परिणामालंकारः - लक्षण ४

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


‘ दासे कृतागसि भवत्युचित: प्रभूणां पादप्रहार इति सुन्दरि नास्मि दूये । उद्यत्कठोरपुलकाड्‍कुरकण्टकाग्रै-र्यत्खिद्यते तव पदं ननु सा व्यथा मे ॥’

इति तदुदाह्लतरूपकोदाहरणे आरोप्यमाणानां कण्टकानां प्रकृतखेदव्यथा-रूपकार्ये उपयोगेनातिप्रसड्रात्‍ । न द्वितीय: ।

‘ अथ पक्त्रिमतामुपेयिवद्भि: सरसैर्वक्त्रपथाश्रितैर्वचोभि: । क्षितिभर्तुरुपायनं चकार प्रथमं तत्परतस्तुरंगमाद्यै: ॥’

इत्यत्र स्वोक्तव्यधिकरणपरिणामोदाहरणासंगत्यापत्ते: । यतो राजसंघटने ह्युपायनस्यारोप्यमाणस्य स्वात्मनैवोपयोग:, न तु विषयवचोरूपतया । वचसां तु विषयाणामारोप्यमाणोपायनरूपत्वेन परमुपयोग इति प्रत्युत विपरीतम्‍ । तस्मादस्मदुक्तमेव व्यधिकरणपरिणमस्योदाहरणं साधु । इदं तु पुनर्व्यधिकरणरूपकं भवितुमर्हति । तृतीयार्थाभेदो‍ऽपि मीनवती नयनाभ्यामित्यत्रेव प्रकृत्यर्थानुयोगिको बोध्य: ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP