संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - तत्रादौ सूर्यचक्रम्

मानसागरी - अध्याय ४ - तत्रादौ सूर्यचक्रम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


लिखित्वा नरचक्रं च यत्र सूर्यो व्यवस्थितः । तन्नक्षत्रादिकं कृत्वा त्रयं दद्याच्च मस्तके ॥१॥

वदने च त्रयं दद्यादेकैकं स्कन्धयोर्द्वयोः । बाहुद्वये तथैकैकं पाणौ चैकैकमेव च ॥२॥

ऋक्षाणि त्दृदये पंच नाभौ स्यादेकमेव हि । ऋक्षं गुह्ये भवेदेकमेकैकं जानुनोर्द्वयोः ॥३॥

नक्षत्राणि षडन्यानि दद्यात्पादद्वये बुधः । पादस्थिते च नक्षत्रे निर्द्धनोऽल्पायुरेव च ॥४॥

विदेशगमनो जातो गुह्ये स्यात् पारदारिकः । अल्पतोषी भवेन्नाभौ त्दृदये चेश्वरस्तथा ॥५॥

तस्करः पाणियुग्मे च बाहौ स्थानच्युतो भवेत् । स्कन्धे गजस्कन्धगामी मुखे मिष्टान्नभोजनम् ॥६॥

मस्तकस्थे च नक्षत्रे पट्टबन्धो भवेन्नरः । सूर्यनक्षत्रतो जन्मनक्षत्रमिति गण्यते ॥७॥

शतवर्षाणि जीवेत शिरोजातो न संशयः । मुखेनाशीतिवर्षाणि स्कन्धाभ्यां च तथैव च ॥८॥

हस्ताभ्यां बाहुयुग्मेन जीवेत सप्तसप्ततिः । त्दृदये अष्टषष्टी च नाभौ चापि तथैव च ॥९॥

गुह्ये च षष्टिवर्षाणि चाष्टौ वर्षाणि जानुनि । पादयोः षट् च वर्षाणि रविचक्रे क्रमेण च ॥१०॥

N/A

References : N/A
Last Updated : March 29, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP