संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - सर्वाष्टकवर्गरेखाफलम्

मानसागरी - अध्याय ४ - सर्वाष्टकवर्गरेखाफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


मरणं चतुर्दशभिः सक्रूरैः पञ्चदशभिर्वा । षोडशभिरङ्गपीडा भवति शरीरे महाव्याधिः ॥१॥

सप्तदशभिर्दुःखमष्टादशभिर्धनक्षयः प्रोक्तः । बान्धवपीडा बह्नी भवति तथैकोनविंशत्या ॥२॥

व्ययकलहो विंशतिभिर्गदो दुःखं तथैकविंशत्या । कुमतिर्द्वाविंशतिबिर्दैन्यं च पराभवो विफलम् ॥३॥

नूनं त्रिवर्गहानिर्भवति नराणां त्रिविंशतिभिर्नित्यम् । द्रव्यक्षयस्त्वकस्माद्विंशतिभिश्चतुर्भिरधिकाभिः ॥४॥

करतलगतमपि च धनं नश्यति नराणां पंचविंशतिभिः । षङ्विशतिभिः क्लेशः समता स्यात्सप्तविंशतिभिः ॥५॥

अष्टाधिकविशत्या द्रव्यागमनं यथासुखं भवति । एकोनत्रिंशतिभिर्लोकेषु नरः पूज्यतामेति ॥६॥

मानं सुकृतव्याप्तिस्त्रिंशत्या नास्ति सन्देहमानम् । सुकृतिं सौख्यं नृणामेकाभिरधिकाभिः स्यात् ॥७॥

राज्यादिफलप्राप्तिः कथिता षडाकृतिं यावत् ॥८॥

N/A

References : N/A
Last Updated : April 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP