गीतार्थसंग्रहम्

वेदान्तचा शाब्दिक अर्थ आहे, वेदांचा अंत अथवा सार. ही ज्ञानयोगाची एक शाखा आहे, जी व्यक्तिला ज्ञान प्राप्तिच्या दिशेने उत्प्रेरित करते. वेदान्तच्या तीन मुख्य शाखा आहेत, अद्वैत वेदांत, विशिष्ट अद्वैत आणि द्वैत.


स्वधर्मज्ञानवैराग्यसाध्यभक्त्येकगोचरः ।
नारायणः परं ब्रह्म गीताशास्त्रे समीरितः ॥१॥

ज्ञानकर्मात्मिके निष्ठे योगलक्षे सुसंस्कृते ।
आत्मानुभूतिसिद्ध्यार्थे पूर्वषट्केन चोदितः ॥२॥

मध्यमे भगवत्तत्त्वयाथात्म्यावाप्तिसिद्धये ।
ज्ञानकर्माभिनिर्वर्त्यो भक्तियोगः प्रकीर्तितः ॥३॥

प्रधानपुरुषव्यक्तसर्वेश्वरविवेचनम् ।
कर्म धीर्भक्तिरित्यादिपूर्वशेषोऽन्तिमोदितः ॥४॥

अस्थानस्नेहकारुण्यधर्माधर्मधियाकुलम् ।
पार्थं प्रपन्नं उद्दिश्य शास्त्रावत्रणं कृतम् ॥५॥

नित्यात्मासङ्गकर्मेहगोचरा सांख्ययोगधीः ।
द्वितीये स्थितधीलक्ष्या प्रोक्ता तन्मोहशान्तये ॥६॥

असक्त्या लोकरक्षायै गुणेष्वारोप्य कर्त्र्क्ताम् ।
सर्वेश्वरे वा न्यस्योक्ता तृतीये कर्मकार्यता ॥७॥

प्रसङ्गात्स्वस्वभावोक्तिः कर्मणोऽकर्मतास्य च ।
भेदा ज्ञानस्य माहात्म्यं चतुर्थाध्याय उच्यते ॥८॥

कर्मयोगस्य सौकर्यं शैघ्र्यं काश्चन तद्विधाः ।
ब्रह्मज्ञान्प्रकारश्च पञ्चमाध्याय उच्यते ॥९॥

योगाभ्यासविधिर्योगी चतुर्धा योगसाधनम् ।
योगसिद्धः स्वयोगस्य पारम्यं षष्ठ उच्यते ॥१०॥

स्वयाथात्म्यं प्रकृत्यास्य तिरोधिः शरणागतिः ।
भक्तभेदः प्रबुद्धस्य श्रैष्ठ्यं सप्तम उच्यते ॥११॥

ऐश्वर्याक्षरयाथात्म्यं भगवच्चरणार्थिणाम् ।
वेद्योपादेयभावानां अष्टमे भेदे उच्यते ॥१२॥

स्वमाहात्म्यं मनुष्यत्वे परत्वं च महात्मनाम् ।
विशेषो नवमे योगो भक्तिरूपः प्रकीर्तितः ॥१३॥

स्वकल्याणगुणानन्त्यकृत्स्नस्वाधीनतामतिः ।
भक्त्युत्पत्तिविवृध्यर्था विस्तीर्णा दशमोदिता ॥१४॥

एकादशेऽस्य याथात्म्यसाक्षात्कारावलोकनम् ।
दत्तं उक्ता विदिप्राप्त्योर्भक्त्येकोपायता तथा ॥१५॥

भक्तिश्रैष्ठ्यं उपायोक्तिरशक्तस्यात्मनिष्ठता ।
तत्प्रकारास्त्वतिप्रीतिर्भक्ते द्वादश उच्यते ॥१६॥

देहस्वरूपं आत्माप्तिहेतुरात्मविशोधनम् ।
बन्धहेतुर्विवेकश्च त्रयोदश उदीर्यते ॥१७॥

गुणबन्धविधौ तेषां कर्तृत्वं तन्निवर्तनम् ।
गतित्रयस्वमूलत्वं चतुर्दश उदीर्यते ॥१८॥

अचिन्मिश्राद्विशुद्धाच्च चेतनात्पुरुषोत्तमः ।
व्यापानाद्भरणात्स्वाम्यादन्यः पञ्चदशोदितः ॥१९॥

देवासुरविभागोक्तिपूर्विका शास्त्रवश्यता ।
तत्त्वानुष्ठानविज्ञानस्थेम्ने षोडश उच्यते ॥२०॥

अशास्त्रं आसुरं कृत्स्नं शास्त्रीयं गुणतः पृथक् ।
लक्षणं शास्त्रसिद्धस्य त्रिधा सप्तदशोदितम् ॥२१॥

ईश्वरे कर्तृताबुद्धिः सत्त्वोपादेयतान्तिमे ।
स्वकर्मपरिणामश्च शास्त्रसारार्थ उच्यते ॥२२॥

कर्मयोगस्तपस्तीर्थदानयज्ञादिसेवनम् ।
ज्ञानयोगो जितस्वान्तैः परिशुद्धात्मनि स्थितिः ॥२३॥

भक्तियोगः पराइकान्त्यप्रीत्या ध्यानादिषु स्थितिः ।
त्रयानां अपि योगानां त्रिभिरन्योन्यसंगमः ॥२४॥

नित्यनैमित्तिकानां च पराराधनरूपिणम् ।
आत्मऋष्टेस्त्रयोऽप्येते योगद्वारेण साधकाः ॥२५॥

निरस्तनिखिलाज्ञानो दृष्ट्वात्मानं परानुगम् ।
प्रतिलभ्य परां भक्तिं तयैवावाप्नोति तत्पदम् ॥२६॥

भक्तियोगस्तदर्थी चेत्समग्राइश्वर्यसाधनम् ।
आत्मार्थी चेत्त्रयोऽप्येते तत्कैवल्यस्य साधकाः ॥२७॥

ऐकान्त्यं भगवत्येषां समानं अधिकारिणाम् ।
यावत्प्राप्ति परार्थी चेत्तदेवात्यन्तं अशुनुते ॥२८॥

ज्ञानी तु परमैकान्ती तदायत्तात्मजीवनः ।
तत्संश्लेषवियोगैकसुखदुःखस्तदेकधीः ॥२९॥

भगवद्ध्यानयोगोक्तिवन्दनस्तुतिकीर्तनैः ।
लब्धात्मा तद्गतप्राणमनोबुद्धीन्द्रियक्रियः ॥३०॥

निजकर्मादिभक्त्यन्तं कुर्यात्प्रीत्यैव कारितः ।
उपायतां परित्यज्य न्यस्येद्देवे तु तां अभीः ॥३१॥

ऐकान्त्यात्यन्तदास्यैकरतिस्तत्पदं आप्नुयात् ।
तत्प्रधानं इदं शास्त्रं इति गीतार्थसंग्रहम् ॥३२॥

N/A

References :

गीतार्थसंग्रहम्
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP