श्री नरसिंहसरस्वती दत्तगुरूंची आरती - जयजय श्रीगुरुभूमन् नृसिंह...

आरती म्हणजे हिंदू उपासनेचा एक विधी.


जयजय श्रीगुरुभूमन् नृसिंहयतिधीश । पूर्ण ब्रह्म सनातन तारक जगदीश ॥धृ०॥
भूत्वांबासुतमाधवसुत ईशो दत्तगुरु: । वेदोवागष्टाब्दे भूत्वा लोकगुरु: ।
काशीं गत्वा संन्यासी कृष्णगुरु: । भूत्वा योजोनंतो वन्दे देवगुरु: ॥१॥
विद्वन्माधव एत्य च दत्वा संन्यासं । बहुशिष्यवर्गयुक्त: स्थापितसंन्यासं ।
मार्गं विशदीकृत्वा यात्रार्थं वासं । गोदातीरे शूली रोगं संन्यासं ॥२॥
सायंदेवं भीतं मृत्युभयत्राता । कृष्णातटभुवनेश्वरि द्विजसुत ईशाप्त: ।
सुविद्यजिव्हं कृता सभसंगम आप्त: । तं वन्दे भगवन्तं यो जनसकलाप्त: ॥३॥
अमरेश्वरयोगिनियुक् शंबाभिक्षान्नं । भुक्त्वा तृप्तो मूले संपत्संपन्नं ।
द्विजवरभक्तं कृत्वा त्रिस्थलीसंपन्नं । द्वादशमाब्दं स्थित्वाsगाद सुसंपन्नं ॥४॥
भीमामरजासंगम एत्य प्रभुदत्त: । नानालीला: कृत्वा यच्छ्रवणेsघान्त: ।
सद्वरराज: श्रीमठहृष्टतमस्वान्त: । स्नात्वा संगम एत्य च भुक्त्वा निजचित्त: ॥५॥
वंध्यामहिषीदोहनमृतसत्पतिदानं । वंध्यासुपुत्रदानं यतिवर्गाहरणं ।
द्विजकुष्ठरोगहरणं श्री शैलागमनं । सवेsष्टभक्तागमनं सस्यामितदानं ॥६॥
प्राग्दत्तप्रवरो यो यवनो नृपवेष: । तद्ग्राममेत्य सर्वान्म्ददधृतवेष: ।
सर्वान्म्दं कृत्वा पुष्पासनमीश: । सोंतरधाद्गंगायां भगवान् यतिवेष: ॥७॥
पौषे सिते द्वितीयाशनिवासरकाले । मध्यान्हे श्रीनरहरिनामाभूत्सुकुले ।
चन्द्रोsस्य मूर्घ्नि करपत्के गंगाकमले । चक्रं शंखं मालां कुंडीं डमरुशूले ॥८॥
माघे कृष्णे प्रतिपदि भृगुवासरसमये । श्रीशैले स्वेंsतरधात्सच्चित्सुखनिलये ।
त्र्यात्मा दत्तात्रेयो नृसिंहयतिहृदये । जागर्ति प्रभुरमरापुरि चारौ कमये ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP