प्रतिवस्तूपमा अलंकारः - लक्षण २

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


लक्षण २
इत्यप्रस्तुतप्रशंसायामतिप्रसड्रादिति । मैवम्‍ । अप्रस्तुतप्रशंसायां वस्तुप्रतिवस्तुभावस्य भिन्नशब्दोपात्तैकप्रतिपाद्यरूपस्यासंभवात्‍ । एवं च वस्तुप्रतिवस्तुभावापन्नसाधारणधर्मकवाक्यार्थयोरार्थमौपम्यं प्रति-वस्तूपमा ॥
‘ आननं मृगशावाक्ष्या वीक्ष्य लोलालकावृतम्‍ । भ्रमद्‍भ्रमरसंभारं स्मरामि सरसीरुहम्‍ ॥’
इत्यत्र स्मरणालंकारेऽतिप्रसड्रवारणाय वाक्यार्थगतमिति । अत्रौपम्य-
स्यार्थत्वेऽपि पदार्थगतत्वमेव, न तु वाक्यार्थगतत्वम्‍, स्मरणस्य तदसंपर्कात्‍ । पदान्तरकृत्यं तूक्तमेव ।
उदाहरणम्‍-
‘ आपद्नत: खलु महाशयचक्तवर्ती विस्तारत्यकृतपूर्वमुदारभावम्‍ । कालागुरुर्दहनमध्यगत: समन्ता-ल्लोकोत्तरं परिमलं प्रकटीकरोति ॥’
अत्र विस्तारप्रकटने वस्तुत ऐकरूप्येणाभिमते ।
यथा वा--
विश्वाभिरामगुणगौरवगुम्फितानां रोषोऽपि निर्मलधियां रमणीय एव । लोकंपृणै: परिमलै: परिपूरितस्य कालागुरो: कठिनतापि नितान्तरम्या ॥’
वैधर्म्येणाप्येषा संभवति-
‘ वंशभवो गुणवानपि सड्रविशेषेण पूज्यते पुरुष: । नहि तुम्बीफलविकलो वीणादण्ड: प्रयाति महिमानम्‍ ॥ ’

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-01-17T19:36:33.5970000