संस्कृत सूची|पूजा विधीः|व्रतोद्यापन प्रयोगः|
पूजा भाग ७

व्रतोद्यापन प्रयोगः - पूजा भाग ७

व्रत केल्यावर त्याचे उद्यापन पूर्ण झाल्याशिवाय फळ मिळत नाही, म्हणून उद्यापनांच्या प्रयोगांचा संग्रह. व्रत उद्यापनाने यजमानाची कर्मपूर्ति होते.


ॐ मनो जूतिर्जुषतामिति प्रतिष्ठाप्य यथालब्धोपचारैः ॐ ब्रह्मदिसर्वतोभद्रमण्डलदेवताभ्यो नमः । इति मंत्रेण पूजयेत‍ ॥ ततो वेदीमध्ये । ॐ महीद्यौरित्यादिपूर्वोक्तैर्वैकैर्मंत्रैस्ताम्रकलशं यथाविधि पूर्ण पात्रांतं संस्थाप्य । तत्र ॐ तत्त्वायामितिवरुणमावाह्य । ॐ अपांपतिवरुणाय नमः ॥ इति संपूज्य। कलशस्य मुखे विष्णुरित्यभिमंत्र्य । देवदानवसंवादे० इत्यादि प्रार्थयेत् ॥ ततः कलशोपरिपट्टवस्त्र्म प्रसार्य्य तदुपरि गंधाष्टकेन प्रधानदेवतायंत्र विलिख्य तन्मध्ये कर्षेण तदर्द्धन वा सुवर्णेन रचितां प्रधानदेवप्रतिमामग्र्युत्तारण पूर्वकं स्थापयेत् ॥ अथग्न्युत्तारणम् ॥ तावत्साचार्यो यजमानः देशकालौ स्मृत्वा । ममात्मनः श्रुतिस्मृतिपुराणोक्तलप्राप्त्यर्थमस्याः स्वर्णमय्यमुकदेवप्रतिमाया घटनादिदोषपरिहारार्थमग्न्युत्तारणपूर्वकं प्राणप्रतिष्ठां करिष्ये । इति संकल्प । मूर्तिं ताम्रपात्रे निधाय घृतेनाभ्यज्य तदुपरि दुग्धदाराम जलधारां च पातयेत् । सूक्तंवारद्वयं च पठेत् ॥ तत्र मंत्राः । ॐ समुद्रस्यत्त्वावकयाग्ग्रे परिळ्ययामसिपावकोऽस्म्मभ्यर्ठःशिवोभव ॥१॥
हिमस्य्त्वाजरायुणाग्ग्रेप रिव्व्ययामसिपावकोऽअस्म्मश्र्यर्ठःशिवोभव ॥२॥
अपामिदन्न्वयनर्ठ समुद्रस्यनिवेशनम् । अन्न्यास्ते अस्म्मत्तपन्तुहेतयः पावकोऽह्स्म्मम्यर्ठःशिवोभव ॥३॥
नमस्तेहरसेशोचिषेनमस्तेऽ अस्त्वर्चिषै । अन्यास्तेऽअ स्म्मत्तपन्तुहेतहः पावकोऽअस्म्मश्र्य शिवोभव ॥४॥
प्राणदाऽअपानदाव्व्यांनदाव्वर्चोदाव्वरिवोदाः । अन्यास्तेऽअस्म्मत्तपन्तुहेतयः पावकोऽअस्म्मश्र्य शिवो भव ॥५॥
इत्यग्र्युत्तरणमंत्राहः
अथ प्राणप्रतिष्ठा । अस्यश्रीप्रानप्रतिष्ठामंत्रस्य ब्रह्मविष्णुमहेश्वराऋषयः ऋग्यजुः सामानि च्छदांसि क्रियामयवपुः प्राणाख्या देवताह आंबीजम् ह्रीं शक्तिः क्रीकीलकम‍ अस्यां नूतनमूर्त्तौ प्राण प्रतिष्ठापने विनियोगः ॐ आँ ह्रीं क्रौं यँ रँ लँ वँ शँ षँ मँ हों हँ सः १४ अस्या अमुक्त देवप्रतिमायाः प्राणा इह प्राणाः । पुनः ॐ आँ ह्रीं क्रौं यँ रँ लँ वँ शँ षँ सँ हों हँसः १४ अस्या अमुक्तदेवप्रतिमाया जीव इहस्थितः। पुनः ॐ आँ ह्रीं क्रौं यँ रँ लँ शँ षँ सँ हों हँ सः १४ अस्या अमुकदेवताप्रतिमायाः सर्वेद्रियाणि वाङ्‌मनस्त्वक्‌चक्षुः श्रोत्रजिह्राघ्राणपाणिपादयापूपस्थानि इहैवा गत्यसुखंचिरं तिष्ठंतु स्वाहा । ॐ मनोजूतिर्जुषतामाज्यस्यबृहपतिर्य्यज्ञममन्त नोत्वरिष्ठंज्ञर्ठसमि मंदधातुव्विश्वेदेवासऽइहमादयन्तामों ३ प्रतिष्ठ ॥१॥  
एषवैप्रतिष्ठानाम यज्ञोयत्रैयत्रतेनयज्ञेनयज्यजन्तेसर्वमेव प्रतिष्ठिंतभवति २ इति प्रतिष्ठाप्य संस्कारसिद्धये पंचदशप्रणवावृत्तीः कृत्वा षोडशौपचारैः पूजयेत् (तत्र विष्णुं पुरुषसूक्तेन । शिंव त्र्यंबकंमत्रेण पंचाक्षरेण वा । गणपतिं गणानांत्वेतिमंत्रेण देवी श्री सूक्तेन सूर्य्यं पुरुषसूक्तेन च षोडशोपचारैः पृजयेत् । सर्वेषां व पुरुषसूक्तैन पूजाकरणं) तत्रादौ स्वशरीरेदेवाङे च पुरुषसूक्तन्यासं कुर्यात्  “देवो भूत्वा देवं यजेत्" इति वाक्यात् । अथाङुन्यासः । सहस्त्रशीर्षेत्यादिषोडशर्चसूक्तस्य नारायण ऋषिः पुरुषो देवता । अनुष्टुप्छंदः । अंत्यायास्त्रिष्टुप्छ्न्दः । न्यासे पूजायां च विनियोगः । ॐ महस्त्रशीर्षा० इति वामकरे १ ॐ पुरुषऽएवेदर्ठः इतिदक्षिणकरे २ ॐ ए तावानास्य० इति वामपादे ३ ॐ त्रिपादूर्ध्व० इति दक्षिणपादे ४ ॐ ततोव्विराटू० इति वामजानुनि ५ ॐ तस्माद्यज्ञात्सर्वहुतः० इति दक्षिणजानुनि ६ ॐ तस्माद्यज्ञात्सर्वहुतऽऋचः० इति वामकटौ ७ ॐ तस्मादश्वा० इति दक्षिणकटौ ८ ॐ तंयज्ञं० इति नाभौ९ॐ यत्पुरुषं० इति ह्रदये ०१० ॐब्राह्मणोस्य इति कंठे११ॐ चंद्रमामनसो० इति वामबाहौ१२ॐ नाभ्याऽआसित० इति दक्षिणबाहौ १३ ॐ यत्पुरुषेण० इतिमुखे१४ सप्तास्यासन्० इतिनेत्रयोः १५ ॐ यज्ञेनयज्ञमय० इति मूर्ध्नि १६ अथपंचांगन्यासः । ॐ अश्र्द्यः संभृतइति ह्रदये १ ॐ व्वेदाहमेतम्‌ इति शिरसि २ ॐ प्रजापतिश्व० इत शिखायै वषटू ३ ॐ योदेवे भ्यऽआतपति० इति कवचायहूम् ४ ॐ रुचब्राह्यं० रुचम्ब्राह्मं० इत्यस्नायफटू ५ एवं न्यास कृत्वा आचम्य कलशं शंखघटे च संपूज्य देवं ध्यायन् घंटानादं कृत्वा पूजां कुर्यात् ॥ अथ सर्वदेवोपयोगिषोडशोप चारपूजाप्रयोगः ॥ आत्मसंस्थमजं सुद्धं त्वामहं परमेश्वर । अरण्यामिवहव्यांश मूर्तावावाहयाम्य हम् ॥१॥

ॐ सहस्त्रशीर्षापुरुषः सहस्त्राक्षः सहस्त्रपात् । सभूमिर्ठः सर्वतस्पृत्वात्यतिष्ठद्दशांगुलम् १ ॐ भूर्भुवः स्वः अमुकदेवमाहयामि । इत्यावाहनम् ॥१॥

देवदेव महाराज प्रियेश्वर प्रजापते ॥ आंसनं दिव्यमीशान दास्येहं परमेश्वर ॥१॥  
ॐ पुरुषऽएवेदर्ठः संर्वयद्धूतंयच्चभाव्व्यम् ॥ उतामृतत्वस्येशानोदन्नेनातिरोहति ॐ भू० अमुकदेवाय नमः इदमासनम् । इत्यासनम् ॥२॥
(देवीपोजायां स्त्रीलिंगेचोनोच्चारणं कार्य्यम् ) यद्धक्तिलेशसंपर्कोत्परमानंदविग्रहम् । तस्मै ते चरणाब्जाय पाद्यं शुद्धाय कल्पये ॥१॥
ॐ एतावानस्यमहिमातोज्यायांश्वपूरुषः । पादोस्यव्विश्वा भूतानित्रिपादस्यामृतंदिवि । ॐ भू० अमुकदेवाय नमः पादयोः पाद्यं समर्पयामि । इति पाद्यम् ॥३॥
तापत्रयहरं दिव्यं परमानंदलक्षणम् । तापत्रयविनिर्मुक्तं तवार्घ्यं कल्पयाम्यहम् ॥१॥
ॐ त्रिपादू र्ध्वऽउदैत्पुरुषः पादोस्येहाभवत्पुनः । ततोव्विष्वड्‌ व्व्यक्रामत्साशनानशनेऽअभि । ॐ भू० अमुकदेवाय नमः इदमर्ध्यं० । इत्यर्घ्यम् ॥४॥
वदानामपि वेद्याय देवानां देवतात्मने  । आचामं कल्पयामीश शुद्धानां शुद्धिहेतवे ॥१॥
ॐ ततोव्विराडजायतव्विराजोऽअधिपूरुषः । सजातो अत्यरिच्च्यपश्वाद्धूमिमथोपुरः । ॐ भू० अमुकदेवाय० आचमनीयं० ॥ इत्याचमनम् ॥५॥
गंगा सरस्वतीरेवापयोष्णीनर्मदाजलैः ॥ स्नापितोसि मया देव तथा शांतिं कुरुष्व मे ॥१॥
ॐ तस्माद्यज्ञात्सर्व्वहुतःसम्भृतम्पृषदाज्यम् । पशूँस्तांश्वक्रेवायव्व्यानारण्याग्ग्राम्याश्वये । ॐ भू० अमुकदेवा य० स्नानंसम० ॥ इतिस्नानम् ॥६॥
अथपयस्स्नानम् । कामधेनुसमुत्पन्नं सर्वेषां जीवनंपरम् । पावनं यज्ञहेतुश्व पयः स्नानार्थमर्पितम् । ॐ पयःपृथिव्याम्पयऽओषधीषुपयोदिव्व्यन्तरिक्षेपयोधाः पयस्व तीःप्प्रदिशःसन्तुमह्यम् । ॐ भू० अमुकदेवाय० पयस्स्नानंसः० ॥१॥
दधिस्नानम् । पयसस्तु समुद्धूतं मधुराम्लं शशिप्रभम् । दध्यानीतं मया देव स्नानार्थ प्रतिगृह्यताम् । ॐ दधिक्राण्णोऽअकारि षञ्जिष्णोरश्वस्यव्वाजिनः । सुरभिनोमुखाकरत्प्रणऽआयूषितारिषत् । ॐ भू० अमुकदेवाय० दधिस्नानंस० ॥२॥  
घृतस्नानम् । नवनीतसमुत्पन्नं सर्वसंतोषकारकम् ॥ घृतं तुभ्यं प्रदास्यामि स्नानार्थ प्रतिगृह्यताम् । ॐ कृतंघृतपावानः पिबतसाम्बसापावानः पिबतान्तरिक्षस्यहविरसिस्वाहा दिशःप्रदिशऽआदिशोव्विदिशऽउद्दिशोदिग्भ्यः स्वाहा ॥ ॐ ॥ भू० अमुकदेवाय० घृतस्नानं० ॥३॥

(मधुस्नानम्) तरुपुष्पसमुद्धूतं सुस्वादु मधुरं मधु । तेजःपुष्टिकरं दिव्यं स्नानार्थ प्रतिगृह्यताम् ॥ ॐ मधुव्वाताऽऋतायतेमधुक्षर्न्तिसिंधवः । माध्वीर्न्नः सन्त्वोषधीः ॥१॥
ॐ मधुनक्तमुतोषसोमधुमं त्पार्थिवरजः । मधुद्यौरस्तुनः पिता ॥२॥
ॐ मधुमान्नोव्वनस्पतिर्म्मधुमा ॥२॥
ऽअस्तुसूर्य्यः । माध्वीर्गावोभवंतुनः ॥३॥
ॐ भू० अमुकदेवाय० मधुस्नानं स० ॥४॥
(शर्करोदकस्नानम्) इक्षुसा रसमुद्धूता शर्करा पुष्टिकारिका । मलापहारिका दिव्या स्नानार्थ प्रतिगृह्यताम् । ॐ अपारंसमुद्व यसर्ठसूर्येसन्तर्ठसमाहितम् । अपारसस्ययोरसस्तंव्वोगृह्याम्युत्तममुपयामगृहीतोसीन्द्राय्त्वाजुष्टंगृह्राम्येषतेयोनिरिन्द्रामत्वाजुष्टतम् ॥ ॐ भू० अमुकदेवाय० शर्करोद्कस्नानं समर्पयामि ॥५॥
(पंचामृतस्नानम्) पयो दधि घृतं चैव मधु च शर्करायुतम् । पंचामृतं मयानीतं स्नानार्थ प्रतिगृह्यताम् । ॐ पंचनद्यः सरस्वतीमपियन्तिसस्त्रोतसः । सरस्वतीतुपंचधासोदेशेभवत्सरित् । ॐ भू० अमुकदेवाय नमः पंचामृतस्नानं समर्पयामि ॥६॥
ॐ  व्वरुणस्योत्तंभनमसिव्वरुणस्यस्कंभसर्ज्जनीस्थोव्वरुणस्यऽऋत सदन्यसि । व्वरुणस्यऽऋतसदनमसिव्वरुणस्यऽऋतसदनमासीद । ॐ भू० अमुकदेवाय० शुद्धोदकस्नानं स० । इति शुद्धोदकस्नानम्‍ ॥७॥
(अथाभिषेकः) शिवसूर्यातिरिक्तदेवेषु शंखेनाभिषेकं कुर्यात्‌ ) ॐ सहस्त्रशीर्षा० १ पुरुषऽएवे०२ एतावान०३ त्रिपादूर्ध्व०४ ततोव्विराड० ५ तस्माद्यज्ञात्स० ६ तस्माद्यज्ञात्स० ६ तस्माद्यज्ञात्सर्व्वहुत० ७ तस्मादश्वाऽअजायन्त० ८ तंय्यज्ञम्बर्हि षि०९ यत्पुरुषं० १० ब्राह्मणोस्य० ११ चन्द्रमामनसो०० १२ नाभ्याऽआसीद० १३ यत्पुरुषे० १४ सप्तास्या० १५ यज्ञेनयज्ञ० १६ एवं पुरुषसूक्तेन तत्तन्नाममंत्रेण वा यथाशक्ति अभिषेकं कृत्वा आमचनं दद्यात्‍ ॥ (वस्त्रम्‍) सर्वभूषाधिके सौम्ये लोकलज्जानिवारणे ॥ मयोपपा दिते तुभ्यं वाससी प्रतिगृह्यताम्‍ ॥ औ तस्माद्यज्ञात्सर्व्वहुतऽऋचः सामानियज्ञिरे । छंदा सिय ज्ञिरेतस्माद्यजुस्तमादजायत ॥ ॐ अमुकदेवाय० वस्त्रयुग्मं स० । आचमनं च समर्पयामि ॥७॥     

(पीतं विष्णा सितं शंभौ रक्तं विघ्रार्कशक्तिषु । सच्छिद्रं मलिनं जीर्ण त्यजेत्तैला दिदूषितम्) (यज्ञोपवीतम्) नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् । उपवीतं चोत्तरीयं गृहाण परमेश्वर ॥ ॐ तस्मादश्वाऽअजायन्तयेकेचोभयादतः । गावो हयज्ञिरे तस्मात्तस्माज्जाताऽअजावयः ॥ ॐ भू० अमुकदेवाय० यज्ञोपवीतं स० ॥८॥
(आचमनम्) (गंधम्) श्रीखंड चन्दनं दिव्यं गंधाढ्यं सुमनोहरम् । विलेपनं सुरश्रेष्ठ चंदनं प्रतिगृह्यताम् । ॐ तंयज्ञम्बर्हिषिप्रौक्षन्न्पुरुषञ्जातमग्रतः । तेनदेवाऽयजन्तसाध्याऽऋषयश्वये । ॐ अमुकदेवाय० गंधं स० ॥९॥
(अंगुष्ठौ कनिष्ठामूललग्नौ गन्धमुद्रा) (अक्षतान्) अक्षताश्व सुरश्रेष्ठ कुंकुमाक्ताः सुशोभिताः । मया निवेदिता भक्त्या गृहाण परमेश्वर । ॐ अक्षन्नमीमदन्तह्यवप्रियाऽअधूषत । अस्तोषतस्वभायवोव्विप्रानविष्ठ्यामतीयोजान्विन्द्रतेहरी । ॐ भू० अमुकदेवाय० अक्षतान् स० ॥१०॥
(पुष्पाणि) माल्यादिनि सुगंधानि मालत्यादिनि वै प्रभो । मयानीतानि पुष्पाणि गृहाण परमेश्वर । ॐ यत्पुरुषंव्यदधुः कतिधाव्यकल्पयन् । मुखंकिमस्यासीत्किंबाहूकिमूरुपादाऽउच्येते ॥ अमुकदेवाय पुष्पाणि स० ॥११॥
(विष्णवे तुलसी शिवायबिल्पत्रं गणेशाय दूर्वांकुरान् सुरभिपुष्पाणि सूर्य्याय अर्कपुष्पाणि चार्प येत्) (तर्जन्यंगुष्ठयोगेनपत्रमुद्रा)
(अत्रावसरेतत्तदुद्यापनकल्पोक्तामावरणदेवतापूजां कृत्वा धूपादिनिवेदनं कार्य्यम्‍) अथधूपम् ॥ वनस्पतिरसोद्धूतोगंधाढ्योगंध उत्तमः । आघ्रेयः सर्वदेवानां धूपोयं प्रतिगृह्यताम् । ॐ ब्राह्मणोस्यमुखमासीद्वाहू राजन्यःकृतः । ऊरुतदस्ययद्वैश्यःपभ्द्याशूद्रो अजायत ॥ ॐ अमुकदेवाय० सांगाय० धूपसमर्पयामि ॥१२॥  
(तर्जनीमूलयोरंगुष्ठ योगेन धूपमुद्रा) ॥ दीपम् ॥ सुप्रकाशो महादीपः सर्वतास्तिमिरापहः । स बाह्यभ्यंतरं ज्योति र्दीपोयं प्रतिगृह्यताम् ॥ ॐ चंद्रमामनसोजातश्वक्षोः सूर्योऽअजायत ॥ श्रोत्राद्वायुश्वप्राणश्व मुखादन्गि रजायत् ॥ ॐ भू० अमुकदेवाय० सांगाय० दीपं स० ॥१३॥
(मध्यमांगुष्ठयोगेन दीपमुद्रा) अथ नैवेद्यम् ॥ (ततः स्वर्णादिभाजने देवताग्रे देवदक्षिणतो वा साज्यं सजर्करं पायसादि नैवेद्यं परिवेष्य) सत्पात्रसिद्धं सुहविर्विविधानेकभक्षणम् । निवेदयामि देवेश सानुगाय गृहाण तत् ॥ ॐ  नाब्भ्याऽआसीदन्तरिक्षशीर्ष्णोद्यौः समवर्तत ॥ पदूभ्याम्भूमिर्द्दिशः श्रोत्रात्तथा लोका ॥ अकल्पयन् ॥ ॐ भू० सांगायामुकदेवाय नमः । इदं नैवेद्यं समर्पयामि । इति पठित्वा भूतले देव दक्षिणे जलं क्षिप्त्वा नैवेद्यमुद्रां प्रदर्शयेत् (अनामामूलयोरंगुष्ठयोगेन नैवेद्यमुद्रा) ॥१४॥

N/A

References : N/A
Last Updated : May 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP