दुर्गा सप्तशती - प्राधानिकरहस्यम्

दुर्गा सप्तशतीचा पाठ केल्याने जीवनातील सर्व पापे नष्ट होऊन मुक्ति मिळते.

अथ प्राधानिकरहस्यम् ॥

स्य श्रीसप्तशतीरहस्यत्रयस्य ब्रह्मविष्णुरुद्रा ऋषयः ॥ महाकालीमहालक्ष्मीमहासरस्वत्यो देवताः ॥ अनुष्टुपछंदः ॥ नवदुर्गा महालक्ष्मीर्बीजम् ॥ श्रींशक्तिः ॥ ममाभीष्टफलसिद्धये सप्तशतीपाठांते जपे विनियोगः ॥ राजोवाच ॥ भगवन्नवतारा मे चंडिकायास्त्वयोदिताः ॥ एतेषां प्रकृतिं ब्रह्मन्प्रधानं वक्तुमर्हसि ॥१॥
आराध्यं यन्मया देव्याः स्वरुपं येन वै द्विज ॥ विधिना बूहि सकलं यथावत्प्रणतस्य मे ॥२॥
ऋषिरुवाच ॥ इदं रहस्यं परममनाख्येयं प्रचक्षते ॥ भक्तोऽसीति न मे किंचित्तवावाच्यं नराधिप ॥३॥
सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्वरी ॥ लक्ष्यालक्ष्यस्वरुपा सा व्याप्य कृत्स्नं व्यवस्थिता ॥४॥
मातुलिंगं गदां खेटं पानपात्रं च बिभ्रती ॥ नागं लिंगं च योनिं च बिभ्रती नृप मूर्धनि ॥५॥
तप्तकांचनवर्णाभा तप्तकाञ्चनभूषणा ॥ शून्यं तदखिलं स्वेन पूरयामास तेजसा ॥६॥
शून्यं तदखिलं लोकं विलोक्य परमेश्वरी ॥ बभार रुपमपरं तमसा केवलेन हि ॥७॥
सा भिन्नांजनसंकाशा दंष्ट्रांचितवरानना ॥ विशाललोचना नारी बभूव तनुमध्यमा ॥८॥
खङ्गपात्रशिरः खेटैरलंकृतचतुर्भुजा ॥ कबंधहारं शिरसा बिभ्राणाऽहिशिरः स्रजम् ॥९॥
सा प्रोवाच महालक्ष्मीस्तामसीं प्रमदोत्तमाम् ॥ ददामि तव नामानि यानि कर्माणि तानि ते ॥१०॥
महामाया महाकाली महामारी क्षुधा तृषा ॥ निद्रा तृष्णा चैकवीरा कालरात्रिर्दुरत्यया ॥११॥
इमानि तव नामानि प्रतिपाद्यानि कर्मभिः ॥ एभिः कर्माणि ते ज्ञात्वा योऽधीते सोऽश्नुते सुखम् ॥१२॥
तामित्युक्त्वा महालक्ष्मीः स्वरुपमपरं नृप ॥ सत्त्वाख्येनातिशुद्धेन गुणेनेन्दुप्रभं दधौ ॥१३॥
अक्षमालांकुशधरा वीणापुस्तकधारिणी ॥ सा बभूव वरा नारी नामान्यस्यै च सा ददौ ॥१४॥
महाविद्या महावाणी भारती वाक् सरस्वती ॥ आर्या ब्राह्मी कामधेनुर्वेदगर्भा सुरेश्वरी ॥१५॥
अथोवाच महालक्ष्मीर्महाकालीं सरस्वतीम् ॥ युवां जनयतां देव्यौ मिथुने स्वानुरुपतः ॥१६॥
इत्युक्त्वा ते महालक्ष्मीः ससर्ज मिथुनं स्वयम् ॥ हिरण्यगर्भो रुचिरौ स्त्रीपुंसौ कमलासनौ ॥१७॥
ब्रह्मन्विधे विरंचेति धतरित्याह तं नरम् ॥ श्रीः पद्मे कमले लक्ष्मीत्याह माता स्त्रियं च ताम् ॥१८॥
महाकाली भारती च मिथुने सृजतः सह ॥ एतयोरपि रुपाणि नामानि च वदामि ते ॥१९॥
नीलकंठं रक्तबाहुं श्वेताङ्गं चंद्रशेखरम् ॥ जनयामास पुरुषं महाकालीं सितां स्त्रियम् ॥२०॥
स रुद्रः शंकरः स्थाणुः कपर्दी च त्रिलोचनः ॥ त्रयीविद्या कामधेनुः सा स्त्री भाषास्वराक्षरा ॥२१॥
सरस्वती स्त्रियं गौरीं कृष्णं च पुरुषं नृप ॥ जनयामास नामानि तयोरपि वदामि ते ॥२२॥
विष्णुः कृष्णो हषीकेशो वासुदेवो जनार्दनः ॥ उमा गौरी सती चंडी सुंदरी सुभगा शुभा ॥२३॥
एवं युवतयः सद्यः पुरुषत्वं प्रपेदिरे ॥ चक्षुष्मंतो नु पश्यंति नेतरेऽतद्विदो जनाः ॥२४॥
ब्रह्मणे प्रददौ पत्नीं महालक्ष्मीर्नूप त्रयीम् ॥ रुद्राय गौरीं वरदां वासुदेवाय च श्रियम् ॥२५॥
स्वरया सह संभूय विरंचोऽण्डमजीजनत् ॥ बिभेद भगवान् रुद्रस्तद्गौर्या सह वीर्यवान् ॥२६॥
अण्डमध्ये प्रधानादि कार्यजातमभून्नृप ॥ महाभूतात्मकं सर्व जगत् स्थावरजंगमम् ॥२७॥
पुपोष पालयामास तल्लक्ष्म्या सह केशवः ॥ महालक्ष्मीरेवमजा राजन् सर्वेश्वरेश्वरी ॥२८॥
निराकारा च साकारा सैव नानाभिधानभृत् ॥ नामांतरैर्निरुप्यैषा नाम्ना नान्येन केनचित् ॥२९॥
मार्कडेयपुराणे प्राधानिकं रहस्यम् ॥

N/A

References : N/A
Last Updated : June 17, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP