उपमालंकारः - लक्षण ३

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


एवम्‍

‘ भुजो भगवतो भाति चञ्चंश्वाणूरचूर्णने ।
जगन्मण्डलसंहारे वेगवानिव धूर्जटि: ॥ ’

अत्र धूर्जटिभगवद्‍भुजयोराकोरण सादृश्यस्याभावात्प्रकारनिर्मुक्तस्य केवलभानस्याप्रयोजकतया चाणूरचूर्णननिमित्तकचाञ्चल्यवत्त्व-जगन्मण्डल-

संहारनिमितकवेगवत्त्वयोरभेदाध्यवसानेनाभिन्नधर्मप्रकारकभानविशेष्य-त्वस्य साधारणधर्मस्य सिद्धेरुपमासिद्धि: । तत्र चाणूरजगन्मण्ड-लयोर्वस्तुतो भिन्नयोर्महाकायत्वादिना सादृश्याद्विम्बप्रतिबिम्बभाव: । चूर्णनसंहारयोश्वाञ्चल्यवेगवत्त्वयोस्त्वाश्रयभेदाद्भिन्नयोरपि वस्तुत एक-रूपतैवेति वस्तुप्रतिवस्तुभाव: । इत्येवं निरूपितमुपमालक्षणम्‍ ।

अथेयमुदाह्लियते-

‘ गुरुजनभय-मद्विलोकनान्त: समुदयदाकुलभावमावहन्त्या: ।
दरदलदरविन्दसुन्दरं हा हरिणदृशो नयनं न विस्मरामि ॥ ’

अत्र दलदरविन्दशब्दस्योपमानवाचकस्य सुन्दरशद्वेन सामान्य-वचनेन समासे प्रतीयमानोपमा सकलवाक्यार्थस्य विप्रलम्भश्रृड्रारस्य स्मृत्युपस्करणद्वारोपस्कारकतयालंकार: । न चात्र स्मृति: प्रधानतया ध्वन्यत इति वक्तुं शक्यम्‍, न विस्मरामीति स्मृत्यभावनिषेधमुखेन स्फुटमावेदनात्‍ । नापि पूर्वार्धगतत्रासौत्सुक्ययो: परस्पराभिभवकामयो: संधि: प्रधानम्‍, तस्य नायिकागतत्वेनानुवाद्यत्वात्‍, उत्तरार्धगतस्मृत्यड्र-त्वाच्च । तस्माद्भावसंध्युपमालंकराभ्यामुपस्कृता स्मृतिर्हापदगम्य: संतापो‍ऽनुभावश्व विप्रलम्भमेवोपस्कुरुत इति तस्यैवात्र प्राधान्यम्‍ ।

अप्पयदीक्षिता: पुनश्वित्रमीमांसायाम्‍ - - ‘ उपमितिक्रियानिष्पत्तिम-त्सादृश्यवर्णनमदुष्टमव्यड्रयमुपमालंकार: । स्वनिषेधापर्यवसायि सादृ-श्यवर्णनं वा तथाभूतं तथा ’ इति लक्षणद्वयमाहु: । तच्चिन्त्यम्‍ । वर्णनस्य विलक्षणशब्दात्मकस्य विलक्षणज्ञानात्मकस्य वा शब्दवाच्यताविर-हेणार्थालंकारताया बाधात्‍ । तस्य सर्वथैवाव्यड्रयत्वादव्यड्रयत्वविशेषण-

वैयर्थ्याच्च । अथ यदि वर्णनविषयीभूतं तादृशसादृश्यमुपमेत्युच्यते, तदा यथा गौस्तथा गवय इत्यत्रोपमालंकारापते: । एवं ‘ कालोपसर्जने च तुल्यम्‍ ’ इत्यादावपि । अशिष्यत्वादिना प्रधानप्रत्ययार्थवचनसादृश्यस्या-त्रापि प्रतिपादनात्‍ । न चात्र वचनभेदस्य दोषस्य सत्त्वाददुष्टत्व-विशेषणेन वारणं भविष्यतीति वाच्यम्‍ । एतद्वाक्योपप्लुतवाक्यान्तर-

प्रतिपादितैकोपमेयके सादृश्ये तथाप्यतिप्रसड्रात । न चात्रोपमितिक्रियाया निष्पत्तावपि न सादृश्यवर्णनम्‍, विशयस्याचमत्कारित्वात्‍ , चमत्कार-

विषयककविव्यापारस्यैव वर्णनपदार्थत्वादिति वाच्यम्‍ । एवं हि चमत्कारित्वस्य लक्षणेऽवश्यं निवेश्यत्वेनोपमितिक्रियानिष्पत्तिविशेषणस्य वैयर्थ्यात्‍ । नह्यनिष्पन्नमापातत: प्रतीयमानं सादृश्यं चमत्कृतिमाधत्ते ।

एवं द्वितीयलक्षणे‍ऽपि निषेधापर्यवसायित्वं निरर्थकम्‍ । व्यतिरेके कमला-दिसादृश्यनिषेधस्यानन्वये च सर्वथा सादृश्यनिषेधस्य चमत्कारितया तदर्थ सादृश्यस्य निरूपणमिति प्रागेवाभिधानात्‍ । किं च ।

‘ स्तनाभोगे पतन्भाति कपोलात्कुटिलो‍ऽलक: । शशाड्कबिम्बतो मेरौ लम्बमान इवोस्ग: ॥

इत्यादौ मुख्यवाक्यार्थत्वेनानलंकारभूतायामुपमायामतिव्याप्ति: । उपमितिक्रियानिष्पीत्तमत्सादृश्यवर्णनस्यादुष्टाव्यड्र यत्वस्य चात्रापि सत्त्वातूं । न चेयमप्युपमा लक्ष्येति वाच्यम्‍ । ध्वन्यमानोपमानिवारण-प्रयासस्य वैयर्थ्यापत्ते: । नह्यत्राभेदप्रधानोत्प्रेक्षा शक्या वक्तुम्‍ । कल्पितो-पमाया निर्विषयत्वप्रसड्रात ।

‘ व्यापार उपमानाख्यो भवेद्यदि विवक्षित: । क्रियानिष्पत्तिपर्यन्तमुपमालंकृतिस्तु सा ॥ ’

इति स्वकृतसूत्रे‍ऽलंकारभूतोपमाया एव लक्ष्यत्वेनाभिधानात्‍ । ‘ अलंकार-भूतोपमालक्षणत्वे तदेवादुष्टाव्यड्रयत्वविशेषितमिति ’ तत्रैव पुनरभि-धानाच्च । नह्यत्रोपमानोपमेयसादृश्यादुपमास्वरूपादीस्त कश्चिदतिरिक्तो वाक्यार्थ: , येनोपमा तमलंकुर्यात । अपि च लक्षणे सादृश्यविशेषणं निरर्थकम्‍ । उपमितिक्रियानिष्पत्तिमद्वर्णनमुपमा ’ इत्येतावतैव स्वाभीष्टार्थलाभात ।

एवम

‘ स्वत:सिद्धेन भिन्नेन संमतेन च धर्मत: । साम्यमन्येन वर्ण्यस्य वाच्यं चेदेकदोपमा ॥ ’

इति विद्यानाथोक्तं लक्षणमपास्तम्‍ । व्यतिरेके निषेधप्रतियोगिनि सादृश्ये‍ऽतिव्याप्ते: ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP