संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - शतपदचक्रम्

मानसागरी - अध्याय ४ - शतपदचक्रम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


चक्रं शतपदं वक्ष्ये ऋक्षांशाक्षरसंभवम् । नामादिवर्णतो ज्ञेयमृक्षराश्यंशकं तथा ॥१॥

तिर्यगूर्ध्वगता रेखा रुद्रसंख्या लिखेदबुधः । जायते कोष्ठकं तत्र शतमेकं न संशयः ॥२॥

न्यस्यावकहडादीनि रुद्रादिविशः क्रमात् । पञ्चपञ्च क्रमेणैव विंशद्धर्णान्प्रयोजयेत् ॥३॥

पञ्चस्वरसमायोग एकैकं पञ्चधा कुरु । कुर्यात्कुपुमृदुस्थानि त्रीणि त्रीण्यक्षराणि च ॥४॥

कुघडव भवेत्स्तंभो रौद्रईशानगोचरे । पुषणठ भवेत्स्तंभो हस्तमाज्ञेयसंज्ञके ॥५॥

भधफढ भवेत्पूर्वे दुधडज उत्तरातले । एवं स्तम्भचतुष्कं च ज्ञातव्यं स्वरवेदिभिः ॥६॥

धिष्ण्यानि कृत्तिकादीनि प्रत्येकं चतुरक्षरैः । साभिजित्पञ्चशस्तस्य शतकं द्वादशाधिकम् ॥७॥

यदृक्षांशककोष्ठस्थः क्रूरः सौम्योऽपि वा ग्रहः । यतस्तद्वर्जयेन्नित्यं पुंसो नामाद्यमक्षरम् ॥८॥

सौम्ये विद्धे शुभं ज्ञेयमशुभं पापखेचरैः । मिश्रैर्मिश्रफलं तत्र निर्वेधैन शुभाशुभम् ॥९॥

यदुक्तं सर्वतोभद्रं ग्रहोपग्रहवेधतः । शुभाशुभफलं सर्व तदिहापि विचिन्तयेत् ॥१०॥

N/A

References : N/A
Last Updated : March 30, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP