उत्तर गीता भाष्य - तृतीयोऽध्यायः

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


योगी व्यर्थक्रियालापपरित्यागेन शान्तधीः । तृतीये शरणं यायाद्धरिमेवेति कीर्त्यते॥ श्रीभगवानुवाच--- अनन्तशास्त्रं बहुवेदितव्य- मल्पश्च कालो बहवश्च विघ्नाः । यत्सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्बुमिश्रम् ॥१॥ विवेकिना योगिना सारभूतमध्यात्मशास्त्रमेवोपासितव्यं न त्वन्यत् अशक्यत्वात् अनन्तशास्त्रं पर्यवसानरहितानि शास्त्राणीत्यर्थः । यथाकथंचित्पर्यवसानेऽपि बहु वेदितव्यं तत्तात्पर्याणि बहूनि वेदितव्यानीत्यर्थः । ज्ञातुं शक्यत्वेऽपि कालः स्वल्प एव 'पुंसो वर्षशतं हयायुः 'इति न्यायात् । तस्माद्यत्सारभूतं सर्वशास्त्रानालोड्य यन्निश्चितमखण्डैकरसं ब्रह्म तदेवोपासितव्यम् । तदुक्तम् 'आलोड्य सर्वशास्त्राणि ' इत्यादि । उक्तं च हरिवंशे---' असत्कीर्तनकान्तारपरिवर्तनपांसुभिः । वाचं हरिकथालापगङ्गयैव पुनीमहे 'इति । तत्र दृष्टान्तमाह---हंसो यथा अम्बुमिश्रत्वेऽपि अम्ब्वंशं विहाय क्षीरमेवोपादत्ते तद्वदिति भावः॥ तस्मात्पाण्डित्यं निर्विद्येत्यादिश्रुत्या पाण्डित्यप्रकटनस्य ब्रह्मोपासनाप्रतिबन्धकत्वेन सर्वमपि पाण्डित्यं हेयमित्याह- -- पुराणं भारतं वेदशास्त्राणि विविधानि च । पुत्रदारादिसंसारो योगाभ्यासस्य विघ्नकृत् ॥२॥ योगाभ्यासस्य आत्मैक्ययोगाभ्यासस्य । शेषं स्पष्टम्॥ किं च आत्मविचारमन्तरेण इतरशास्त्राणि न विचारयितव्या- नीत्याह--- इदं ज्ञानमिदं ज्ञेयं यः सर्वं ज्ञातुमिच्छति । अपि वर्षसहस्रायुः शास्त्रान्तं नाधिगच्छति ॥३॥ सहस्रवर्षपरिमितायुष्मानपि एकैकस्य शास्त्रस्य अन्तं पारं भावनिश्चयं वा नाधिगच्छति ; किमुत वक्तव्यम् सर्वाणि शास्त्राणि नाधिगच्छतीति भावः॥ तर्हि सर्वमपि विहाय अधिगन्तव्यं वा किमित्याशङ्क्याह--- विज्ञेयोऽक्षरतन्मात्रं जीवितं चापि चञ्चलम् । विहाय शास्त्रजालानि यत्सत्यं तदुपास्यताम् ॥४॥ अक्षरतन्मात्रं नाशरहितसत्तामात्रात्मक आत्मा विज्ञेयः । तत्र च वैराग्यार्थं जीवितमपि चञ्चलमिति विज्ञेयम् , 'चरमश्वासवेलायां यत्कृत्यं तत्सदा कुरु 'इति न्यायात् । तस्माच्छास्त्रजालानि विहाय यत्सत्यं तदेवोपास्यतामिति॥ इन्द्रियजये वैराग्यं स्वत एव जायत इत्याह--- पृथिव्यां यानि भूतानि जिह्वोपस्थनिमित्तिकम् । जिह्वोपस्थपरित्यागे पृथिव्यां किं प्रयोजनम् ॥५॥ जिह्वोपस्थनिमित्तिकम् आहारव्यवायनिमित्तं सत् पृथिव्यां यानि भूतानि सन्ति , प्रायशः तत्परित्यागी चेत् , पृथिव्यां किं प्रयोजनम् , किमपि प्रयोजनं नास्तीत्यर्थः , 'जितं सर्वं जिते रसे 'इति न्यायात्॥ एवमात्मसमाधिनिष्ठस्य सर्वत्र ब्रह्मदर्शनमेव , नान्यद्दर्शनमित्याह--- तीर्थानि तोयपूर्णानि देवान्पाषाणमृन्मयान् । योगिनो न प्रपद्यन्ते आत्मध्यानपरायणाः॥६॥ तीर्थस्नानादिना देवतापूजादिना च अध्यात्मसमाधौ सिद्धे पुनस्तेन किं प्रयोजनमिति भावः । स्पष्टमन्यत्॥ योगिनः सर्वत्र ब्रह्मदर्शनमेवेत्येतत् अधिकारिभेदे- नोपपादयति--- अग्निर्देवो द्विजातीनां मुनीनां हृदि दैवतम् । प्रतिमा स्वल्पबुद्धीनां सर्वत्र समदर्शिनाम्॥७॥ द्विजातीनां कर्मकाण्डरतानाम् अग्निर्दैवतम् , मुनीनां मननशीलानां योगिनां हृदि हृत्कमलमध्यस्थिता परि- च्छिन्नमूर्तिर्दैवतम् , स्वल्पबुद्धीनां प्राकृतानां तु मृत्पाषाणादिप्रतिमैव दैवतम् , समदर्शिनां तु आरूढानां सर्वत्र 'सर्वं खल्विदं ब्रह्म 'इति श्रुत्या सर्वमपि दैवतमेवेत्यर्थः॥ तस्मात् ज्ञानेनैव ज्ञातव्यम् , ज्ञानाभावे ब्रह्म न पश्यतीत्याह--- सर्वत्रावस्थितं शान्तं न प्रपश्येज्जनार्दनम् । ज्ञानचक्षुर्विहीनत्वादन्धः सूर्यमिवोदितम्॥८॥ सर्वत्रावस्थितं सर्वत्र परिपूर्णमपि अज्ञः न पश्यति ; तत्र हेतुः ज्ञानचक्षुर्विहीनत्वात् ज्ञानाख्यचक्षूरहितत्वात् , तत्र दृष्टान्तमाह---अन्ध इति । स्पष्टमन्यत्॥ सर्वं ब्रह्मेत्येत्तदुपपादयति--- यत्र यत्र मनो याति तत्र तत्र परं पदम् । तत्र तत्र परं ब्रह्म सर्वत्र समवस्थितम्॥९॥ यत्र यत्र मनो याति मनो यद्यद्विषयीकरोति तत्र तत्र परं सर्वोत्कृष्टं पदं प्राप्य स्थानं परं ब्रह्मैव समवस्थितम् । घटः स्फुरतीत्यादिस्फुरणानुभवादिति भावः॥ एतादृशस्य योगिनः सर्वमपि प्रत्यक्षतया भासत इत्याह--- दृश्यन्ते दृशि रूपाणि गगनं भाति निर्मलम् । अहमित्यक्षरं ब्रह्म परमं विष्णुमव्ययम् ॥१०॥ परमं सर्वोत्कृष्टमक्षरमपक्षयरहितमव्ययं नाशरहितं विष्णुं परमात्मानमहमित्यभेदेनैव यो भावयति तस्य भावयितुः दृशि ज्ञाने रूपाणि दृश्यन्ते नामरूपा- त्मकानि जगन्ति भासन्त इत्यर्थः । गगनमपि निर्मलं भासते ; तथा च सर्वमपि प्रत्यक्षेणानुभवतीत्यर्थः । इयं चारुरु- क्षावस्थायामन्तरापतिता योगसिद्धिरिति तत्त्वज्ञा वर्णयन्ति । आरूढस्य ब्रह्मनिष्ठत्वेनैतद्दर्शनायोगात् । 'या निशा सर्वभूतानाम् 'इति स्मृतेः । दृश्यते चेत्खगाकारं खगाकारं विचिन्तयेत् । सकलं निष्कलं सूक्ष्मं मोक्षद्वारेण निर्गतम् ॥११॥ अपवर्गस्य निर्वाणं परमं विष्णुमव्ययम् । सर्वज्योतिर्निराकारं सर्वभूतगुणान्वितम् ॥१२॥ सर्वत्र परमात्मानं अहमात्मा परमव्ययम् । खगाकारं हंसात्मकं परं ब्रह्म 'हंसो विधिः शङ्कर एव हंसः हंसश्च विष्णुर्गुरुरेव हंसः 'इत्यादि स्मृतेः दृश्यते चेद्यदि प्रकाशेत तर्हि स्वयं ब्रह्मात्मा परब्रह्मात्मकः सन् सकलं तेजोमयं निष्कलं कलातीतं सूक्ष्मं प्रमाणागम्यं मोक्षद्वारेण निर्गतं मोक्षमार्गैकगम्यम्॥ अपवर्गस्य निर्वाणं मोक्षसुखात्मकं परमम् उत्कृष्टं विष्णुं व्यापकम् अव्ययं नाशरहितम् सर्वतोज्योतिराकाशं सर्वतः स्वयम्प्रकाशं सर्वभूताधिवासिनं सर्वान्तर्नियामकं परमात्मानं खगाकारं हंसात्मकं विचिन्तयेत् ध्यायेदित्यर्थः॥ एवं चिन्तयतः पापलेशोऽपि नास्तीत्याह--- अहं ब्रह्मेति यः सर्वं विजानाति नरः सदा । हन्यात्स्वयमिमान्कामान्सर्वाशी सर्वविक्रयी ॥१३॥ सर्वं निषिद्धं कृत्वापि कर्मभिर्न स बध्यते इति , यः सदा सर्वं ब्रह्मेति विजानाति , सर्वाश्यपि सर्वनिषिद्धभक्ष्यपि सर्वविक्रयी सर्वनिषिद्धविक्रय्यपि इमान् कामान् अरिषड्वर्गान् हन्यात् जयेत् , सर्वनिषिद्धकर्म कृत्वापि तैर्निषिद्धकर्मभिर्न बध्यते॥ क्षणमात्रं वा ब्रह्मध्यानरतस्य नान्यसुखचिन्तेत्याह--- निमिषं निमिषार्धं वा शीताशीतनिवारणम् । अचला केशवे भक्तिर्विभवैः किं प्रयोजनम् ॥१४॥ शीताशीतनिवारणं यथा तथा शीतोष्णसुखदुःखादि- द्वन्द्वसहिष्णुतया निमिषं निमिषार्धं वा केशवे भक्ति- रचला चेत् , विभवैः भक्त्यतिरिक्तविषयसुखिअः किं प्रयोजनमिति॥ एतादृशो योगी यदि मोक्षमापेक्षेत , तर्हि नान्यविषय- चिन्तां कुर्यादित्याह--- भिक्षान्नं देहरक्षार्थं वस्त्रं शीतनिवारणम् । अश्मानं च हिरण्यं च शाकं शाल्योदनं तथा ॥१५॥ समानं चिन्तयेद्योगी यदि चिन्त्यमपेक्षते । योगी चिन्त्यं मोक्षं यदि अपेक्षेत , तर्हि देहरक्षणार्थमेव भिक्षान्न चिन्तयेत् , न त्विन्द्रियप्रीत्यर्थमित्यर्थः ; वस्त्रं च शीतनिवारणार्थं चिन्तयेत् , न अलंकाराय ; अश्मानं पाषाणं हिरण्यं सुवर्णं च शाकं शाल्योदनं च हेयोपादेयवैषम्य- राहित्येन चिन्तयेदित्यर्थः॥ किं च--- भूतवस्तुन्यशोचित्वं पुनर्जन्म न विद्यते ॥१६॥ भूतवस्तुनि गतवस्तुनि अशोचित्वे गतमिति दुःखराहित्ये सिद्धे , उपलक्षणमेतत् , आगामोवस्तुनिरपेक्षत्वे सिद्धे , वर्तमानवस्तुनि लब्धे हर्षराहित्ये सिद्धे च पुनर्जन्म न विद्यते॥ आत्मयोगमवोचद्यो भक्तियोगशिरोमणिम् । तं वन्दे परमानन्दं नन्दनन्दनमीश्वरम्॥

इति श्रीगौडपादाचार्यविरचितायाम् उत्तरगीताव्याख्यायाम् तृतीयोऽध्यायः॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP