तत्त्वचिन्तामणी - शब्दाकाङ्क्षावादपूर्वपक्षः

तत्त्वचिन्तामणी शब्दाप्रामाण्यवादावरील एक असामान्य ग्रंथ आहे.


अथ केयमाकङ्क्षा, न तावदविनाभावः, नीलं सरोजमित्यादावभावात् ।

विमलं जलं नद्याः कच्छे महिष इत्यत्र जलान्वितनद्या अविनाभावात् कच्छे साकाङ्क्षतापत्तेः ।

नापि समभिव्याहृतपदस्मारितपदार्थजिज्ञासा, अजिज्ञासोरपि वाक्यर्थबोधात् विश्वजिता यजेत द्वारं इत्यत्रापदार्थयोप्यधिकारिणोऽप्याहृतस्य पिधानस्य चाकाङ्क्षितत्वाच्च, तत्र शब्दकल्पनपक्षेऽपि घटः कर्मत्वमानयनं कृतिरित्यत्र जिज्ञासितस्यानयनादेराकाङ्क्षितत्वापत्तेः ।

अथ जिज्ञासायोग्यता, सा जिज्ञासा च विशेषाज्ञाने भवति, योग्यता च श्रोतरि तदुच्चारणजन्यसंसर्गावगमप्रागभावः, विमलं जलं नद्याः कच्छे महिष इत्यत्र तात्पर्यवशात् कदाचित् नद्याः कच्छे संसर्गावगमात् तत्प्रागभावसत्त्वेऽपि श्रोतरि तदुच्चारणेन तात्पर्यवशात् जलान्वितनद्याः कच्छे संसर्गावगमोनेति न तत्प्रगाभावः, घटः कर्मत्वमानयनमित्यत्रापि तथेति चेत् ।

न ।

निराकाङ्क्षे तदुच्चारणजन्यसंसर्गावगमप्रागभावस्य सिद्ध्यसिद्धिपराहतत्वात् ।

किञ्च यत्रैकोविमलं जलमित्यश्रुत्वैव तात्पर्यभ्रमेणा वा नद्याः कच्छान्वयपरत्वमवैति, अपरः समस्तेन श्रुत्वा नद्या जलान्वयपरत्वमवधारयति, तत्रोभयरपि तदुच्चारणजन्यसंसर्गावगमात् नद्या इत्युभयसाकाङ्क्षं स्यात् ।

अपि च प्रगाभावाभावस्य कारणान्तराभावव्याप्तत्वात् तत एव कार्याभाव इति किमाकाङ्क्षया ।

एवञ्च योग्यतासत्ती अपि न हेतू अयोग्ये अनासन्ने च तदुच्चारणजन्यसंसर्गज्ञानाभावेन तत्प्रागभावाभावात् ।

न चैवं बाधाभावस्यानुमित्यादावपि हेतुत्वं, प्रागभावाभावेनैव कार्याभावात् प्रागभावस्य च कार्यमात्रहेतुत्वात् ।

शब्दे नासाधारण्यं उत्थितोत्थाप्याकाङ्क्षयोरुत्कर्षापकर्षौ न स्यातां प्रागभावे तदभावात् ।

अथ ज्ञाप्य-तदितरान्वयप्रकारकजिज्ञासानुकूलपदार्थोपस्थितिजनकत्वे सत्यजनिततात्पर्यविषयान्वयबोधत्वमाकाङ्क्षा, घटमानयतीत्यत्र घटमित्युक्ते किमानयति पश्यति वा, आनयतीत्युक्ते किं घटं अन्यद्वेति जिज्ञासा भवति ।

घटः कर्मत्वमाननयनं कृतिरित्यत्राभेदेन नान्वयोऽयोग्यत्वात्, घटस्यानयनमिति तु नान्वयबोधः घट इतिपदात् सम्बन्धित्वेन घटस्यानुपस्थितेः ।

राज्ञ इति पुत्रेण जनितान्वयबोधत्वात् न पुरुषमाकाङ्क्षतीति चेत्, तर्हि नाम-विभक्ति-धात्वाख्यातार्थानां घट-कर्मत्वानयन-कृतीनां स्वरूपेणोपस्थितिर्नान्वयन्वयप्रकारकजिज्ञासानुकूलेति तत्र नाकाङ्क्षा स्यात् ।

घटः कर्मत्वमानयनं कृतिरित्यत्र घटमानयतीत्यत्रेवान्वयबोधः स्यात्, न हि तत्र पदार्थस्वरूपाणां एतद्वैलक्षण्येनोपस्थितिः, त्रयाणां तुल्यवत् स्मरणे प्रथमं

यतो राज्ञ इति पुरुषेण नान्वेति किन्तु पुत्रेण तत एवाग्र्रेऽपि व्यर्थमजनितान्वयबोधत्वमिति ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP