संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|याज्ञवल्क्यस्मृतिः|व्यवहाराध्यायः|
साधारणव्यवहारमातृकाप्रकरणम्

व्यवहाराध्यायः - साधारणव्यवहारमातृकाप्रकरणम्

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


व्यवहारान्नृपः पश्येद्विद्वद्भिर्ब्राह्मणैः सह ।
धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः ॥२.१॥

श्रुताध्ययनसंपन्ना धर्मज्ञाः सत्यवादिनः ।
राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः ॥२.२॥

अपश्यता कार्यवशाद्व्यवहारान्नृपेण तु ।
सभ्यैः सह नियोक्तव्यो ब्राह्मणः सर्वधर्मवित् ॥२.३॥

रागाल्लोभाद्भयाद्वापि स्मृत्यपेतादिकारिणः ।
सभ्याः पृथक्पृथग्दण्ड्या विवादाद्द्विगुणं दमम् ॥२.४॥

स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः ।
आवेदयति चेद्राज्ञे व्यवहारपदं हि तत् ॥२.५॥

प्रत्यर्थिनोऽग्रतो लेख्यं यथावेदितं अर्थिना ।
समामासतदर्धाहर् नामजात्यादिचिह्नितम् ॥२.६॥

श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसंनिधौ ।
ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम् ॥२.७॥

तत्सिद्धौ सिद्धिं आप्नोति विपरीतं अतोऽन्यथा ।
चतुष्पाद्व्यवहारोऽयं विवादेषूपदर्शितः ॥२.८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP