संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - दुर्धरायोगफलम्

मानसागरी - अध्याय ४ - दुर्धरायोगफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


अनृतको बहुवित्तो निपुणोऽतिशठो गुणाधिको लुब्धः । वृद्धस्त्रीप्रसक्तः कुलाग्रणीः शशिनि भौमबुधमध्ये ॥१॥

ख्यातः कर्मसु कितवो बहुधनवैरस्त्वमर्षणो धृष्टः । आरक्षकः कुजगुर्वोर्मध्यगते शशिनि संग्राही ॥२॥

'' उत्तमरामासुभगो विषादशीलोऽस्त्रविद्भवेच्छूरः । व्यायामी रणशीलः सितारयोर्मध्यगे चन्द्रे ॥ ''

उत्तमसुरतो बहुसंचयकारको व्यसनसक्तः । क्रोधी पिशुनो रिपुमान् यमारयोः स्याहुरधरायाम् ॥३॥

धर्मरतः शास्त्रज्ञो वाक्पटुः सर्ववर्द्धनः समृद्धः । त्यागयुतो विख्यातो गुरुबुधमध्यस्थिते चन्द्रे ॥४॥

प्रियवाक् सुभगः कान्तः प्रवृत्तगो यदि सुकृतवान् नृपतिः । सौख्यः शूरो मंत्री बुधसितयोर्मध्यगे च हिमकिरणे ॥५॥

देशेदेशे गच्छति वित्तवशो नास्ति विद्यया सहितः । चन्द्रेऽन्येषां पूज्यः स्वजनविरोधी ज्ञमन्दयोर्मध्ये ॥६॥

धृतिमेधः स्थैर्ययुतो नीतिज्ञः कनकरत्नपरिपूर्णः । ख्यातो नृपकृत्यकरो गुरुसितयोर्दुरुधरायोगे ॥७॥

सुखनयविज्ञानयुतः प्रियवाग्निद्वान् धुरंधरो मर्त्यः । ससुतो धनी सुरुपश्चन्द्रो गुरुभार्गवे तुलान्तरगे ॥८॥

वृद्धवनितः कुलाढ्यो निपुणस्त्रीवल्लभो धनसमृद्धः । नृपसत्कृतं बहुज्ञं कुरुते चन्द्रः शनिसितयोः ॥९॥

N/A

References : N/A
Last Updated : March 28, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP