संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - जारजयोगः

मानसागरी - अध्याय ४ - जारजयोगः

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


एकः पापो यदा लग्ने लग्नेशो वा न पश्यति । सूर्यः पश्यति नो लग्नमन्यजातस्तदा भवेत् ॥९५॥

तिथिप्रान्ते दिनान्ते च लग्नस्यान्ते तथैव च । चरांशेऽपि च यो जातः सोऽन्यजातः शिशुर्भवेत् ॥९६॥

न पश्यति शशी लग्नं मध्यस्थः सौम्यशुक्रयोः । ततः परोक्षे जन्म स्याद्भौमेऽस्ते वा तनौ यमे ॥९७॥

जीवक्षेत्रगते चन्द्रे शुक्रे वेतरराशिगे । द्रेष्काणे च तदंशे वा न परैर्जात इष्यते ॥९८॥

न लग्नमिन्दुर्न गुरुर्निरीक्षते न वा शशाङ्को रविणा समागतः ।

सौरेण वार्केण युतश्च वा शशी परेण जातः प्रवदन्ति सूरयः ॥९९॥

लग्नं पश्यति नोऽङ्गिरा न च भृगुर्जारेण जातः शिशुः क्षौणर्कः समवेक्षते शशधरो योगे शिववन्यजे ।

चन्द्रः पापयुतो दिनेशसहेतः स्यादेवमप्यन्यजः प्रोक्तं प्राङमुनिपुङ्गवैः स्फुटमिदं योगत्रये जयते ॥२००॥

यदि वापि भवेच्चन्द्रो जन्माष्टमद्वितीयगः । द्वादशैकादशस्यो वा पश्चाज्जातस्तदा शिशुः ॥१॥

क्षपाकरः पश्यति नैव लग्नं विशिसंस्थे जनके प्रसूतः । कुजार्किसंसर्गगते विलग्ने कवीज्यकेन्द्रशविहीनके वा ॥२॥

रविशशियुते सिंहे लग्ने कुजार्किनिरीक्षिते नवनरहितः सौम्यैः खेटैः स बुद्धुदलोचनः ।

व्ययगृहगतश्चन्द्रो वा महीजस्त्वपरं रविर्न शुभा गदिता योगा भवन्ति शुभेक्षिताः ॥२०३॥

N/A

References : N/A
Last Updated : March 29, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP