संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - धनभावविचारः

मानसागरी - अध्याय ४ - धनभावविचारः

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


पापाः सर्वे धनस्थाने धनहानिकरा मताः । अन्यैः सौम्यैः शुभं सर्वमृद्धिवृद्धिधनादिकम् ॥१॥

क्रूराश्चतुर्षु केन्द्रेषु तथा क्रूरो धनेऽपि च । दरिद्रयोगं जानीयात्स्वपक्षस्य भयंकरः ॥२॥

अष्टमस्थो यदा भौनास्त्रिकोणे नीचगो रविः । स शीघ्रमेव जातः स्याद्भिक्षाजीवी च दुःखितः ॥३॥

कन्यायां च यदा राहुः शुक्रौ भौमः शनिस्तथा । तत्र जातस्य जायेत कुबेरादधिकं धनम् ॥४॥

अर्ककेन्द्रे यदा चन्द्रो मित्रांशे गुरुणेक्षितः । वित्तवाञज्ज्ञानसंपन्नो जायते च तदा नरः ॥५॥

स्वक्षेत्रस्थो यदा जीवो बुधः सौरिस्तथैव च । तदा जातः स दीर्घायुः संपत्तिश्च पदेपदे ॥६॥

लग्नं लग्नेशसंयुक्तं यस्य जन्मनि जायते । न मुञ्चन्ति गृहं तस्य कुलस्त्रिय इव श्रियः ॥७॥

चन्द्रेण मङ्गलो युक्तो जन्मकाले यदा भवेत् । तस्य जातस्य गेहं तु लक्ष्मीर्नैव विमुञ्चति ॥८॥

मासमध्ये तु यत्संख्यदिवसैर्जायते पुमान् । तत्संख्यवर्षभुक्तौ तु लक्ष्मीभर्वति निश्चितन् ॥९॥

N/A

References : N/A
Last Updated : March 29, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP