्गेहे आयातोऽसि सुरैस्सह ॥४॥
ब्रह्मोवाच ॥
इत्युक्त्वा बहु शैलेशः करौ बद्ध्वा प्रणम्य च ॥
प्रभुन्निमन्त्रयामास सह विष्णुसुरादिभिः ॥५॥
अथ ते मनसा गत्वा शिव संयुतमादरात् ॥
प्रत्यूचुर्मुनयो देवा हृष्टा विष्णुसुरादिभिः ॥६॥
 ॥देवा ऊचुः ॥
धन्यस्त्वं गिरिशार्दूल तव कीर्तिर्महीयसी ॥
त्वत्समो न त्रिलोकेषु कोपि पुण्यतमो जनः ॥७॥
यस्य द्वारि महेशानः परब्रह्म सतां गतिः ॥
समागतस्सदासैश्च कृपया भक्तवत्सलः ॥८॥
जनावासोतिरम्यश्च सम्मानो विविधः कृतः ॥
भोजनानि त्वपूर्वाणि न वर्ण्यानि गिरीश्वर ॥९॥
चित्रन्न खलु तत्रास्ति यत्र देवी शिवाम्बिका ॥
परिपूर्णमशेषञ्च यवं धन्या यदागताः ॥१०॥
 ॥ब्रह्मोवाच ॥
इत्थम्परस्परन्तत्र प्रशंसाभवदुत्तमा ॥
उत्सवो विविधो जातो वेदसाधुजयध्वनिः ॥११॥
अभून्मङ्गलगानञ्च ननर्ताप्सरसांगणः ॥
नुतिञ्चक्रुर्मागधाद्या द्रव्यदानमभूद्बहु ॥१२॥
तत आमन्त्रय देवेशं स्वगेहमगमद्गिरिः ॥
भोजनोत्सवमारेभे नानाविधिविधानतः ॥१३॥
भोजनार्थं प्रभुम्प्रीत्यानयामास यथोचितम् ॥
परिवारसमेतं च सकुतूहलमीश्वरम् ॥१४॥
प्रक्षाल्य चरणौ शम्भोर्विष्णोर्मम वरादरात् ॥
सर्वेषाममराणाञ्च मुनीनाञ्च यथार्थतः ॥१५॥
परेषाञ्च गतानाञ्च गिरीशो मण्डपान्तरे ॥
आसयामास सुप्रीत्या तांस्तान्बन्धुभिरन्वितः ॥१६॥
सुरसैर्विविधान्नैश्च तर्पयामास तान्गिरिः ॥
बुभुजुर्निखिलास्ते वै शम्भुना विष्णुना मया ॥१७॥
तदानीम्पुरनार्यश्च गालीदानम्व्यधुर्मुदा ॥
मृदुवाण्या हसन्त्यश्च पश्यन्त्यो यत्नतश्च तान् ॥१८॥
ते भुक्त्वाचम्य विधिवद्गिरिमामन्त्र्य नारद ॥
स्वस्थानम्प्रययुस्सर्वे मुदितास्तृप्तिमागताः ॥१९॥
इत्थन्तृतीये घस्रेऽपि मानितास्तेऽभवन्मुने ॥
गिरीश्वरेण विधिवद्दानमानादरादिभिः ॥२०॥
चतुर्थे दिवसे प्राप्ते चतुर्थीकर्म शुद्धितः ॥
बभूव विधिवद्येन विना खण्डित एव सः ॥२१॥
उत्सवो विविधश्चासीत्साधुवादजयध्वनिः ॥
बहुदानं सुगानञ्च नर्त्तनम्विविधन्तथा ॥२२॥
पञ्चमे दिवसे प्राप्ते सर्वे देवा मुदान्विताः ॥
विज्ञप्तिञ्चक्रिरे शैलं यात्रार्थमतिप्रेमतः ॥२३॥
तदाकर्ण्य गिरीशश्चोवाच देवान् कृताञ्जलिः ॥
कियद्दिनानि तिष्ठन्तु कृपाङ्कुर्वन्तु मां सुराः ॥२४॥
इत्युक्त्वा स्नेहतस्ताँश्च प्रभुम्विष्णुञ्च माम्परान् ॥
वासयामास दिवसान् बहून्नित्यं समादरात् ॥२५॥
इत्थम्व्यतीयुर्दिवसा बहवो वसतां च तत् ॥
सप्तर्षीन्प्रेषयामासुर्गिरीशान्ते ततस्सुराः ॥२६॥
ते तं सम्बोधयामासुर्मेनाञ्च समयोचितम् ॥
शिवतत्त्वम्परम्प्रोचुः प्रशंसन्विधिवन्मुदा ॥२७॥
अङ्गीकृतं परेशेन तत्तद्बोधनतो मुने ॥
यात्रार्थमगमच्छम्भुश्शैलेशं सामरादिकः ॥२८॥
यात्राङ्कुर्वति देवेशे स्वशैलं सामरे शिवे ॥
उच्चै रुरोद सा मेना तमुवाच कृपानिधिम् ॥२९॥
मेनोवाच ॥
कृपानिधे कृपाङ्कृत्वा शिवां सम्पालयिष्यसि ॥
सहस्रदोषं पार्वत्या आशुतोषः क्षमिष्यसि ॥३०॥
त्वत्पादाम्बुजभक्ता च मद्वत्सा जन्मजन्मनि ॥
स्वप्ने ज्ञाने स्मृतिर्नास्ति महादेवं प्रभुम्बिना ॥३१॥
त्वद्भक्तिश्रुतिमात्रेण हर्षाश्रुपुलकान्विता ॥
त्वन्निन्दया भवेन्मौना मृत्युंजय मृता इव ॥३२॥
ब्रह्मोवाच ॥
इत्युक्त्वा मेनका तस्मै समर्प्य स्वसुतान्तदा ॥
अत्युच्चै रोदनङ्कृत्वा मूर्च्छामाप तयोः पुरः ॥३३॥
अथ मेनाम्बोधयित्वा तामामन्त्र्य गिरिस्तथा ॥
चकार यात्रान्देवैश्च महोत्सवपुरस्सरम् ॥३४॥
अथ ते निर्जरास्सर्वे प्रभुणा स्वगणैस्सह ॥
यात्राम्प्रचक्रिरे तूष्णीं गिरिम्प्रति शिवं दधुः ॥३५॥
हिमाचलपुरीबाह्योपवने हर्षितास्सुराः ॥
सेश्वरास्सोत्सवास्तस्थुः पर्यैषन्त शिवागमम् ॥३६॥
इत्युक्ता शिवसद्यात्रा देवैस्सह मुनीश्वर ॥
आकर्णय शिवयात्रां विरहोत्सवसंयुताम् ॥३७॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वती खण्डे शिवयात्रावर्णनं नाम त्रिपञ्चाशत्तमोऽध्यायः ॥५३॥

N/A

References : N/A
Last Updated : October 07, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP