संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
भीष्मपञ्चकव्रतं

अध्याय २०५ - भीष्मपञ्चकव्रतं

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
भीष्मपञ्चकमाख्यास्ये व्रतराजन्तु सर्वदं ॥१॥
कार्त्तिकस्यामले पक्षे एकादश्यां समचरेत् ॥१॥
दिनानि पञ्चत्रिःस्नाती पञ्चव्रीहितिलैस्तथा(१) ॥२॥
तर्पयेद्देवपित्रादीन्मौनी सम्पूजयेद्धरिं ॥२॥
पञ्चगव्येन संस्नाप्य देवं पञ्चामृतेन च ॥३॥
चन्दनाद्यैः समालिप्य गुग्गुलुं सघृतन्दहेत् ॥३॥
दीपं दद्याद्दिवारात्रौ नैवेद्यं परमान्नकं ॥४॥
ओं नमो वासुदेवाय जपेदष्टोत्तरं शतं ॥४॥
टिप्पणी
१ यवव्रीहितिलैस्तथेति घ.. , ङ.. , छ.. , ज.. च
जुहुयाच्च घृताभ्यक्तांस्तिलव्रीहींस्ततो व्रती ॥५॥
षडक्षरेण मन्त्रेण स्वाहाकारान्वितेन च ॥५॥
कमलैः पूजयेत्पादौ द्वितीये बिल्वपत्रकैः ॥६॥
जानु सक्थि तृतीयेऽथ नाभिं भृङ्गरजेन तु ॥६॥
वाणबिल्वजवाभिस्तु चतुर्थे पञ्चमेऽहनि ॥७॥
मालत्या भूमिशायी स्यादेकादश्यान्तु गोमयं ॥७॥
गोमूत्रं दधि दुग्धं च पञ्चमे पञ्चगव्यकं ॥८॥
पौर्णमास्याञ्चरेन्नक्तं भुक्तिं मुक्तिं लभेद्व्रती ॥८॥
भीष्मः कृत्वा हरिं प्राप्तस्तेनैव(१) भीष्मपञ्चकं ॥९॥
ब्राह्मणः पूजनाद्यैश्च उपवासादिकं व्रतं(२) ॥९॥

इत्याग्नेये महापुराणे भीष्मपञ्चकं नाम पञ्चाधिकद्विशततमोऽध्यायः ॥
टिप्पणी
१ हरिं लेभे तेनैतदिति ग.. । हरिं प्राप तेनैतदिति ङ.. । हरिं प्राप्तस्तेनैतदिति ज.. , ट.. च
२ पूजनात्पञ्च उपवासादजव्रतमिति ग.. , घ.. , ङ.. , ज.. , ञ.. , ड.. च

N/A

References : N/A
Last Updated : September 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP