संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - शुक्रफलम्

मानसागरी - अध्याय ३ - शुक्रफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


भवनवाद्दनवृन्दपुराधिपः प्रचलनप्रियताविहितादरः ।

यदि च संजनने हि भवेत्कविः कवियुतो वियुतो रिपुभिर्नरः ॥१॥

बहुकलत्रसुतोत्सवगौरवं कुसुमगन्धरुचिः कृषिनिर्मितः ।

वृषगते भृगुजे कमला भवेदविरलाविरला रिपुमण्डली ॥२॥

भृगुसुते जनने मिथुने स्थिते सकलशास्त्रकलामलकौशलम् ।

सरलता ललिता किल भारती समधुरा मधुरान्नरुचिर्भवेत् ॥३॥

द्विजपते सदने भृगुनन्दने विमलकर्मप्रतिर्गुणसंयुतः ।

जनमलं सकल कुरुते वशं सकलया कलयापि गिरा नरः ॥४॥

हरिगते सुखैरिपुरोहिते युवतितो धनमानसुखानि च ।

निजजनव्यसनान्यपि मानवस्त्वहिततो हिततोषमनुव्रजेत् ॥५॥

भृगुसुते सति कन्यकयान्विते बहुधनं खलु तीर्थमनोरथः ।

कमलया पुरुषोऽपि विभूषितस्त्वमितया मितयापि गिरान्वितः ॥६॥

कुसुमवस्त्रविचित्रधनान्वितो बहुगमागमनो ननु मानवः ।

जननकालतुलाकलनं यदा सुकविना कविनायकतां व्रजेत् ॥७॥

कलहघातमतिं जननिन्द्यतां प्रजनतामयतां नियतां नृणाम् ।

व्यसनतां जननेऽलिसमाश्रितः कविरलं विरलं कुरुते धनम् ॥८॥

युवतिसूनुधनागमनोत्सवं सचिवतां नियतं शुभशीलताम् ।

धनुषि कार्मुकगः कविनन्दनः कविरतिं विरति कुरुते नृणाम् ॥९॥

अभिरतस्तु जराङ्गणया नृणां व्ययभयात्कृशतामतिचिन्तया ।

भृगुसुते मृगराशिगते सदा कविजने विजनेऽपि मतिर्भवेत् ॥१०॥

उशनसः कलशे जनुषि स्थितौ वसनभूषणभागविहीनतात् ।

विमलकर्ममहालसता नरैरुषगतापगतापि रमा भवेत् ॥११॥

भृगुसुते सति मीनसमन्विते नरपतेर्विभुता वितता भवेत् ।

रिपुसमाक्रमणद्रविणागमो वितरणे तरणे प्रणयो नृणाम् ॥१२॥

N/A

References : N/A
Last Updated : March 25, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP