प्रथम: पाद: - सूत्र १४-१६

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


स्मरन्ति च ॥१४॥

स्मरन्ति च ॥ अपि च मनुव्यासप्रभृतय: शिष्टा: संयमने पुरे यमायत्तं कपूयकर्मविपाकं स्मरन्ति नाचिकेतोपाख्यानादिषु ॥१४॥

अपि च सप्त ॥१५॥

अपि च सप्त ॥ अपि च सप्त नरका रौरवप्रमुखा दुष्कृतफलोपभोगभॄमित्वेन स्मर्यन्ते पौराणिकै: ।
ताननिष्टादिकारिण: प्राप्नुवन्ति ।
कुतस्ते चेन्द्रं प्राप्नुयुरित्यभिप्राय: ॥१५॥

तत्नापि च तद्वयापारादविरोध: ॥१६॥

नबु विरुद्धमिदं यमायत्ता यातना: पापकर्माणोऽनुभवन्तीति ।
यावता तेषु रौरवादिष्वन्ये चित्रगुप्तादयो नानधिष्ठातार: स्मर्यन्त इति ।
नेत्याह ।
तत्रापि च तद्वया पारादविरोध: ॥
तेष्वपि सप्तसु नरकेषु तस्यैव यमस्याधिष्ठातृत्वव्यापाराभ्युपगमादविरोध: ।
यमप्रगुक्ता एव हि ते चित्रगुप्तादयोऽधिष्ठातार: रमर्यन्ते ॥१६॥

N/A

References : N/A
Last Updated : December 19, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP