गणहोमविधिकारिका

गणेशाच्या प्रस्तुत उपासना केल्याने सर्व मनोकामना पूर्ण होतात.


समिच्चर्वाज्यद्रव्येण गणानां त्वेति मन्त्रत: ॥
हुनेदष्टोत्तरशतं अष्टाविंशतिरेव वा ॥१॥
ततस्तु मूलमन्त्रेण मूलद्रव्येण होमयेत्‌ ॥
नारिकेलं च कदलीलाजामोदकमेव व ॥२॥
पृथुंक सत्वसंयुक्तं तिलमिक्षुस्तथोत्तरम्‌ ॥
अष्टद्रव्याणि संयुज्य कवलीकृत्य होमयेत्‌ ॥३॥
आज्यसंस्कारमध्ये तु अष्टद्रव्यं प्रपूजयेत्‌ ॥
मोदकादिषु विघ्नेशान्पूर्वादिषु प्रपूजयेत्‌ ॥४॥
मोदकान्पृथुकान्लाजान्‌ नारिकेलेक्षुसक्तव: ॥
मध्वाज्यतिलसंयुक्तं तिलं कदलिमष्टमम्‌ ॥५॥
विघ्नेशो भूरवीशानसोमा: वह्निहरिस्तथा ॥
ब्रह्माणं च यजेदन्ते गन्धाद्यै; परिपूजयेत्‌ ॥६॥
अघोरास्त्रेण संप्रोक्ष्यास्त्रमन्त्रेण रक्षयेत्‌ ॥
द्रव्यमाज्यं च संस्कृत्य पश्चाद्वारादि होमयेत्‌ ॥७॥
लाजानां मुष्टयोऽप्यष्टौ पृथुकं सक्तवस्तथा ॥
तिलानां मुष्टयोऽप्यष्टौ कदल्याष्टकमीरितम्‌ ॥८॥
मोदकाश्च तथैवाष्टौ इक्षुखण्डमथाष्टमम्‌ ॥
एकैकं पर्वमुद्दिष्टं इक्षुखण्डं गुडोत्तरम्‌ ॥९॥
चतुष्पलप्रमाणं तु गुडमत्र समीर्यते ॥
क्षौद्रमाज्यं पयश्चैव पलदूयमितं भवेत्‌ ॥१०॥
पूर्वापराज्यसहितैरष्टद्रव्यं हुनेद्‌बुध: ॥
अलामे ह्यष्टवस्तृनां चतुर्द्रव्येण होमयेत्‌ ॥११॥
तदभावे द्वयेनापि ह्येकद्रव्येण वा पुन: ॥
सोदकं नारिकेलस्य फलाष्टकमिदं शुभम्‌ ॥१२॥
चर्माणी नारिकेलानां अशेषाण्यनले क्षिपेत्‌ ॥
उमावृषाङ्कयोश्चैव रतिकन्दर्पयोस्तथा ॥१३॥
रमारमेशयोश्चैव भूवराहौ यथाक्रमम्‌ ॥
समीच्चर्वाज्यद्रव्येण ह्येकैकाहुतिपूर्वकम्‌ ॥१४॥
इन्द्रादिलोकपालानां अनेनैव प्रकारत: ॥
एतेषां नाममन्त्रेण चतुर्थ्यन्तं च होमयेत्‌ ॥१५॥
चत्वारिंशच्चतु:पूर्वं चतु:शतजपं चरेत्‌ ॥
प्रत्यहं तर्पणं कुर्यात्‌ सदा तत्र विचक्षण: ॥१६॥
चतुर्लक्षजपं कुर्यात्पुरश्चरणसिद्धये ॥
तद्दशांशेन होमश्च दशांशं विप्रभोजनम्‌ ॥१७॥
करोति यदि पूतात्मा स तु लोके महीयते ॥
गणेशदीक्षां कुर्वीत एकविंशतिरात्रकम्‌ ॥१८॥
नित्यमश्नन्पयो गब्यं गुरुवर्त्मप्रबोधक: ॥
मार्गशीर्षे तथा भाद्रपदे चैकादशी सिता ॥१९॥
गणेशनवरात्रं तु प्रारमेत विचक्षण: ॥
चतुर्थ्यां तु समाप्याथ ब्राह्मणान्भोजयेत्तत: ॥२०॥

तर्पणकारिका

होमकाले तर्पणं तु होमान्ते वास्यकर्मणि ॥
पूजान्ते वा जपान्ते वा तर्पणं तु चतुर्विधम्‌ ॥१॥
तर्पणं चतुरावृत्ति मंत्राणां मन्त्रमादिमम्‌ ॥
एकैकमक्षरं प्रोक्तं एकैकाक्षरवृद्धिदम्‌ ॥२॥
प्रणवाद्यैश्च संयुक्तं स्वाहाकारेण संयुतम्‌ ॥
तर्पयामीति युक्ताङ्गतर्पणस्य विधि: स्मृत: ॥३॥
अष्टा विंशतिधा चैव चतुर्वारं प्रतर्पयेत्‌ ॥
बीजाक्षरेण संयुक्तं रमेशादींश्च तर्पयेत्‌ ॥४॥
गामित्यादि च संयुक्त गणपान्‌ पट्‌ प्रतर्ययेत्‌ ॥
दुर्वाङकुरयुतहस्तेन द्वौ निधी च प्रतर्पयेत्‌ ॥५॥
अष्टविंशतिरक्शराणि दशभिर्युक्तं चतुर्भि: पदै: । पश्चात्‌ पञ्चरमादिकांश्च गणपान्‌ षट द्वौ निधी तर्पयेत्‌ । प्रत्येकं मनुनामुना च चतुरावृत्या विभोर्मस्तके चत्वारिंशदतो चतु:शतमयो चत्वारि संख्याविधि: ॥६॥
इति तर्पणकारिका ॥

गणहोमविधिकारिका समाप्ता ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP