दुर्गा सप्तशती - अथ कीलकम्

दुर्गा सप्तशतीचा पाठ केल्याने जीवनातील सर्व पापे नष्ट होऊन मुक्ति मिळते.

॥ अथ कीलकम् ॥

अस्य श्रीकीलकस्तोत्रमंत्रस्य शिवऋषिः, अनुष्टुपछंदः, श्रीमहासरस्वती देवता, श्रीजगदंबाप्रीत्यर्थ सप्तशतीपाठांगजपे विनियोगः
॥ ॐ नमश्चण्डिकायै ॥ ॐ मार्कण्डेय उवाच ॥ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे ॥ श्रेयः प्राप्तिनिमित्ताय नमः सोमार्धधारिणे ॥१॥
सर्वमेतद्विना यस्तु मन्त्राणामपि कीलकम् ॥ सोऽपि क्षेममवाप्नोति सततं जाप्यतत्परः ॥२॥
सिद्ध्यन्त्युच्चाटनादीनि वस्तूनि सकलान्यपि ॥ एतेन स्तुवतां नित्यं स्तोत्रमात्रेण सिद्ध्यति ॥३॥
न मन्त्रो नौषधं तत्र न किंचिदपि विद्यते ॥ विना जाप्येन सिद्ध्येत सर्वमुच्चाटनादिकम् ॥४॥
समग्राण्यपि सिद्ध्यंति लोकशंकामिमां हरः ॥ कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम् ॥५॥
स्तोत्रं वै चण्डिकायास्तु तच्च गुह्यं चकार सः ॥ समाप्तिर्न च पुण्यस्य तां यथावन्नियन्त्रणाम् ॥६॥
सोऽपि क्षेममवाप्नोति सर्वमेव न संशयः ॥ कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः ॥७॥
ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति ॥ इत्थंरुपेण कीलेन महादेवेन कीलितम् ॥८॥
यो निष्कीलां विधायैनां नित्यं जपति सुस्फुटम् ॥ ससिद्धः सगणः सोऽपि गन्धर्वो जायते वने ॥९॥
न चैवाप्यटतस्तस्य भयं क्वापि हि जायते ॥ नाऽपमृत्युवशं याति मृतो मोक्षमवाप्नुयात् ॥१०॥
ज्ञात्वा प्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति ॥ ततो ज्ञात्वैव सम्पन्नमिदं प्रारभ्यते बुधैः ॥११॥
सौभाग्यादि च यत्किंचिद्दृश्यते ललनाजने ॥ तत्सर्व तत्प्रसादेन तेन जाप्यमिदं शुभम् ॥१२॥
शनैस्तु जप्यमानेऽस्मिन्स्तोत्रे सम्पत्तिरुच्चकैः ॥ भवत्येव समग्रापि ततः प्रारभ्यमेव तत् ॥१३॥
ऐश्वर्य यत्प्रसादेन सौभाग्यारोग्यसम्पदः ॥ शत्रुहानिः परो मोक्षः स्तूयते सा न किं जनैः ॥१४॥ ॥
भगवत्याः कीलकस्तोत्रम् ॥३॥
ॐ अस्य श्रीनवार्णमंत्रस्य ब्रह्मविष्णुरुद्रा ऋषयः ॥ गायत्र्युष्णिगनुष्टुभश्छंदांसि ॥ श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः ॥ नंदाशाकंभरीभीमाः शक्तयः ॥ रक्तदंतिकादुर्गाभ्रामर्यो बीजानि ॥ अग्नि वायुसूर्यास्तत्त्वानि ॥ श्रीमहाकाली - महालक्ष्मी - महासरस्वतीप्रीत्यर्थ जपे विनियोगः ॥ ब्रह्मविष्णुरुद्रऋषिभ्यो नमः शिरसि ॥ गायत्र्युष्णिगनुष्टुपछंदोभ्यो नमो मुखे ॥ श्रीमहाकाली - महालक्ष्मी - महासरस्वती - देवताभ्यो नमः ॥ नंदाशाकम्भरीभीमाशक्तिभ्यो नमो दक्षिणस्तने ॥ रक्तदंतिकादुर्गाभ्रामरीबीजेभ्यो नमो वामस्तने ॥ अग्निवायुसूर्यतत्त्वेभ्यो नमो नाभौ ॥ इति ऋष्यादिन्यासः ॥ भूलेन करौ संशोधयेत् ॥

N/A

References : N/A
Last Updated : June 17, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP