अधिकार काण्ड: - सर्ग ८

`भट्टिकाव्यं' हे संस्कृत भाषेतील एक उत्कृष्ट काव्य आहे.


१-१ आगाधत ततो व्योम हनूमानुरु-विग्रहः,
१-२ अत्यशेरत तद्-वेगं न सुपर्णाऽर्क-मारुताः
२-१ अभायत यथाऽर्केण सुप्रातेन शरन्-मुखे,
२-२ गम्यमानं न तेनाऽऽसीदगतं क्रामता पुरः.
३-१ वियति व्यत्यतन्वातां मूर्ती हरि-पयोनिधी,
३-२ व्यत्यैतां चोत्तमं मार्गमर्केन्द्रेन्दु-निषेवितम्.
४-१ व्यतिजिग्ये समुद्रोऽपि न धैर्यं तस्य गच्छतः
४-२ व्यत्यगच्छन् न च गतं प्रचण्डोऽपि प्रभञ्जनः.
५-१ व्यतिघ्नन्तीं व्यतिघ्नन्तां राक्षसीं पवनाऽऽत्मजः
५-२ जघानाऽऽविश्य वदनं निर्यात् भित्त्वोदरं द्रुतम्
६-१ अन्योन्यं स्म व्यतियुतः शब्दान् शब्दैस् तु भीषणान्
६-२ उदन्वांश् चानिलोद्धूतो म्रियमाणा च राक्षसी.
७-१ न्यविक्षत महा-ग्राह-संकुलं मकराऽऽलयम्
७-२ सैका बहूनां कुर्वाणा नक्राणां स्वाऽऽशितम्भवम्
८-१ कृतेनोपकृतं वायोः परिक्रीणानमुत्थितम्
८-२ पित्रा संरक्षितं शक्रात् स मैनाकाऽद्रिमैक्षत.
९-१ खं पराजयमानोऽसावुन्नत्य पवनाऽत्मजम्
९-२ जगादाऽद्रिर् "विजेषीष्ठा मयि विश्रम्य वैरिणम्.
१०-१ फलान्यादत्स्व चित्राणि, परिक्रीडस्व सानुषु,
१०-२ साध्वनुक्रीडमानानि पश्य वृन्दानि पक्षिणाम्.
११-१ क्षणं भद्राऽवतिष्ठस्व, ततः प्रस्थास्यसे पुनः
११-२ न तत् संस्थास्यते कार्यं दक्षेणोरीकृतं त्वया.
१२-१ त्वयि नस् तिष्ठते प्रीतिस् तुभ्यं तिष्ठामहे वयम्,
१२-२ उत्तिष्ठमानं मित्राऽर्थे कस् त्वां न बहु मन्यते.
१३-१ ये सूर्यमुपतिष्ठन्ते मन्त्रैः संध्या-त्रयं द्विजाः,
१३-२ रक्षोभिस् तापितास् तेऽपि सिद्धिं द्यायन्ति तेऽधुना.
१४-१ अ-व्यग्रमुपतिष्ठस्व वीर ! वायोरहं सुहृत्,
१४-२ रविर् वितपतेऽत्यर्थमाश्वस्य मयि गम्यताम्.
१५-१ तीव्रमुत्तपमानो ऽयम-शक्यः सोढुमातपः,
१५-२ आघ्नान इव संदीप्तैरलातैः सर्वतो मुहुः.
१६-१ संशृणुष्व कपे ! मत्कैः संगच्छस्व वनैः शुभैः,
१६-२ समारन्त ममा ऽभीष्टाः संकल्पास् त्वय्युपागते.
१७-१ के न संविद्रते, वायोर् मैनाकाऽद्रिर् यथा सखा,
१७-२ यत्नादुपाह्वये प्रतीतः, संह्वयस्व विवक्षितम्.
१८-१ द्यामिवावयमानं तमवोचद् भूधरं कपिः
१८-२ उपकुर्वन्तमत्यर्थं प्रकुर्वाणोऽनुजीवि-वत्.
१९-१ "कुल-भार्यां प्रकुर्वाणमहं द्रष्टुं दशाननम्
१९-२ यामि त्वरा-वान् शैलेन्द्र !, मा कस्यचिदुपस्कृथाः.
२०-१ योऽपचक्रे वनात् सीतामधिचक्रे न यं हरिः,
२०-२ विकुर्वाणः स्वरानद्य बलं तस्य निहन्म्यहम्.
२१-१ विकुर्वे नगरे तस्य पापस्या ऽद्य रघु-द्विषः,
२१-२ विनेष्ये वा प्रियान् प्राणानुदानेष्येऽथवा यशः.
२२-१ विनेष्ये क्रोधमथवा क्रममाणोऽरि-संसदि"
२२-२ इत्युक्त्वा खे पराक्रंस्त तूर्णं सूनुर् नभस्वतः.
२३-१ परीक्षितुमुपाक्रंस्त राक्षसी तस्य विक्रमम्
२३-२ दिवमाक्रममाणेव केतु-तारा भय-प्रदा.
२४-१ जले विक्रममाणाया हनूमान् शत-योजनम्
२४-२ आस्यं प्रविश्य निरयादणूभूया ऽप्रचेतितः.
२५-१ द्रष्टुं प्रक्रममाणो ऽसौ सीतामम्भोनिधेस् तटम्,
२५-२ उपाक्रंस्ता ऽऽकुलं घोरैः क्रममाणैर् निशाचरैः
२६-१ आत्मानमपजानानः शश-मात्रो ऽनयद् दिनम्,
२६-२ ज्ञास्ये रात्राविति प्राज्ञः प्रत्यज्ञास्त क्रिया-पटुः.
२७-१ संजानानान् परिधरन् रावणाऽनुचरान् बहून्
२७-२ लङ्कां समाविशद् रात्रौ वदमानोऽरि-दुर्गमाम्.
२८-१ किंचिन् नोपावदिष्टा ऽसौ, केनचिद् व्यवदिष्ट न,
२८-२ शृण्वन् संप्रवदमानाद् रावणस्य गुणान् जनात्.
२९-१ जल्पितोत्क्रुष्ट-संगीत-प्रनृत्त-स्मित-वल्गितैः
२९-२ घोषस्यान्ववदिष्टेव लङ्का पुता-क्रतोः पुरः
३०-१ ऐद् विप्रवदमानैस् तां संयुक्तां ब्रह्म-राक्षसैः
३०-२ तथाऽवगिरमाणैश् च पिशाचैर् माम्स-शोणितम्.
३१-१ यथा-स्वं संगिरन्ते स्म गोष्ठीषु स्वामिनो गुणान्,
३१-२ पान-शौण्डाः पथः क्षीबा वृन्दैरुदचरन्त च.
३२-१ यानैः समचरन्ता ऽन्ये कुञ्जराऽश्व-रथाऽऽदिभिः,
३२-२ संप्रायच्छन्त बन्दीभिरन्ये पुष्प-फलं शुभम्.
३३-१ कोपात् काश्चित् प्रियैः प्रत्तमुपायंसत नाऽऽसवम्,
३३-२ प्रेम जिज्ञासमानाभ्यस् ताभ्योऽऽशप्सत कामिनः
३४-१ प्रादिदृक्षत नो नृत्यं, ना ऽशुश्रूषत गायनान्
३४-२ रामं सुस्मूर्षमाणोऽसौ कपिर् विरह-दुःखितम्.
३५-१ अनुजिज्ञासतेवाऽथ लङ्का-दर्षनमिन्दुना
३५-२ तमोऽपहविमुक्तांऽशु पूर्वस्यां दिश्युदैयत.
३६-१ आशुश्रूषन् स मैथिल्या वार्तां हर्म्येषु रक्षसाम्
३६-२ शीयमानऽन्धकारेषु समचारीद-शङ्कितः.
३७-१ शत-साहस्रमारक्षं मध्यगं रक्षसां कपिः
३७-२ ददर्श, यं कृतान्तोऽपि म्रियेताऽऽसाद्य भीषणम्,
३८-१ अध्यासिसिषमाणे ऽथ वियन्-मध्यं निशा-करे
३८-२ कासांचक्रे पुरी सौघैरतीवोद्भासिभिः सितैः
३९-१ इन्दुं चषक-संक्रान्तमुपायुङ्क्त यथाऽमृतम्,
३९-२ पयुञ्जानः प्रिया वाचः समाजाऽनुरतो जनः
४०-१ संक्ष्णुवान इवोत्कण्ठामुपाभुङ्क्त सुरामलम्
४०-२ ज्योत्स्नायां विगलन्-मानस् तरुणो रक्षसां गणः
४१-१ मध्वपाययत स्वच्छं सोत्पलं दयिताऽन्तिके
४१-२ आत्मानं सुरताऽऽभोग-विश्रम्भोत्पादनं मुहुः
४२-१ अभीषयन्त ये शक्रं राक्षसा रण-पण्डिताः
४२-२ अविस्मापयमानस् तान् कपिरोटीद् गृहाद् गृहम्,
४३-१ सीतां दिदृक्षुः प्रच्छन्नः सो ऽगर्धयत राक्षसान्,
४३-२ अवञ्चयत मायाश् च स्व-मायाभिर् नरद्विषाम्,
४४-१ अपलापयमानस्य शत्रूंस् तस्याऽभवन् मतिः
४४-२ "मिथ्या कारयते चारैर् घोषणां राक्षसाऽधिपः"
४५-१ गूहमानः स्व-माहात्म्यमटित्वा मन्त्रि-संसदः
४५-२ नृभ्यो ऽपवदमानस्य रावणस्य गृहं ययौ,
४६-१ दिशो द्योतयमानाभिर् दिव्य-नारीभिराकुलम्
४६-२ श्रियमायच्छमानाभिरुत्तमाभिरनुत्तमाम्
४७-१ नित्यमुद्यच्छमानाभिः स्मरसंभोग-कर्मसु
४७-२ जानानाभिरलं लीला-किल किंचित-विभ्रमान्
४८-१ स्वं कर्म कारयन्नास्ते निश्चिन्तो या झष-ध्वजः,
४८-२ स्वार्थं कारयमाणाभिर् यूनो मद-विमोहितान्
४९-१ कान्तिं स्वां वहमानाभिर् यजन्तीभिः स्व-विग्रहान्
४९-२ नेत्रैरिव पिबन्तीभिः पश्यतां चित्त-संहतीः
५०-१ ता हनूमान् पराकुर्वन्नगमत् पुष्पकं प्रति
५०-२ विमानं मन्दरस्याद्रेरनुकुर्वदिव श्रियम्.
५१-१ तस्मिन् कैलास-संकाशां शिरः-शृङ्गं भज-द्रुमम्
५१-२ अभिक्षिपन्तमैक्षिष्ट रावणं पर्वत-श्रियम्
५२-१ प्रवहन्तं सदामोदं सुप्तं परिजनाऽन्वितम्
५२-२ मघोने परिमृष्यन्तमारभन्तं परं स्मरे
५३-१ व्यरमत् प्रधनाद् यस्मात् परित्रस्तः सहस्र-दृक्,
५३-२ क्षणं पर्यरमत् तस्य दर्शनान् मारुताऽऽत्मजः.
५४-१ उपारंसीच् च संपश्यन् वानरस् तं चिकीर्षितात्
५४-२ रम्यं मेरुमिवाऽऽधूत-काननं श्वसनोर्मिभिः
५५-१ दृष्ट्वा दयितया साकं रहीभूतं दशाननम्
५५-२ ना ऽत्र सीतेत्युपारंस्त दुर्मना वायु-संभवः.
५६-१ ततः प्राकारमारोहत् क्षपाटानविबोधयन्,
५६-२ नाऽयोधयत् समर्थोऽपि सीता-दर्शन-लालसः.
५७-१ अध्यासीद्, "राघवस्या ऽहं नाशयेयं कथं शुचम्,
५७-२ वैदेह्या जनयेयं वा कथमानन्दमुत्तमम्.
५८-१ दृष्ट्वा राघव-कान्तां तां द्रावयिष्यामि राक्षसान्,
५८-२ तस्या हि दर्शनात् पूर्वं विक्रमः कार्य-नाश-कृत्.
५९-१ चिन्तयन्नित्थमुत्तुङ्गैः प्रावयन्तीं दिवं वनैः
५९-२ अशोक-वनिकामारादपश्यत् स्तबकाऽऽचिताम्.
६०-१ तां प्राविशत् कपि-व्याघ्रस् तरून-चलयन् शनैः
६०-२ अ-त्रासयन् वन-शयान् सुप्तान् शाखासु पक्षिणः.
६१-१ अवाद् वायुः शनैर् यस्यां लतां नर्तयमान-वत्
६१-२ नाऽऽयासयन्त संत्रस्ता ऋतवोऽन्योन्य-संपदः.
६२-१ ज्योत्स्ना ऽमृतं शशी वस्यां वापीर् विकसितोत्पलाः
६२-२ अपाययत संपूर्णः सदा दश-मुखाऽऽज्ञया.
६३-१ प्रादमयन्त पुष्पेषुं यस्यां बन्द्यः समाहृताः
६३-२ परिमोहयमाणाभी राक्षसीभिः समावृताः.
६४-१ यस्यां वासयते सीतां केवलं स्म रिपुः स्मरात्
६४-२ न त्वरोचयता ऽऽत्मानं चतुरो वृद्धि-मानपि
६५-१ मन्दायमान-गमनो हरितायत्-तरुं कपिः,
६५-२ द्रुमैः शकशकायद्भिर् मारुतेना ऽऽट सर्वतः.
६६-१ अस्यन्दन्निन्दु-मणयतो, व्यरुचन् कुमुदाऽऽकराः,
६६-२ अलोठिषत वातेन प्रकीर्णः स्तबकोच्चयाः.
६७-१ सीताऽन्तिके विवृत्सन्तं वर्त्स्यत्-सिद्धिं प्लवङ्गमम्
६७-२ पतत्रिणः शुभा मन्द्रमानुवानास् त्वजिह्लदन्.
६८-१ वर्तिष्यमाणमात्मानं सीता पत्युरिवा ऽन्तिके
६८-२ उदपश्यत् तदा तथ्यैर् निमित्तैरिष्ट-दर्शनैः.
६९-१ "निरवर्त्स्यन् न चेद् वार्ता सीताया, वितथैव नः
६९-२ अकल्प्स्यदुद्यतिः सर्वा", हनूमानित्यचिन्तयत्.
इत्यात्मनेपदाधिकारः

७०-१ वृक्षाद् वृक्षं परिक्रामन् रावणाद् बिभ्यतीं भृशम्
७०-२ शत्रोस् त्राणम-पश्यन्तीम-दृश्यो जनकाऽऽत्मजाम्
७१-१ तां पराजयमानां स प्रीते रक्ष्यां दशाऽऽननात्
७१-२ अन्तर्दधानां रक्षोभ्यो मलिनां म्लान-मूर्धजाम्
७२-१ रामादधीत-संदेशो वायोर् जातश् च्युत-स्मिताम्
७२-२ प्रभवन्तीमिवादित्यादपश्यत् कपि-कुञ्जरः.
७३-१ रोचमानः कु-दृष्टिभ्यो रक्षोभ्यः प्रत्तवान् श्रियम्
७३-२ श्लाघमानः पर-स्त्रीभ्यस् तत्रऽऽगाद् राक्षसाऽधिपः.
७४-१ अशप्त निह्नुवानो ऽसौ सीतायौ स्मर-मोहितः,
७४-२ धारयान्निव चैतस्यै वसूनि प्रत्यपद्यत.
७५-१ तस्यै स्पृहयमाणो ऽसौ बहु प्रियमभाषत,
७५-२ सानुनीतिश् च सीतायै न ऽक्रुध्यन्, नाप्यसूयत.
७६-१ "संक्रुध्यसि मृशा किं त्वं दिदृक्षुं मां मृगेक्षणे !,
७६-२ ईक्षितव्यं पर-स्त्रीभ्यः स्व-धर्मो रक्षसामयम्.
७७-१ शृण्वद्भ्यः प्रतिशृण्वन्ति मध्यमा भीरु ! नोत्तमाः,
७७-२ गृणद्भ्यो ऽनुगृणन्त्यन्ये ऽकृताऽर्था, नैव मद्-विधाः.
७८-१ इच्छ स्नेहेन दीव्यन्ती विषयान् भुवनेश्वरम्,
७८-२ संभोगाय परिक्रीतः कर्तास्मि तव ना ऽप्रियम्.
७९-१ आस्स्व साकं मया सौधे, माऽधिष्ठा निर्-जनं वनम्
७९-२ मा ऽधिवात्सीर् भुवं, शय्यामधिशेष्व स्मरोत्सुका.
८०-१ अभिन्यविक्षथास् त्वं मे यथैवाऽव्याहता मनः,
८०-२ तवाऽप्यध्यावसन्तं मां मा रौत्सीर् हृदयं तथा.
८१-१ मा ऽवमंस्था नामस्यन्तम्-कार्य-ज्ञे ! जगत्-पतिम्,
८१-२ संदृष्टे मयि काकुत्स्थम-धन्यं कामयेत ? का.
८२-१ यः पयो दोग्धि पाषाणं, स रामाद् भूतिमाप्नुयात्,
८२-२ रावणं गमय प्रीतिं बोधयन्तं हिताऽहितं.
८३-१ प्रीतो ऽहं भोजयिष्यामि भवतीं भुवन-त्रयम्,
८३-२ किं विलापयसेऽत्यर्थं, पार्श्वे शायय रावणम्.
८४-१ आज्ञां कारय रक्षोभिर्, मा प्रियाण्युपहारय,
८४-२ कः शक्रेण कृतं नेच्छेदधिमुर्धानमञ्जलिम्.
इति कारकाधिकारः

८५-१ वचनं रक्षसां पत्युरनु क्रुद्धा पति-प्रिया
८५-२ पापाऽनुवासितं सीता रावणं प्राब्रवीद् वचः
८६-१ "न भवाननु रामं चेदुप शूरेषु वा, ततः
८६-२ अपवाह्य च्छलाद् वीरौ किमर्थं मामिहा ऽहरः,
८७-१ "उप-शूरं न ते वृत्तं कथं रात्रिंचराऽधम !
८७-२ यत् संप्रत्यपलोकेभ्यो लङ्कायां वसतिर् भयात्
८८-१ आ राम-दर्शनात् पाप ! विद्योतस्व स्त्रियः प्रति
८८-२ सद्-वृत्ताननु दुर्-वृत्तः परस्त्रीं जात-मन्मथः
८९-१ अभि द्योतिष्यते रामो भवन्तम-चिरादिह,
८९-२ उद्गूर्ण-बाणः संग्रामे यो नारायणतः प्रति.
९०-१ कुतो ऽधियास्यसि क्रूर ! निहतस् तेन पत्रिभिः
९०-२ न सूक्तं भवता ऽत्युग्रमतिरामं मदोद्धत !
९१-१ परिशेषं न नामा ऽपि स्थापयिष्यति ते विभुः,
९१-२ अपि स्थाणुं जयेद् रामो, भवतो ग्रहणं कियत्.
९२-१ अपि स्तूह्यपिसेधा ऽस्मांस् तथ्यमुक्तं नराऽशन् !,
९२-२ अपि सिञ्चेः कृशानौ त्वं दर्पं, मय्यपि यो ऽभिकः.
९३-१ अधिरामे पराक्रान्तमधिकर्ता स ते क्षयम्,"
९३-२ इत्युक्त्वा मैथिली तूष्णीमासांचक्रे दशाननम्.
९४-१ ततः खड्गं समुद्यम्य रावणः क्रूर-विग्रहः
९४-२ वैदेहीमन्तरा क्रुद्धः क्षणमूचे विनिश्वसन्.
९५-१ "चिरेणा ऽनुगुणं प्रोक्ता प्रतिपत्ति-पराङ्मुखी
९५-२ न मासे प्रतिपत्तासे मां चेन्, मर्तासि मैथिलि !"
९६-१ प्रायुङ्क्त राक्षसीर् भीमा मन्दिराय प्रतिव्रजन्
९६-२ "भयानि दत्त सीतायै सर्वा यूयं कृते मम."
९७-१ गते तस्मिन् समाजग्मुर् भयाय प्रति मैथिलीम्
९७-२ राक्षस्यो, रावण-प्रीत्यै क्रूरं चोचुरलं मुहुः
९८-१ "रावणाय नमस्कुयाः, स्यात् सीते ! स्वस्ति ते ध्रुवम्
९८-२ अन्यथा प्रातराशाय कुर्याम त्वामलं वयम्.
९९-१ तृणाय मत्वा ताः सर्वा वदन्तीस् त्रिजटा ऽवदत्
९९-२ "आत्मानं हत दुर्वृत्ताः ! स्व-मांसैः कुरुता ऽशनम्.
१००-१ अद्य सीता मया दृष्टा सूर्यं चन्द्रमसा सह
१००-२ स्वप्ने स्पृशन्ती मध्येन तनुः श्यामा सुलोचना.
१०१-१ तास् तया तर्जिताः सर्वा मुखैर् भीमा यथाऽऽगतम्
१०१-२ ययुः सुषुप्सवस् तल्पं भीमैर् वचन-कर्मभिः
१०२-१ गतासु तासु मैथिल्या संजानानो ऽनिलाऽऽत्मजः
१०२-२ आयातेन दशाऽऽस्यस्य संस्थितो ऽन्तर्हितश् चिरम्
१०३-१ ऋणाद् बद्ध इवान्मुक्तो वियोगेन क्रतु-द्विषः
१०३-२ हेतोर् बोधस्य मैथिल्याः प्रास्तावीद् राम-संकथाम्.
१०४-१ तं दृष्ट्वा ऽचिन्तयत् सीता-"हेतोः कस्यैष रावणः
१०४-२ अवरुह्य तरोरारादैति वानर-विग्रहः
१०५-१ पूर्वस्मादन्य-वद् भाति भावाद् दाशरथिं स्तूवन्,
१०५-२ ऋते क्रौर्यात् समायातो मां विश्वासयितुं नु किम् ?
१०६-१ इतरो रावणादेष राघवाऽनुचरो यदि,
१०६-२ स-फलानि निमित्तानि प्राक् प्रभातात् ततो मम.
१०७-१ उत्तराहि वसन् रामः समुद्राद् रक्षसां पुरम्
१०७-२ अवैल् लवण-तोयस्य स्थितां दक्षिणतः कथम्.
१०८-१ दण्डकान् दक्षिणेना ऽहं सरितो ऽद्रीन् वनानि च
१०८-२ अतिक्रम्या ऽम्बुधिं चैव पुंसामगममाहृता.
१०९-१ पृथङ् नभस्वतश् चण्डाद् वैनतेयेन वा विना
१०९-२ गन्तुमुत्सहते नेह कश्चित् किमुत वानरः.
११०-१ इति चिन्ता-वतीं कृच्छ्रात् समासाद्य कपि-द्विपः
११०-२ मुक्तां स्तोकेन रक्षोभिः प्रोचे"ऽहं राम-किङ्करः
१११-१ विप्रकृष्टं महेन्द्रस्य न दूरं विन्ध्य-पर्वतात्
१११-२ ना ऽनभ्याशे समुद्रस्य तव माल्यवति प्रियः.
११२-१ अ-संप्राप्ते दश-ग्रीवे प्रविष्टो ऽहमिदं वनम्
११२-२ तस्मिन् प्रतिगते द्रष्टुं त्वामुपाक्रंस्यचेतितः
११३-१ तस्मिन् वदति रुष्टो ऽपि ना ऽकार्षं देवि ! विक्रमम्
११३-२ अ-विनाशाय कार्यस्य विचिन्वानः परापरम्.
११४-१ वानरेषु कपिः स्वामी नरेष्वधिपतेः सखा
११४-२ जातो रामस्य सुग्रीवस् ततो दूतो ऽहमागतः
११५-१ ईश्वरस्य निशाटानां विलोक्य निखिलां पुरीम्
११५-२ कुशलो ऽन्वेषणस्याऽहमायुक्तो दूत-कर्मणि
११६-१ दर्शनीय-तमाः पश्यन् स्त्रीषु दिव्यास्वपि स्त्रियः
११६-२ प्राप्तो व्याल-तमान् व्यस्यन् भूजङ्गेभ्यो ऽपि राक्षसान्
११७-१ भवत्यामुत्सुको रामः प्रसितः संगमेन ते
११७-२ मघासु कृत-निर्वापः पितृभ्यो मां व्यसर्जयत्.
११८-१ अयं मैथिल्यभिज्ञानं काकुत्स्थस्या ऽङ्गुलीयकः
११८-२ भवत्या स्मरता ऽत्यर्थमर्पितः सादरं मम.
११९-१ रामस्य दयमानो ऽसावध्येति तव लक्ष्मणः,
११९-२ उपास्कृषातां राजेन्द्रावागमस्येह, मा त्रसीः.
१२०-१ रावणस्येह रोक्ष्यन्ति कपयो भीम-विक्रमाः,
१२०-२ धृत्या नाथस्व वैदेहि !, मन्योरुज्जासयाऽऽत्मनः.
१२१-१ राक्षसानां मयि गते रामः प्रणिहनिष्यति
१२१-२ प्राणानामपणिष्टाऽयं रावणस् त्वामिहानयन्.
१२२-१ अदेवीद् बन्धु-भोगानां, प्रादेवीदात्म-संपदम्,
१२२-२ शत-कृत्वस् तवैकस्याः स्मरत्यह्नो रघूत्तमः.
१२३-१ तवोपशायिका यावद् राक्षस्यश् चेतयन्ति न,
१२३-२ प्रतिसंदिश्यतां तावद् भर्तुः शार्ङ्गस्य मैथिलि !
१२४-१ पुरः प्रवेशमाश्चर्यं बुद्ध्वा शाखा-मृगेण सा
१२४-२ चूडा-माणिमभिज्ञानं ददौ रामस्य संमतम्.
१२५-१ रामस्य शयितं भुक्तं जल्पितं हसितं स्थितम्
१२५-२ प्रक्रान्तं च मुहुः पृष्ट्वा हनूमन्तं व्यसर्जयत्.
१२६-१ असौ दधदभिज्ञानं चिकीर्षुः कर्म दारुणम्
१२६-२ गामुको ऽप्यन्तिकं भर्तुर् मनसा ऽचिन्तयत् क्षणम्.
१२७-१ "कृत्वा कर्म यथाऽऽदिष्टं पूर्व-कार्याऽविरोधि यः
१२७-२ करोत्यभ्यधिकं कृत्यं, तमाहुर् दूतमुत्तमम्.
१२८-१ वैदेहीं दृष्टवान् कर्म कृत्वा ऽन्यैरपि दुष्करम्
१२८-२ यशो यास्याम्युपादाता वार्तामाख्यायकः प्रभोः.
१२९-१ राक्षसेन्द्रस्य संरक्ष्यं मया लव्यमिदं वनम्,"
१२९-२ इति संचित्य सदृशं नन्दनस्या ऽभवक् कपिः.
१३०-१ राघवाभ्यां शिवं, दूतस् तयोरहमिति ब्रुवन्
१३०-२ हितो भनज्मि रामस्य, कः किं ब्रूते ऽत्र राक्षसः,
१३१-१ विलुलित-पुष्प-रेणु-कपिशं प्रशान्त-कलिका-पलाश-कुसुमं कुसुम-निपात-विचित्र-वसुधं स-शब्द-निपतद् द्रुमोत्क-शकुनम्
१३१-२ शकुन-निनाद-नादि-ककुब् विलोल-विपलायमान-हरिणं हरिण-विलोचनाऽधिवसतिं बभञ्ज पवनाऽऽत्मजो रिपु-वनम्.

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP