दुर्गा सप्तशती - बलिदानम्

दुर्गा सप्तशतीचा पाठ केल्याने जीवनातील सर्व पापे नष्ट होऊन मुक्ति मिळते.

॥ अथ बलिदानम् ॥
मूलांते श्रीमहालक्ष्म्यै नमः पायसबलिं समर्पयामि इति महाकाल्यादियोगिन्यंतयंत्रस्थावरणदेवताभ्यः प्रत्येकं सर्वाभ्यो बलिं दद्यात्
॥ अथ कूष्मांडबलिविधानम् ॥
आचम्य प्राणानायम्य देशाद्युच्चार्य मम सकुटुंबस्य सर्वारिष्टप्रशांतिसर्वाभीष्टसिद्धिकल्पोक्तफलावाप्तिद्वारा श्रीमहाकाली० ३ देवताप्रीत्यर्थ कूष्मांडबलिदानं करिष्ये ॥ तदंगत्वेन पंचोपचारैः पूजनं बलिपूजनं च करिष्ये ॥ मूलेन मुख्यदेवतां पंचोपचारैः संपूज्य तत्पुरतः स्वयमुदङ्मुखो बलिं प्राङ्मुखं पीठे वस्त्रावगुंठितं कूष्मांडं निधाय ॐ कूष्मांडबलये नमः इति आवाहनवस्त्रगंधपुष्पादिभिः संपूज्याभिमंत्रयेत् ॥ पशुस्त्वं बलिरुपेण मम भाग्यादवस्थितः ॥ प्रणमामि ततः सर्वरुपिणं बलिरुपिणम् ॥१॥
चंडिकाप्रीतिदानेन दातुरापद्विनाशनम् ॥ चामुंडाबलिरुपाय बले तुभ्यं नमोऽस्तु ते ॥२॥
यज्ञार्थ बलयः सृष्टाः स्वयमेव स्वयंभुवा ॥ अतस्त्वां घातयाम्यद्य यस्माद्यज्ञे मतो वधः ॥ इति ॥ ततः शस्त्रं गंधादिना संपूज्य अभिमंत्रयेत् ॥ ऐंह्लींश्रीं रसना त्वं चंडिकायाः सुरलोकप्रसाधकः ॥ इति ह्लांह्लीं खङ्ग आंहुं फट् इति हस्ते शस्त्रं गृहीत्वा ॥ ॐ कालिकालि वज्रेश्वरि लोहदंडायै नमः ॥ इति पठन् छित्त्वा छेदनावसरे न विलोकयेत् ॥ कौशिकी रुधिरेणाप्यायतामिति देव्यै अर्ध निवेद्य अवशिष्टार्धस्य पंचभागान्कृत्वा पूतनायै बलिभागं निवेदयामि ॥ चरक्यै बलिभागं० विदार्यै बलिभागं० पापराक्षस्यै बलिभागं० ॥ ततो माषपिष्टपशुं शत्रुं शस्त्रेण छित्त्वा स्कंदाय पश्चर्ध समर्पयामि ॥ विशिखाय पश्वर्ध स० इति समर्प्य शेषं रक्षोभ्यो हरेत् ॥२॥
मंत्रास्तु - ॐ ह्लींस्फुर स्फुर ॐ फ्रीं ॐ हुंफट् मर्द मर्द हुं इति तच्छॆषं बहिर्दद्यात् ॥ बलिं गृह्णंत्विमं देवा आदित्या वसवस्तथा ॥ मरुतश्चाश्विनौ रुद्राः सुपर्णाः पन्नगा ग्रहाः ॥ असुरा यातुधानाश्च पिशाचोरगराक्षसाः ॥ डाकिन्यो यक्षवेताला योगिन्यः पूतनाः शिवाः ॥ जृंभकाः सिद्धगंधर्वाः साध्या विद्याधरा नगाः ॥ दिक्पाला लोकपालाश्च ये च विघ्नविनायकाः ॥ जगतां शांतिकर्तारो ब्रह्माद्याश्च महर्षयः ॥ मा विघ्नं मा च मे पापं मा संतु परिपंथिनः ॥ सौम्या भवंतु तृप्तास्ते भूतप्रेताः सुखावहाः ॥ भूतानि यानीह वसंति तानि बलिं गृहीत्वा विधिवत्प्रयुक्तम् ॥ अन्यत्र वासं परिकल्पयंतु रक्षंतु मां तानि सदैव चात्र ॥ इति ॥ ततः स्नात्वा कृततिलको देवीं प्रार्थयेत् ॥ खङ्गिनी शू० ५ शूलेन पा० ४ सर्वस्वरुपे० ५ रुपं देहि जयं देहि भगं भगवति देहि मे ॥ पुत्रान्देहि धनं देहि सर्वकामांश्च देहि मे ॥ महिषघ्नि महामाये चामुण्डे मुण्डमालिनि ॥ आयुरारोग्यमैश्वर्य देहि देवि नमोऽस्तु ते ॥ इति प्रार्थयेत् ॥ एतद्वलिदानं होमांगं तच्च होमोत्तरमेव ॥ पूजांगं वैकल्पिकम् ॥ तत्र च पायसबलिदानमवश्यमेव ॥ इति बलिदानविधिः ॥ ]
॥ अथ सरस्वतीपूजनम् ॥ ॐ नमः पिशाचनिकरंकिनि त्रिशूलखङ्गहस्ते सिंहारुढे एह्येहि आगच्छ आगच्छ इमां पूजां गृह्ण गृह्ण स्वाहा ॥ श्रीसप्तशतिसरस्वत्यै नम आवाह्यामि ॥ तत ॐ ही चंडिकायै नमः ॥ इति मंत्रेण षोडशोपचारैः पूजयेत् ॥
॥ अथ शापोद्धारमंत्रः ॥ ॐ ह्लींक्लींश्रींक्रांक्रीं चण्डिके देवि शापानुग्रहं कुरु कुरु स्वाहा ७ वारं जपेत् ॥
॥ अथ उत्कीलनमंत्रः ॥ ॐ श्रींक्लींह्लीं सप्तशतिचण्डिके उत्कीलनं कुरु कुरु स्वाहा २१ वारं जपेत ॥

N/A

References : N/A
Last Updated : June 17, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP