पाद ४ - खण्ड ५१

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - १३ - ठक्प्रकरणे तत् आह इति माशब्दादिभ्यः उपसङ्ख्यानम् ।

२ - १३ - ठक्प्रकरणे तत् आह इति माशब्दादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।

३ - १३ - माशब्दिकः नैत्यशब्दिकः कार्यशब्दिकः ।

४ - १३ - आहौ प्रभूतादिभ्यः ।

५ - १३ - आहौ प्रभूतादिभ्यः ठक् वक्तव्यः ।

६ - १३ - प्रभूतम् आह प्राभूतिकः ।

७ - १३ - पार्याप्तिकः ।

८ - १३ - पृच्छतौ सुस्नातादिभ्यः ।

९ - १३ - पृच्छतौ सुस्नातादिभ्यः ठक् वक्तव्यः ।

१० - १३ - सौस्नातिकः सौखरात्रिकः सौखशायिकः ।

११ - १३ - गच्छतौ परदारादिभ्यः ।

१२ - १३ - गच्छतौ परदारादिभ्यः ठक् वक्तव्यः ।

१३ - १३ - पारदारिकः गौरुतल्पिकः ।

१ - ४ - इह केषाम् चित् सांहितिकम् षत्वम् केषाम् चित् षिदर्थम् ।

२ - ४ - तत्र न ज्ञायते केषाम् सांहितिकम् षत्वम् केषाम् षिदर्थम् इति ।

३ - ४ - परिगणनम् कर्तव्यम् ।

४ - ४ - आकर्षात् पर्पादेः भस्त्रादिभ्यः कुसीद्सूत्रात् च आवसथात् किसरादेः षितः षट् एते ठगधिकारे ।

१ - २ - वीवधात् च इति वक्तव्यम् ।

२ - २ - वैवधिकः ।

१ - २३ - नित्यग्रहणम् किमर्थम् ।

२ - २३ - विभषा मा भूत् ।

३ - २३ - न एतत् अस्ति प्रयोजनम् ।

४ - २३ - पूर्वस्मिन् एव योगे विभाषाग्रहणम् निवृत्तम् ।

५ - २३ - इदम् तर्हि प्रयोजनम् ।

६ - २३ - त्रेः मम्नित्यवचनम् विषयार्थम् ।

७ - २३ - नित्यम् त्र्यन्तम् मब्विषयम् एव यथा स्यात् ।

८ - २३ - केवलस्य प्रयोगः मा भूत् ।

९ - २३ - अस्ति प्रयोजनम् एतत् ।

१० - २३ - किम् तर्हि इति. तत्र यथाधिकारम् तद्विषयप्रसङ्गः ।

११ - २३ - तत्र यथाधिकारम् तद्विषयता प्राप्नोति ।

१२ - २३ - निर्वृत्ते इत् वर्तते ।

१३ - २३ - तेन निर्वृत्ते एव त्र्यन्तम् मब्विषयम् स्यात् ।

१४ - २३ - ये अन्ये उपचाराः तत्र न स्यात् ।

१५ - २३ - कृत्रिमम् महत् सुविहितम् इति ।

१६ - २३ - एवम् तर्हि भावे इति प्रकृत्य इमप् वक्तव्यः कुट्टिमा भूमिः सेकिमः असिः इति एवमर्थम् ।

१७ - २३ - ततः वक्तव्यम् त्रेः ।

१८ - २३ - त्रेः मप् भवति ।

१९ - २३ - ततः नित्यम् ।

२० - २३ - नित्यम् त्र्यन्तात् इमप् इति ।

२१ - २३ - किमर्थम् इदम् ।

२२ - २३ - नित्यम् त्र्यन्तम् इमब्विषये एव यथा स्यात् ।

२३ - २३ - केवलस्य प्रयोगः मा भूत् इति ।

१ - ३ - अयम् योगः शक्यः अवक्तुम् ।

२ - ३ - कथम् चूर्णी चूर्णिनौ चूर्णिनः इति ।

३ - ३ - इनिना एतत् मत्वर्थीयेन सिद्धम् ।

१ - १४ - लवणात् लुग्वचनानर्थक्यम् रसवाचिव्तात् ।

२ - १४ - लवणात् लुग्वचनम् अनर्थकम् ।

३ - १४ - किम् कारणम् ।

४ - १४ - रसवाचिव्तात् ।

५ - १४ - रसवाची एषः लवणशब्दः ।

६ - १४ - न एषः संसृष्टनिमित्तः ।

७ - १४ - आतः च रसवाची ।

८ - १४ - असंसृष्टे च दर्शनात् ।

९ - १४ - असंसृष्टे अपि हि लवणशब्दः वर्तते ।

१० - १४ - तत् यथा ।

११ - १४ - लवणम् क्षीरम् लवणम् पानीयम् इति ।

१२ - १४ - संसृष्टे च अदर्शनात् ।

१३ - १४ - संसृष्टे अपि च यदा न उपलभ्यते तदा आह ।

१४ - १४ - अलवणः सूपः अलवणः शाकम् इति ।

१ - १५ - अयुक्तः अयम् निर्देशः ।

२ - १५ - यत् असौ अल्पम् दत्त्वा बहु गृह्णाति तत् गर्ह्यम् ।

३ - १५ - कथम् तर्हि निर्देशः कर्तव्यः ।

४ - १५ - प्रयच्छति गर्हाय इति ।

५ - १५ - सः तर्हि तथा निर्देशः कर्तव्यः ।

६ - १५ - न कर्तव्यः ।

७ - १५ - तादर्थ्यात् ताच्छब्द्यम् भविष्यति ।

८ - १५ - गर्ह्यार्थम् गर्ह्यम् ।

९ - १५ - मेस्याल्लोपः वा ।

१० - १५ - मेस्याच्छब्दलोपः वा द्रष्टव्यः ।

११ - १५ - द्विगुणम् मे स्यात् इति प्रयच्छति द्वैगुणिकः ।

१२ - १५ - त्रैगुणिकः ।

१३ - १५ - वृद्धेः वृधुषिभावः ।

१४ - १५ - वृद्धेः वृधुषिभावः वक्तव्यः ।

१५ - १५ - वार्धुषिकः ।

१ - ३ - अधर्मात् च ।

२ - ३ - अधर्मात् च इति वक्तव्यम् ।

३ - ३ - आधर्मिकः ।

१ - १० - नृनराभ्याम् अञ्वचनम् ।

२ - १० - नृनराभ्याम् च इति वक्तव्यम् ।

३ - १० - नुः धर्म्या नारी ।

४ - १० - नरस्य अपि नारी ।

५ - १० - विशसितुः इड्लोपः च ।

६ - १० - विशसितुः इड्लोपः च अञ् च वक्तव्यः ।

७ - १० - विशसितुः धर्म्यम् वैशस्त्रम् ।

८ - १० - विभाजयितुः णिलोपः च ।

९ - १० - विभाजयितुः णिलोपः च अञ् च वक्तव्यः ।

१० - १० - विभाजयितुः धर्म्यम् वैभाजित्रम् ।

१ - ७ - किम् यस्य मृदङ्गः शिल्पम् सः मार्दङ्गिकः ।

२ - ७ - किम् च अतः ।

३ - ७ - कुम्भकारे प्राप्नोति ।

४ - ७ - एवम् तर्हि उत्तरपदलोपः द्रष्टव्यः ।

५ - ७ - शिल्पम् इव शिल्पम् ।

६ - ७ - मृदङ्ग्वादनम् शिल्पम् अस्य मार्दङ्गिकः ।

७ - ७ - पैठरिकः ।

१ - १६ - किमर्थम् इदम् उच्यते ।

२ - १६ - न कक् एव उच्यते का रूपसिद्धिः शाक्तीकः याष्टीकः इति ।

३ - १६ - शक्तियष्ट्योः ईकारः अन्ते कशब्दः च प्रत्ययः ।

४ - १६ - न सिध्यति ।

५ - १६ - विभाषा च एव हि शक्तियष्ट्योः ईकारः अपि च के अणः इति ह्रस्वत्वम् प्रसज्येत ।

६ - १६ - एवम् तर्हि इकक् उच्यते ।

७ - १६ - का रूपसिद्धिः ।

८ - १६ - शाक्तीकः याष्टीकः इति ।

९ - १६ - सवर्णदीर्घत्वेन सिद्धम् ।

१० - १६ - न सिध्यति ।

११ - १६ - यस्य इति च लोपः प्राप्नोति ।

१२ - १६ - इकारोच्चारणसामार्थ्यात् न भविष्यति ।

१३ - १६ - यदि तर्हि प्राप्नुवन् विधिः उच्चारणसामर्थ्यात् बाध्यते सवर्णदीर्घत्वम् अपि न प्राप्नोति ।

१४ - १६ - यम् विधिम् प्रति उपदेशः अनर्थकः सः विधिः बाध्यते ।

१५ - १६ - यस्य तु विधेः निमित्तम् एव न असौ बाध्यते ।

१६ - १६ - यस्य इति लोपम् च प्रति इकारोच्चारणम् अनर्थकम् सवर्णदीर्घत्वस्य तु निमित्तम् एव ।

१ - ७ - किम् यस्य अस्ति मतिः सः आस्तिकः ।

२ - ७ - किम् च अतः ।

३ - ७ - चौरे अपि प्राप्नोति ।

४ - ७ - एवम् तर्हि इतिलोपः अत्र द्रष्टव्यः ।

५ - ७ - अस्ति इति अस्य मतिः आस्तिकः ।

६ - ७ - न अस्ति इति अस्य मतिः नास्तिकः ।

७ - ७ - दिष्टम् इति अस्य मतिः दैष्टिकः ।

१ - ६ - किम् यस्य छत्रधारणम् शीलम् सः छात्रः ।

२ - ६ - किम् च अतः ।

३ - ६ - राजपुरुषे प्राप्नोति ।

४ - ६ - एवम् तर्हि उत्तरपदलोपः अत्र द्रष्टव्यः. छत्रम् इव छत्रम् ।

५ - ६ - गुरुः छत्रम् ।

६ - ६ - गुरुणा शिष्यः छत्रवत् छाद्यः शिष्येण च गुरुः छत्रवत् परिपाल्यः ।

१ - १२ - हितम् भक्षाः इति चतुर्थीनिर्देशः ।

२ - १२ - हितम् भक्षाः इति चतुर्थीनिर्देशः कर्तव्यः ।

३ - १२ - इतरथा हि अनिर्देशः ।

४ - १२ - इतरथा हि निर्देशः न भवति ।

५ - १२ - हितशब्देन च योगे चतुर्थी विधीयते ।

६ - १२ - सा प्राप्नोति ।

७ - १२ - सः तर्हि चतुर्थीनिर्देशः कर्तव्यः ।

८ - १२ - न कर्तव्यः ।

९ - १२ - एवम् वक्ष्यामि ।

१० - १२ - हितम् भक्षाः तस्मै ।

११ - १२ - ततः दीयते नियुक्तम् ।

१२ - १२ - तत् अस्मै इति ।

१ - १८ - वहत्यभिधाने रथशकटहलसीरेभ्यः प्रत्ययविधानानर्थक्यम् विहितत्वात् ।

२ - १८ - वहत् इति अभिधाने रथशकटहलसीरेभ्यः प्रत्ययविधानम् अनर्थकम् ।

३ - १८ - किम् कारणम् ।

४ - १८ - विहितत्वात् ।

५ - १८ - विहितः अत्र प्रत्ययः तस्य इदम् इति ।

६ - १८ - शब्दभेदात् अविधानम् ।

७ - १८ - शब्दभेदात् अविधिः सः भवति ।

८ - १८ - अन्यः हि शब्दः रथम् वहति अन्यः हि रथस्य वोढा इति ।

९ - १८ - शब्दभेदात् अविधानम् इति चेत् अर्थाश्रयत्वात् प्रत्ययविधानस्य अर्थसामान्यात् सिद्धम् ।

१० - १८ - शब्दभेदात् अविधानम् इति चेत् अर्थाश्रयः प्रत्ययविधिः ।

११ - १८ - सः एव अर्थ रथम् वहति सः एव रथस्य वोढा इति ।

१२ - १८ - तत्र अर्थसामान्यात् सिद्धम् ।

१३ - १८ - इदम् तर्हि प्रयोजनम् ।

१४ - १८ - यः द्वौ रथौ वहति सः द्विरथ्यः ।

१५ - १८ - यः द्वयोः रथयोः वोढा सः द्विरथः ।

१६ - १८ - तेन सति लुक् भवति ।

१७ - १८ - अनेन सति कस्मात् न भवति ।

१८ - १८ - प्राक् दीव्यतः इति उच्यते ।

१ - १२ - किम् निपात्यते ।

२ - १२ - जनन्याः जनीभावः निपात्यते यत् च प्रत्ययः ।

३ - १२ - जन्याः इति निपातनानर्थक्यम् पञ्चमीनिर्देशात् ।

४ - १२ - जन्याः इति निपातनम् अनर्थकम् ।

५ - १२ - किम् कारणम् ।

६ - १२ - पञ्चमीनिर्देशात् ।

७ - १२ - जननीशब्दात् एषा पञ्चमी ।

८ - १२ - इदम् तर्हि प्रयोजनम् ।

९ - १२ - सर्वकालः प्रत्ययविधिः यथा विज्ञायेत ।

१० - १२ - जनीम् वहन्ति जन्याः ।

११ - १२ - जनीम् वोढारः जन्याः ।

१२ - १२ - जनीम् अवाक्षुः जन्याः इति ।

१ - ११ - विध्यति अकरणेन ।

२ - ११ - विध्यति अकरणेन इति वक्तव्यम् ।

३ - ११ - इतरथा ह अतिप्रसङ्गः ।

४ - ११ - अधनुषा इति उच्यमाने अत्रिप्रसङ्गः भवति ।

५ - ११ - इह अपि प्रसज्येत ।

६ - ११ - शर्कराभिः विध्यति ।

७ - ११ - कण्टकैः विध्यति इति ।

८ - ११ - तत् तर्हि वक्तव्यम् ।

९ - ११ - न वक्तव्यम् ।

१० - ११ - कस्मात् न भवति शर्कराभिः विध्यति कण्टकैः विध्यति इति ।

११ - ११ - अनभिधानात् ।

१ - १० - गृहपतिना संयुक्ते इति उच्यते ।

२ - १० - तत्र दक्षिणाग्नौ अपि प्राप्नोति ।

३ - १० - दक्षिणाग्निः अपि गृहपतिना संयुज्यते ।

४ - १० - एवम् तर्हि गृहपतिना संयुक्ते इति उच्यते सर्वः च गृहपतिना संयुक्तः ।

५ - १० - तत्र प्रकर्षगतिः भविष्यति साधीयः यः गृहपतिना संयुक्तः इति ।

६ - १० - कः च साधीयः ।

७ - १० - यस्मिन् पत्नीसंयाज्याः क्रियन्ते ।

८ - १० - अथ वा गृहपतिः नाम मन्त्रः ।

९ - १० - सः यस्मिन् उच्यते ।

१० - १० - अथ वा सञ्ज्ञायाम् इति वर्तते ।

१ - ९ - मासतन्वोः अनन्तरार्थे वा ।

२ - ९ - मासतन्वोः अनन्तरार्थे वा इति वक्तव्यम् ।

३ - ९ - मधु अस्मिन् असिति मधु अनन्तरम् वा मधव्यः माधवः ।

४ - ९ - लुगकारेकाररेफाः च ।

५ - ९ - लुगकारेकाररेफाः च प्रत्ययाः वक्तव्याः ।

६ - ९ - लुक् मधुः तपः नभः ।

७ - ९ - अकारः इषः ऊर्जः ।

८ - ९ - इकारः शुचिः ।

९ - ९ - रेफः च शुक्रः ।

१ - १८ - अक्षरसमूहे छन्दसः उपसङ्ख्यानम् ।

२ - १८ - अक्षरसमूहे छन्दसः उपसङ्ख्यानम् कर्तव्यम् ।

३ - १८ - ओ श्रावय इति चतुरक्षरम् ।

४ - १८ - अस्तु श्रौषट् इति चतुरक्षरम् ।

५ - १८ - ये यजामहे इति पञ्चाक्षरम् ।

६ - १८ - यज इति द्व्यक्षरम् ।

७ - १८ - द्व्यक्षरः वषट्कारः ।

८ - १८ - एषः वै सप्तदशाक्षरः छन्दस्यः प्रज्ञापतिः यज्ञम् अनु विहितः ।

९ - १८ - छन्दसि बहुभिर्वसव्यैरुपसङ्ख्यानम् ।

१० - १८ - छन्दसि बहुभिर्वसव्यैरुपसङ्ख्यानम् ।

११ - १८ - हस्तौ पृणस्व बहुविः वसव्यैः ।

१२ - १८ - अग्निरीशेवसव्यस्य ।

१३ - १८ - अग्निरीशेवसव्यस्य उपसङ्ख्यानम् कर्तव्यम् ।

१४ - १८ - तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् ।

१५ - १८ - न कर्तव्यम् ।

१६ - १८ - स्वार्थविज्ञानात् सिद्धम् ।

१७ - १८ - स्वार्थविज्ञानात् सिद्धम् एतत् ।

१८ - १८ - वसवः एव वसव्याः पान्तु ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP